कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
५७८ कथासरित्सागर
५७८ कथासरित्सागर
नरवाहनदत्तश्च पित्रोर्दत्तोत्सवो दृशोः।
अथा सम्भावयामास भार्या मार्गोन्मुखीर्निजाः॥७८॥
ताश्चोन्मिषिदवर्षेरिव तं च कृशीकृताः।
अनन्यत्रन्वर्णयन्त्यस्तां तां विरहवेदनाम्॥७९॥
गोमुखो वनवासे च रक्षतो रणवाजिनः।
प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत्॥८०॥
एष श्रुतिसुखाञ्छृण्वन् कथाशपानयन्त्रणान्।
निर्वर्णयैष कान्तानां रूपं स नयनामृतम्॥८१॥
कुर्वंश्चाटूनि च पिबन् मधूनि सचिवैर्युतः।
नरवाहनवतोऽत्र तं कालमवसत्सुखी॥८२॥
एकदाऽसिरलङ्कारवतीवासगृहे स्थितः।
सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः॥८३॥
ततो हरिशिखं सेनापतिं निजमुवाच सः।
अकस्मात्कुत एतस्यात्तूर्यनादो महानिह॥८४॥
समुद्रशूरस्य कथा
एतच्छ्रुत्वैव निर्गत्य प्रविश्य च स तं क्षणात्।
व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम्॥८५॥
शूरो नाम वणिग्देव नगर्यामिह विद्यते।
इतः सुवर्णद्वीपं च स जगाम वणिज्यया॥८६॥
आगच्छंस्ते निजस्तास्य सम्प्राप्तोऽप्यर्थसञ्चयः।
अम्भौ वहनमङ्गेन निमग्नो नाक्षमगात्॥८७॥
उत्तीर्णश्चारमर्नेवैको देव जीवन्स वारिधेः।
प्राप्तश्चाद्य दिने षष्ठमिहापन्नो निजं गृहम्॥८८॥
दिनानि कतिचिद्यावदिह तिष्ठति दुःखितः।
तावत् स्वारामतो दैवात् प्राप्तस्तेन निधिर्महान्॥८९॥
तद् गोत्रजानां च मुदाऽज्ञातं यत्सोदरेण तत्।
ततोऽस्यागत्य तेनासी विज्ञप्तो वणिजा प्रभुः॥९०॥
सरत्नोघा मया लब्धाऽद्यतन्त्रा हेमकोटयः।
तदाविशति देवस्तदपयिष्यामि सा इति॥९१॥
जन्माशयेन मुषितं दीनं दृष्ट्वैव वेधसा।
कृपया सविभक्तं स्वां वो मय्यारयञ्जडाशयः॥९२॥