कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
८४ कथासरित्सागर
८४ कथासरित्सागर
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री देव किं तेन भिक्षुणा।
स्वत्सेवा सा कृतस्यैष तद्वृत्तान्तस्त्वमोच्यताम् ॥४५॥
इत्युक्तो मन्त्रिणा तेन राजा बुद्धिवरण सः।
जगाद शृणु तत्रेतां तत्कथां वर्णयामि ते ॥४६॥
प्रपञ्चबुद्धिभिक्षुकथा
पूर्व पाटलिपुत्रे मे प्रविष्टस्यास्पदान्वहम्।
भिक्षु प्रपञ्चबुद्ध्याख्यः समुद्गकमुपानयत् ॥४७॥
अहं तथैव सतत वर्षमात्रं समर्पयन्।
भाण्डागारिकहस्तं तन्मृद्घाटितमव सत् ॥४८॥
एकदा भिक्षुणा तत्र ढौकितं तत्समुद्गकम्।
देवात् पाणेर्मम पतद्द्विधामूतमभूद् भुवि ॥४९॥
निरगाच्च महारत्नं तस्मादनलभासुरम्।
प्राक्तन्येवाप्यपञ्चिात हृदयं तेन दर्शितम् ॥५०॥
तद्वृष्ट्वादाय चान्यानि तान्यानाय्य विभज्य च।
समुद्गकानि सर्वेभ्यो रत्नान्यहमवाप्तवान् ॥५१॥
ततः प्रपञ्चबुद्धिं तमप्राक्षं विस्मयादहम्।
किमहो सेवसे रत्नैरैष मामीदृशैरिति ॥५२॥
अथान्त्र विजनं कृत्वा स भिक्षुर्मामवोचत।
अस्यां कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥५३॥
श्मशाने साधनीया मे विद्या काचित्सतो बहिः।
तत्र साहायके वीर त्वदागमनमर्थये ॥५४॥
वीरसाहाय्यनिर्विघ्ना सुसुलभ्या हि सिद्धयः।
इत्युक्तो भिक्षुणा तेन तदहं प्रतिपन्नवान् ॥५५॥
अथ दृष्टे गते तस्मिन् दिने कृष्णचतुर्दशी।
चागात्सा श्रमणस्यास्य तस्यास्मार्थमहं वचः ॥५६॥
ततः कृताह्निक्रो भूत्वा प्रबोध्य प्रतिपास्यन्।
कृतसन्ध्याविधिर्देवात् क्षिप्रं निद्रामगामहम् ॥५७॥
तत्क्षणं गरुडारूढो भगवान् भक्तवत्सलः।
हरिः पद्मार्कितोरस्कः स्वप्ने मामेवमादिशत् ॥५८॥