Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

१६६ | कथासरित्सागर

Page 395Permalink

यहाँ दिए गए पृष्ठ का देवनागरी लिप्यन्तरण प्रस्तुत है:

१६६ | कथासरित्सागर
तत्राप्रवित्रमवच्य ता विगलत्त्रपानर्गला
परस्परमुपाश्चिन् सुरतकथायतश्चाप्यपि।
प्रसङ्गमिनिष्ठा कथाप्रसरसन्नविता मिथ
म्पुष्विन् न किमप्यहो यदिह नाद्रमन्ति स्त्रियः ॥१२०॥
अथ कथमपि दीर्घा या कया भात्र तासा
मवसितिमुपयाता सा स रात्रिः क्रमेण।
तिमिरविगमवष्टादशमवामिकांक्षा
रिपुबलविजिगीषास्तत्र सूर्यप्रभस्य ॥१२१॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके
चतुर्थस्तरङ्गः।

पञ्चमस्तरङ्गः
सूर्यप्रभस्य विद्याधरैः सह युद्धवर्णनम्
अथ युद्धभुवं प्रातर्जग्मुः सूर्यप्रभादयः।
श्रुतशर्मादयस्ते च समदाः सशराः पुनः ॥१॥
पुनश्च सेन्द्रा सब्रह्मविष्णुशक्राः सुरासुराः॥
सयक्षारगगन्धर्वाः सङ्ग्रामं द्रष्टुमाययुः ॥२॥
श्रुतशर्मबले चक्रव्यूहं दामोदरो व्यधात्।
वज्रव्यूहं प्रभासश्च सूर्यप्रमबलेऽकरोत् ॥३॥
ततः प्रवृत्तं युद्धं तयोश्चमयसेनयोः।
तूर्येः सुभटनादैश्च बधिरीकृतदिङ्मुखम् ॥४॥
सम्यक्छन्नहता शूरा भिन्दन्ति मम मण्डलम्।
इतीव करजालान्तश्छन्नो भानुरभूद् भिया ॥५॥
वागादरवृतं चक्रव्यूहमयतं दुर्भिदम्।
भित्त्वा प्रभासः प्राविशदथ सूर्यप्रभाज्ञया ॥६॥
तं च दामोदरो व्यूहच्छिद्रमत्यावृणोत्स्वयम्॥
प्रभासो ययुधे तं च सूर्यकरश्च एष सः ॥७॥
प्रविष्टमेककं तं च दृष्ट्वा सूर्यप्रभोऽथ सः।
पश्चात्स्वबलदेवस्य विससर्ज महारथान् ॥८॥