सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

५९९ कथासरित्सागर

५९९ कथासरित्सागर
तस्मात्त्वमपि तमाप्स्यसि पतिमनेधे प्रोषितागत मचिरात् ।
कुरु धृतिमरति परिहर विहर च पतिकामनातामे ॥४१९॥
इति त द्विजमुखतमुक्तवाक्य बहुनामभ्यर्च्य धनेन सवॄगुभ सा ।
अवलम्ब्य धृति प्रतीक्षमाणा दयित व धुमती स्वमन्न तस्थौ ॥४२०॥
अल्पैरेव च तस्या दिनै स पतिरामयो महीपालः ।
देशान्तरे स्थितां ता जननीमादाय पितृसहित ॥४२१॥
आगत्य द्यामृतांशु पार्वण इव वारिराशिजलस्थलमीम् ।
जननमहोत्सबदायी बन्धुमतीं नन्दयामास ॥४२२॥
अथ तत्र तया सहितस्तत्पित्रा पूवदत्तराज्यधुरः ।
स महीपालो बुभुजे राजा सञ्चीप्सितान् भोगान् ॥४२३॥
इत्यारममन्त्रिणरुभूतिमुखात्निशम्य चित्रां कथामनुपमामनुरागरम्याम् ।
रामासक्त स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ॥४२४॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीसम्बके
षष्ठस्तरङ्गः ।
समाप्तश्चायमलङ्कारवतीसम्बको नवमः ।