कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
२०० कथासरित्सागर
२०० कथासरित्सागर
वत्स्यस्येकां निशां साकं मया चेत्तद्ददामि ते।
शतानि वाजिनां पञ्च सहस्राणि च वाससाम् ॥८१॥
इत्युक्त्वा सोऽभिकेनापि तां प्रार्थयत सुन्दरीम्।
स्त्रीष्वनर्गरुजष्टासु कस्येच्छा नोपजायते ॥८२॥
तत सा प्रत्यवोचत्समव पृच्छाम्यहं पतिम्।
अत्रापि हि स जाने मां प्ररयवतिलोभतः ॥८३॥
इत्युक्त्वा स्वगृहं गत्वा पत्ये तस्मै सदब्रवीत्।
यदुक्ता तन वणिजा रहः सुखधनन सा ॥८४॥
सोऽप्य पापोऽर्थलोभस्तां कीनाश पतिरब्रवीत्।
प्रिये वस्त्रसहस्राणि पञ्च वाजिशतानि च ॥८५॥
एकया यदि लभ्यन्ते रात्र्या दोषस्तदत्र कः।
तद्गच्छ पार्श्वं तस्याद्य प्रभात द्रुतमष्यसि ॥८६॥
एतच्छ्रुत्वा वचस्तस्य भर्तुः कापुरुषस्य सा।
हृदि मानपरा जातविचिकित्सा व्यचिन्तयत् ॥८७॥
दारविक्रयिणं पापं हीनसत्त्वं धिगस्त्विमम्।
लोभभावनया नित्यं बत तन्मयतां गतम् ॥८८॥
वरं स एव भर्त्ता मे यो मामश्वशतैर्निशाम्।
चीनपट्टसहस्रैश्च क्रीणात्येकामुदारधी ॥८९॥
इत्यालोच्य न मे दोष इत्यनुज्ञाप्य तं ततः।
कुभर्त्तारमगात्तस्य गृहं सुखधनस्य सा ॥९०॥
स च तामागतां दृष्ट्वा पृष्ट्वा श्रुत्वा च तत्कथा।
चित्रीयमाणस्तत्प्राप्तेरमन्तात्मनि धन्यताम् ॥९१॥
प्राहिणोच्चार्थलोभाय तस्मै तत्पतये द्रुतम्।
तच्छुल्कमूतानश्वांश्च वस्त्राणि च यथोचितम् ॥९२॥
उवास च तया साकं पूर्णकामः स तां निशाम्।
मूर्त्तयेव चिरप्राप्तनिजसम्पत्फलधिया ॥९३॥
प्रातश्चाह्वायका भृत्यानर्थलोभेन नित्रपम्।
क्लीवेन तेन प्रहितात्साथ मानपराऽब्रवीत् ॥९४॥