कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
६२ कथासरित्सागर
६२ कथासरित्सागर
इत्युक्त्वा विरतं तस्मिन् मरुभूतिरभाषत ।
देया ममास्मै दीनाराः साम्प्रतं तु न सन्ति मे ॥७॥
इत्युक्तवन्तं सर्वेषु प्रहसत्सु स्वमन्त्रिणम् ।
नरवाहनदत्तस्तं मरुभूतिमभाषत ॥८॥
किमेवं मूर्खमाधत्से नाधिकेयं मतिस्तव ।
उत्तिष्ठ दीनारशतं दद्यास्मा अविशङ्कितम् ॥९॥
एतत्प्रभोर्वचः श्रुत्वा मरुभूतिर्विलज्जितः ।
तदैवानीय दत्तस्मै स दीनारशतं ददौ ॥१०॥
ततोऽत्र गोमुखोऽवादीन्न वाच्या मरुभूतिवत् ।
विचित्रचित्तवृत्तिर्यत् सर्गो देव प्रजापतेः ॥११॥
युष्माभिरेषा किञ्चात्र चिरदातुर्महीपतेः ।
तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ॥१२॥
चिरदातुर्नृपस्य तद्भृत्यस्य प्रसङ्गाख्यस्य च कथा
चिरदातेत्यभूत् पूर्वं राजा चिरपुरेश्वरः ।
सुजनस्यापि तस्यासीत् परिवारोऽतिदुर्जनः ॥१३॥
देशान्तरागतस्तस्य प्रसङ्गो नाम भूपतेः ।
मित्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ॥१४॥
सेवां च कुर्वतस्तस्य व्यतीतं वर्षपञ्चकम् ।
न स राजा ददौ किञ्चिन्निमित्तेऽप्युत्सवादिके ॥१५॥
स च तस्य न सम्प्राप विज्ञप्त्यवसरं प्रभोः ।
परिवारस्य दौरात्म्यात् सख्योः प्रेरयतोः सदा ॥१६॥
एकदा तस्य राज्ञश्च बालः पुत्रो व्यपद्यत ।
दुःखितं यस्य सर्वेऽपि भृत्यास्तं पर्यवारयन् ॥१७॥
तन्मध्यं च प्रसङ्गाख्यः शोकादेव स सेवकः ।
शस्त्रिभ्यां वार्यमाणोऽपि राजानं तं व्यजिज्ञपत् ॥१८॥
बहुकालं वय देव सेवका न च नस्त्वया ।
दत्तं किञ्चित्तथापीह स्थिता स्मस्त्वत्सुताशया ॥१९॥
त्वया यदि न दत्तं तत्स्वपुत्रोऽस्मासु दास्यति ।
सोऽपि दैवेन नीतश्चेत् तन्न किञ्चिदिह साम्प्रतम् ॥२०॥