Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

६५८ कथासरित्सागर

Page 705Permalink

६५८ कथासरित्सागर
सोऽथ चक्रोऽन्तिकं पित्रोः प्राप्यानन्दितबान्धवः।
तस्थावाख्यातवृत्तान्तस्तत्र धर्मपरिश्च्युतः॥१६८॥
इत्याख्याय महीपालं चन्द्रस्वाम्यवदत् पुनः।
ईदृक्पापफलं पुत्र मातापित्रोर्विरोधनम्॥१६९॥
काममेमुस्तु सद्मभितस्तथाप्येषां कथां शृणु।
गर्विणो मुनेः पतिव्रताया धर्मव्याधस्य च कथा
आसीत्कोऽपि मुनिः पूर्वं वनचारी महातपाः॥१७०॥
तरुच्छायोपविष्टस्य तस्योपरि बलाकया।
विष्ठा कदाचिन्मुक्ताभूत्सोऽथ क्रुद्धो ददर्श ताम्॥१७१॥
दृष्टमात्रैव सा तेन बलाका भस्मसादभूत्।
तपःप्रभावाहङ्कारं स च भेजे ततो मुनिः॥१७२॥
एकदा नगरे क्वापि स ब्राह्मणगृहं मुनिः।
एकं प्रविश्य गृहिणीं तत्र भिक्षामयाचत॥१७३॥
प्रतीक्षस्व मनाग्भर्तुः परिचर्यां समापये।
इति तं सा च गृहिणी निजगाद पतिव्रता॥१७४॥
ततस्तं क्रुद्धया दृष्ट्या वीक्षमाणं विहस्य सा।
अभाषत मुने नाहं बलाका मुच्यतामिति॥१७५॥
श्रुत्वैतत्स मुनिस्तस्याश्चक्षुर्विस्मार साऽभूत्।
एतत्कथमिव ज्ञातमनयेति विचिन्तयन्॥१७६॥
ततः कृत्वानिकायर्द्धिः शुश्रूषां भर्तुरत्र सा।
साध्वी भिक्षां समादाय तस्यागादन्तिकं मुनेः॥१७७॥
सोऽथ बद्धाञ्जलिर्भूत्वा मुनिस्तमब्रवत्सतीम्।
कथं बलाकावृत्तान्तः परोक्षोऽपि मम त्वया॥१७८॥
ज्ञात इत्यादितो ब्रूहि भिक्षां गृह्णाम्यहं ततः।
इत्युक्तवन्तं तमृषिं साबोचत् पतिवेवता॥१७९॥
न भर्तृभक्तेरपरं धर्मं कञ्चन वेद्म्यहम्।
तेन मे तत्प्रसादेन विज्ञानबलमीदृशम्॥१८०॥
किं चेह धर्मव्याधस्य मांसविक्रयजीविनः।
गत्वा पश्य ततः श्रेयो निरहङ्कारमाप्स्यसि॥१८१॥
एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः।
गृहीत्वातिथिभागस्तां प्रणम्य निरगात्ततः॥१८२॥