कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१९८ कथासरित्सागर
१९८ कथासरित्सागर
अहू यदि जितस्तत्र पणः सैव करेणुका।
अथ यदि जितो वा स्यात्तदश्वावेव तौ पणौ ॥१८॥
सर्वां जवान्तरं ज्ञातुं क्षमो नायस्त्वया विना।
तदस्मद्गृहमागत्य तत्परीक्षां कुरु प्रभो ॥१९॥
प्रसीद त्वं हि सर्वार्थप्रार्थनाकल्पपादपः।
आवां त्वामभ्यागतौ दूरादेतदर्थं तवार्धिनौ ॥२०॥
एवं रुचिरदेवेन सोऽभितोऽश्ववधारसात्।
अनुरोधाच्च वत्सेशसूनुस्तत्प्रत्यपद्यत ॥२१॥
तदुपानीतवाताश्वरूढस्तद्देव सः।
प्रतस्थे प्राप वैशाखपुरं ताभ्यां समं च तत् ॥२२॥
कोऽयं स्यात्किंस्विदप्राप्तरतिः कामो नवोद्भवः।
किं वा द्वितीयश्चन्द्रोऽयमफलङ्को दिवाचरः ॥२३॥
उत वा पुरुषाकारो धात्रा कामस्य निर्मितः
तरुणीहृदयाकाण्डसमूलोन्मूलने घटः ॥२४॥
इत्युन्मदाकुलोत्पक्ष्मलोचनाभिर्विलोक्य सः।
वर्ध्यमानः पुरस्त्रीभिस्तद्विवेश पुरोत्तमम् ॥२५॥
शृङ्गारैकमयं तत्र युवराजो ददर्श सः।
पूर्वं कृतप्रतिष्ठस्य कामदेवस्य मन्दिरम् ॥२६॥
तस्मिन् रतिप्रीतिप्रदे प्रविश्य प्रणिपत्य तम्।
कामदेवं स विश्रम्य क्षणमध्वश्रमं जहौ ॥२७॥
ततस्तद्भवनाभ्यर्णवर्ति विवेश च।
प्रीत्या रुचिरदेवस्य मन्दिरं तत्पुरस्कृतः ॥२८॥
वरवाजिगजाकीर्णं तदागमनसोत्सवम्।
ऊर्जितर्धि स तत्पश्यन् रेमे वत्सद्वरात्मजः ॥२९॥
तस्तं रुचिरदेवेन सत्कारैः सत्कृतोऽथ सः।
तत्र तद्भगिनीं कन्यां ददर्शामृतमञ्जरीम् ॥३०॥
तद्रूपशोभाकृष्टेन वधुपा मानसेन च।
न सोऽपश्यत् प्रवासं वा विरहं स्वजनं वा ॥३१॥
सापि दृष्ट्वैव नीलाब्जमालेव प्रफुल्लया।
प्रेमनिक्षिप्तया तस्य चकारैव स्वयंवरम् ॥३२॥