सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

१५४ कथासरित्सागर

१५४ कथासरित्सागर
क्व ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम्।
साप्यदत्तोत्तरा तस्य प्राविशद्भर्तुरन्तिकम् ॥१४५॥
आख्यातमित्रागमना सोऽपि भार्या जगाद ताम्।
उपविश्येह रुदती पादावादाय तिष्ठ मे ॥१४६॥
भर्त्ता म मृत इत्येव वदेरेष सुहृद् मम।
शठो गतेऽस्मिन्नावाभ्यां भोक्तव्या क्षीरिणी सुखम् ॥१४७॥
इत्युक्ता तन यावत्सा प्रवृत्ता रोदितुं तथा।
तावत् प्रविश्य सोऽपृच्छत्किमवेविति तां सुहृत् ॥१४८॥
भर्त्ता मृतो म पश्येति तयोक्तः स व्यचिन्तयत्।
क्व पचन्ती मया दृष्टा सुसिता क्षीरिणीमियम् ॥१४९॥
क्वाधुनैव विपन्नोऽयमवङ्भर्त्ता बिना रुजम्
नूनं मां प्राघुणं दृष्ट्वा कृतमाभ्यामिदं मृषा ॥१५०॥
तन्मया नैव गन्तव्यमित्यालोच्योपविश्य सः।
धूर्त्तो हा मित्र हा मित्रेत्याक्रन्दस्तत्र तस्थिवान् ॥१५१॥
[L16: श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम्।
श्मशानं भोटटक्कं स नेतुमासन् समुद्यताः ॥१५२॥
उत्तिष्ठ बान्धवैर्यावदेतैर्नीत्वा न बध्यसे।
इत्युपांश्ववदत् कर्णमूले भार्या तदा च तम् ॥१५३॥
मैवं शठोऽस्य टक्को मे क्षीरिणीं भोक्तुमिच्छसि ॥
नोत्तिष्ठामि तदेतस्मिन्नगतेऽङ्ग मृतो यदि ॥१५४॥
प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी।
इति प्रत्यब्रवीद् भार्यामुपांश्व स तां जडः ॥१५५॥
ततस्तेन कुमित्रेण नीत्वा तं स्वजनश्च सः।
दह्यमानोऽपि निर्दग्धो ददौ नामरणाद्वचः ॥१५६॥
एवं स मूढो विजहौ प्राणान्न क्षीरिणीं पुनः।
कलहार्जितं च बुभुजे तस्यान्यहँस्तया पुनम् ॥१५७॥

मार्जारमूषकस्य कथा
श्रुतं रूपं शृण्वताममी मार्जारभीतकाः।
उज्जयिन्यामुपाध्यायो मुग्धः कोऽप्यभवन् मठे ॥१५८॥
तत्र निद्रा न तस्याभून्मूषकोपद्रवान्निशि।
तस्मिंस्तस्य सुहृदे स कस्मैचिदवर्णयत् ॥१५९॥