कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
५९२ कथासरित्सागर
५९२ कथासरित्सागर
निशीथे च यशोवर्मा स्वप्नेऽपश्यदशङ्कितम्।
प्रविष्टानत्र पुरुषान् दण्डहस्तान् भयङ्करान्॥१७९॥
धिगल्पाम्यधिकः कर्षो घृतस्य किमिति त्वया।
मांसौदनश्च भुक्तोऽद्य पीतं च पयसः पलम्॥१८०॥
इति क्रोधाद् ब्रुवाणैस्तैराकृष्यैवाथ पात्यतः।
पृष्ठपैरर्थवर्मा स सगूढे पर्यताड्यत॥१८१॥
घृतकर्षपयोमांसभक्तमम्यधिकं च यत्।
भुक्तं तत्सर्वमुद्दरादाजकर्षुश्च तस्य ते॥१८२॥
तद्दृष्ट्वा स यशोवर्मा प्रबुद्धो यावदीक्षते।
तावत्तस्याययौ शूलं विद्युत्स्पर्धमयोमयम्॥१८३॥
तत्र क्रन्दन् परिजनैर्मर्द्यमानोदरश्च सः।
वमति स्मार्थवर्मा तदधिकं यत्स भुक्तवान्॥१८४॥
शान्तशूले ततस्तस्मिन्यशोवर्मा व्यचिन्तयत्।
धिग्धिगर्थधियमिमां यस्या भोगोऽप्यमीदृशः॥१८५॥
भस्त्रीकृतयमीदृश्या भूमादमवनिःधियः।
इत्यन्तश्चिन्तयन्सोऽत्र रात्रिं तामत्यवाहयत्॥१८६॥
प्रातस्तमर्थवर्माणमामन्त्र्य स ययौ ततः।
यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः॥१८७॥
सत्राभ्यागादधावत्स तेनापि च कृतादरः।
निमन्त्रितोऽभूद्वणिजा सवहुर्भोजनाय सः॥१८८॥
न चास्य वणिजोऽपश्यत् स कञ्चिद्धनसञ्चयम्।
अपश्यत्तु शुभं वेश्म वासांस्याभरणानि च॥१८९॥
ततः स्थिते यशोवर्म्मण्यस्मिन्प्रावर्त्ततात्र सः।
भोगवर्मा वणिक्कर्त्तुं व्यवहारं निजोचितम्॥१९०॥
अमस्माद् भाण्डमादाय दशवन्धस्य तत्क्षणम्।
विनेय स्वधनं मध्याहीनानुबपाणयत्॥१९१॥
त्वरितं तान् च दीनारान्भृत्यहस्तं विसृष्टवान्।
स्वभार्याय विचित्रात्नपानसम्पादनाय च॥१९२॥