सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

द्वादशः खण्डः] अनाविलोपेताम् । ५९

द्वादशः खण्डः] अनाविलोपेताम् । ५९

यितुं शक्येन । अपक्वानि फलानि शलाटूनि तेषां ग्लप्सेन स्तबकेन, यत्र स्तबके फलानि युग्मानि तेन । त्रिरावृत्तोऽन्यो वर्णो यस्याः तया त्रिरन्यया शलल्या आरण्यस्य वराहविशेषस्य, यस्ये सूच्याकाराणि रोमाणि, तस्य सूची शलली, सा कृष्णा भवति । तत्र कस्याश्चित् त्रिषु स्थानेषु श्वेतो वर्णः अन्यस्या अन्यथा ततो विशेष्यते त्रिरन्ययेति । कुशपिञ्जूलैः कुशस्तम्बैः तरुणकैरतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्वं सीमन्तं व्यूहति । यथा सीमन्तो भवति तथा केशान् पृथक्करोति भूर्भुवःस्वरोमिति मन्त्रेण त्रिश्चतुर्वा । सर्वत्र मन्त्रावृत्तिः ॥ ४ ॥

वीणागाथिनौ संशास्ति ॥ ५ ॥

वीणा च गाथा च ययोस्तौ वीणागाथिनौ । संशास्ति प्रेष्यति ॥ ५ ॥

कथं —
सोमं राजानं संगायतमिति ॥ ६ ॥

अनेन प्रैषेण ॥ ६ ॥

गाथामाह —
सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्रासाविति ॥ ७ ॥

असावित्यत्र सम्बुद्ध्या नद्या नामनिर्देशः ॥ ७ ॥

कस्या नद्याः —
यां नदीमुपावसिता भवन्ति ॥ ८ ॥


१. 'या च श' क. ग. पाठः.
२. 'स्य चकारेण रोम्णा श' क, 'स्याश्चर्यकराणि लोमानि तस्य सूची श' ग. पाठः.
३. 'रेण लोम्ना श' ख. पाठः.

६०आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

यां नदीमुपजीवन्तीत्युक्तं भवति । यथानिविष्टचक्रा कावेरि ताम्रपर्णि यमुने गङ्गे सरस्वतीति ॥ ८ ॥

ब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुः ॥ ९ ॥

तत्तत् कुर्यादिति शेषः । जीवन्ति पतयो यासां तां जीवपत्यः । छान्दसो यणादेशः । जीवपत्न्य इति पाठे “विभाषा सपूर्वस्ये”ति ङीष्नकारौ । यदा तु तौ न भवतः, तदा जीवपतय इति भवति ॥ ९ ॥

वृषभो दक्षिणा ॥ १० ॥

दक्षिणोपदेशादन्यकर्तृकमिति केचित् । नेति वयम् । मन्त्रलिङ्गाद् ‘अस्यै मे पुत्रकामायै गर्भमाधेही’ति । दक्षिणा तु ब्रह्मणे देया तदभावे यस्मैकस्मैचित् सदस्याय ॥ १० ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये द्वादशः खण्डः ।


अथ त्रयोदशः खण्डः ।

कुमारं जातं पुरान्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति ॥ १ ॥


१. ‘हि यः पुमानिति । द’ ग. पाठः.

त्रयोदशः खण्डः] अनाविलोपेसम् । ६१

कुमारमित्यनुच्यमाने जातामिति लिङ्गस्याविवक्षित-
त्वात् कुमार्या अपि प्राप्नोति । आवृत्तैव कुमार्या इत्येतत्तु
प्रवासादेत्येत्यस्मिन् विषये वक्ष्यते । यद्येवं कुमारग्रहणमेवा-
स्तु । तत्रापि लिङ्गस्याविवक्षा प्राप्नोति । किञ्च 'एतेन गोदानं
षोडशे वर्षे' इत्यत्र जातस्य षोडशवर्षं यथा गृह्येत, अनन्तर-
स्योपनयनस्य षोडशवर्षं मा ग्राहीति । पुरान्यैरालम्भाद् या-
वदन्ये न स्पृशेयुः तावदित्यर्थः । सर्पिर्मधुनी विषमघृते
प्राशयेदिति सम्बन्धः । हिरण्यनिकाषं हिरण्यं निकष्य निघृष्य
तेनैव हिरण्येन प्राशयेत् 'प्र ते ददामी'ति मन्त्रेण ॥ १ ॥

कर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवः
सविता मेधां देवी सरस्वती मेधां ते अश्विनौ देवावाधत्तां
पुष्करस्रजौ इति ॥ २ ॥

कर्णयोरुपनिधाय किं प्रकृतं हिरण्यं न मुखं कर्णयो-
र्जपतीत्यर्थासिद्धत्वात् । यस्य मन्त्रस्य जपेन कुमारो मेधावी
भवति स मेधाजननः । मेधां ते देवः सविता इत्यादि-
र्मन्त्रः । उभयोः कर्णयोर्युगपज्जपस्याशक्यत्वादर्थान्मन्त्रस्या
वृत्तिः ॥ २ ॥

अंसावभिमृशति अश्मा भव परशुर्भव हिरण्य-
मस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शत-
मिति । इन्द्रः श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघ-
वन्नृजीषिन्निति च ॥ ३ ॥

मध्ये इतिकरणाच्चशब्दाच्च तेन कल्पजेन मन्त्रेणैव
द्वावंसौ युगपदभिमृश्य पश्चादितराभ्यामन्ते सकृदभिमृ-
शति ॥ ३ ॥

६२आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

नाम चास्मै दद्युः ॥ ४ ॥

बहुवचननिर्देशान्मातृपितृबान्धवा इति समुदिता नाम दद्युः । कालस्तु शास्त्रान्तरादागमयितव्यः । तत्र मनुः —

“नामधेयं दशम्यां तु द्वादश्यां वाथ कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥”

इति ॥ ४ ॥

तस्य लक्षणमाह —
घोषवदाद्यन्तरन्तस्थमभिनिष्टानान्तं द्व्यक्षरं चतुरक्षरं वा ॥ ५ ॥

वर्गाणां द्वितीयचतुर्था रहौ च घोषवन्तः तेषामन्यतमो वर्ण आदौ कर्तव्यः । यरलवा अन्तस्थाः तासामन्यतमो मध्ये कर्तव्यः । अभिनिष्टानो विसर्जनीयः सोऽन्ते कर्तव्यः । 'अभिनिसः स्तनः शब्दसंज्ञायाम्' इति षत्वम् । तच्च द्व्यक्षरं चतुरक्षरं वा भवति। हरो रुद्रो देवः हरदत्तो भवनाग इत्याद्युदाहरणानि ॥ ५॥

द्व्यक्षरं चतुरक्षरं वेति यदुक्तं तत् काम्यमपीत्याह —
द्व्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ॥ ६ ॥

प्रतिष्ठाब्रह्मवर्चसे कुमारस्य, तत्संस्कारत्वात् ; न कर्तुः ॥ ६ ॥

युग्मानि त्वेव पुंसाम् ॥ ७ ॥

युग्मानि युग्माक्षराणि । एवकारात् तुशब्दाच्च पूर्वोक्तं सर्वमतन्त्रम् इदमेव तन्त्रमिति गम्यते यद् युग्मान्यक्षराणि ॥ ७ ॥

त्रयोदशः खण्डः] अनाविलोपेसम् । ६३

अयुजानि स्त्रीणाम् ॥ ८ ॥

अयुग्मान्यक्षराणि पार्वती भवानीत्यादीनि । एवं ता-
वत् संव्यवहारार्थस्य नाम्नः करणमुक्तम् ॥ ८ ॥

अथाभिवादनीयस्य नाम्नः करणमाह—

अभिवादनीयं च समीक्षेत तन्मातापितरौ वि-
द्यातामोपनयनात् ॥ ९ ॥

अयमुपनीतो येनाभिवादयते तदभिवादनीयं नाम ।
करणे कृत्यप्रत्ययः । तदप्यस्मिन् काले समीक्षेत । पूर्वत्र दद्यु-
रिति बहुवचनम् उत्तरत्र मातापितरौ विद्यातामिति द्विवच-
नम् इह त्वेकवचनम् । तत्र न ज्ञायते कः समीक्षेतेति ।
नामकरणे यः प्रधानभूतः कर्ता स समीक्षेत । स च
पिता । तदभावे तत्स्थानीयः । समीक्षणं च सम्यङ् निरूप्य
करणम् । अतस्तदानीमेवाभिवादनीयमपि नाम पिता सम्यङ्
निरूप्य कुर्यादिति, यथा परेण न ज्ञायते । ततस्तन्नाम-
मात्रेऽपि ब्रूयाद् इदमस्याभिवादनीयं नामास्मिन्नवधत्स्वेति ।
तन्मातापितरौ विद्यातामोपनयनात् तदभिवादनीयं नाम
मातापितरावेव विद्यातां जानीयातां नान्ये । कियन्तं कालम्
ओपनयनात् आ उपनयनात् । उपनयने कृते तेनाभिवा-
दयस्वेति कुमारायाचक्षीयाताम् ॥ ९ ॥

प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गाद-
ङ्गात् संभवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि

१४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

स जीव शरदः शतम् इति मूर्धनि त्रिरवघ्राय ॥ १० ॥

यदा पिता प्रोष्य प्रत्यागच्छति तदा पुत्रस्य शिर उभाभ्यां हस्ताभ्यां सर्वतो गृहीत्वा मूर्धनि त्रिरवघ्राणं कृत्वा अङ्गादङ्गात् सम्भवसीत्येकामृचं जपेत् । एतत् पुत्रे प्रोष्यागतेऽपि कर्तव्यं न्यायस्य तुल्यत्वात् । तथा च सत्याषाढगृह्ये — 'आगतं च पुत्रमि'ति ॥१०॥

आवृतैव कुमार्यै ॥ ११ ॥

षष्ठ्यर्थे चतुर्थी । यदनन्तरमुक्तं प्रवासादेत्येति तदत्र विधीयते । अपरे जातकर्मणोऽपि विधानमिच्छन्ति तद् गृह्यान्तरेषु न दृष्टम् ॥ ११ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये त्रयोदशः खण्डः ।


अथ चतुर्दशः खण्डः ।

षष्ठे मास्यन्नप्राशनम् ॥ १ ॥

जन्मनः प्रभृति षष्ठे मास्यन्नप्राशनं कर्तव्यम् ॥ १ ॥

आजमन्नाद्यकामः ॥ २ ॥

यः पुत्रमन्नाद्यमन्नादनं कामयते स आजं प्राशयेत् । अजस्य विकारमाजं मांसं, न क्षीरं दधि घृतं वा तैत्तिरेण साहचर्यात् ॥ २ ॥

तैत्तिरं ब्रह्मवर्चसकामः ॥ ३ ॥

चतुर्दशः खण्डः ] अनाविलोपेताम् । ६५

तित्तिरेर्विकारं तैत्तिरं तित्तिरिः पक्षिविशेषः तन्मांसम् । व्यञ्जनत्वेन चानयोरुपदेशः । अन्नं तु वक्ष्यमाणमेव व्यञ्जनत्वेन चानयोर्लोके प्रसिद्धत्वात् ॥ ३ ॥

घृतौदनं तेजस्कामः ॥ ४ ॥

घृतेन संस्कृत ओदनो घृतौदनः न तु घृतमिश्रः । यदि तथा स्याद् घृतं तेजस्काम इत्येवं ब्रूयाद्, यथा पूर्वयोर्व्यञ्जनत्वेन निवेशः तथा घृतस्यापि भविष्यति ॥ ४ ॥

दधिमधुघृतमिश्रमन्नं प्राशयेत् ॥ ५ ॥

दध्यादिभिर्मिश्रमन्नं प्राशयेदित्यकामसंयुक्तो विधिः ॥ ५ ॥

अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे इति ॥ ६ ॥

अयं प्राशनमन्त्रः । सर्वेषु च प्राशनेष्वयं मन्त्रो भवति, नानन्तर एव नित्ये प्राशने । ते खल्वस्मिन्नेव प्राशने कामसंयोगेन गुणविधयः । प्राशने प्रकृते पुनः प्राशयेदिति वचनमप्येतदर्थमेव, कथं प्राशनमात्रे मन्त्रः स्यादिति ॥ ६ ॥

आवृतैव कुमार्यै ॥ ७ ॥

गतम् ॥ ७ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये चतुर्दशः खण्डः।


१. 'धे' ख. पाठः.

K