आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सूत्रम् . | विषयः .
३
| सूत्रम् . | विषयः . |
|---|---|
| २९. | गान्धर्वविवाहः । |
| ३०. | आसुरविवाहः । |
| ३१. | पैशाचविवाहः । |
| ३२. | राक्षसविवाहः । |
पञ्चमः खण्डः ।
१. विवाहे नानाविधजनपदादिधर्माणां ज्ञात्वानुष्ठानम् ।
२. समानधर्मप्रतिज्ञा ।
३. पाणिग्रहणविधिः, कामनाभेदेन पाणिग्रहणप्रकारः ।
४. अग्न्युदकुम्भयोस्त्रिः परिणयनं जपश्च ।
५. परिणयनमन्त्रः ।
६. अश्मारोहणम् ।
७. अश्मारोहणमन्त्रः ।
८. वध्वा अञ्जलावुपस्तीर्य द्विलाजावापः ।
९. जमदग्नीनां त्रिरवदानम् ।
१०. अवत्तस्य हविःशेषस्य च प्रत्यभिघारणम् ।
११. सर्वत्रावदानेषूपस्तरणमवदानं प्रत्यभिघारणं चेत्यवदानधर्मः ।
१२. लाजहोमप्रकारस्तन्मन्त्राश्च ।
१३. शूर्पपुटेन तूष्णीं चतुर्थहोमप्रकारः ।
१४. केषाञ्चिन्मते लाजहोमात् परं परिणयनम् ।
१५. अस्मिन् पक्षे उत्तमाहुत्योरसन्निपातः ।
१६. समनन्तरमेव वध्वाः शिखयोर्विमोकः ।
१७. ऊर्णासूत्राभ्यां केशपक्षयोर्बन्धनम् ।
१८. दक्षिणपक्षसूत्रस्य ‘प्रत्वा मुञ्चामि’ति मन्त्रेण विमोकः ।
१९. उत्तरपक्षसूत्रस्य ‘प्रेतो मुञ्चामि’ति मन्त्रेण विमोकः ।
२०. सप्तपदी ।
२१. दम्पत्योः शिरस्युदकुम्भेनावसेकः । गृहान्तरगमने नियमविशेषः ।
४
| सूत्रम्. | विषयः. |
|---|---|
| २२. | ध्रुवारुन्धत्योर्दर्शनं, दम्पत्योर्मन्त्रवद्वाग्विसर्गः । |
षष्ठः खण्डः ।
१. यानारोहणम् ।
२. नावारोहणम् ।
३. उदकादुत्तारणम् ।
४. वध्वा रोदने जपः ।
५. ध्रियमाणस्य विवाहाग्नेर्नयनम् ।
६. प्रशस्तदेशवृक्षचतुष्पथेषु मन्त्रजपः ।
७. प्रतिवसति मन्त्रेणेक्षकप्रेक्षणम् ।
८. मन्त्रेण गृहप्रवेशः ।
९. दम्पत्योरग्नेः पश्चाच्चर्मण्युपवेशनं मन्त्रैर्होमो दधिप्राशनं च ।
१०. हुतशिष्टस्याज्यस्य तेनैव मन्त्रेण हृदयेऽञ्जनं वा ।
११. विवाहात् प्रभृति ब्रह्मचर्यनियमः, गृहप्रवेशनीयादूर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वा चरितब्रह्मचर्यस्य ऋषिकल्पपुत्रजननम् ।
१२. सूर्याख्यमन्त्रतत्त्वज्ञायाचार्याय वधूवस्त्रदानम् ।
१३. ब्राह्मणेभ्योऽन्नदानम् ।
१४. स्वस्तिवाचनम् ।
सप्तमः खण्डः ।
१. विवाहात् प्रभृति गृह्याग्निपरिचरणम् ।
२. दम्पत्योरन्यतरेणाग्निसमीपे उदयास्तमययोर्नियमेनावस्थानम् ।
३. अग्नेरुपशमे पुनरग्न्युत्पत्तिप्रकारः उपवासोपदेशश्च ।
४. तस्याग्नेरग्निहोत्रविधानेन परिग्रहणम् ।
५. प्रज्वलनं होमकालश्च ।
६. होमार्हद्रव्यकथनम् ।
५
| सूत्रम्. | विषयः. |
|---|---|
| ७. | उक्तद्रव्यालाभे द्रव्यान्तरपरिग्रहणम् । |
| ८. | सायम्प्रातर्होमः । |
अष्टमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | पार्वणः स्थालीपाकः । |
| २. | दर्शपूर्णमासयोः पूर्वस्यां रात्रावुपवासनियमः । |
| ३. | इध्माबर्हिषोः सन्नहनम् । |
| ४. | देवताः । |
| ५. | काम्यदेवताः । |
| ६. | देवताभ्यः प्रत्येकं चतुर्मुष्टिनिर्वापः । |
| ७. | निर्वापप्रकारस्तन्मन्त्रश्च । |
| ८. | निर्वापक्रमेण प्रोक्षणम् । |
| ९. | त्रिरवहननफलीकरणप्रक्षालनपूर्वं पृथक्पात्रेषु श्रपणम् । |
| १०. | एकस्मिन् पात्रे वा श्रपणम् । |
| ११. | पृथक्श्रपणे प्रकारकथनम् । |
| १२. | एकत्र श्रपणे प्रकारकथनम् । |
| १३. | शृतस्य हविष उदगुद्वासनं परिध्याघारानूयाजसमिधां परिधानम् इध्महोमस्तन्मन्त्रश्च । |
| १४. | तूष्णीमाघारहोमानन्तरमाग्नेयसौम्ययोराज्यभागयोर्होमविधिः । |
| १५. | पूर्वोक्ताज्यभागयोर्देशविधिः । |
| १६. | आज्यभागयोर्यज्ञचक्षुष्ट्वरूपणम्, आज्यभागयोः प्रथममुत्तरतः पश्चाद् दक्षिणतश्च होमे उपपत्तिकथनम् । |
| १७. | आज्यभागयोर्मध्ये प्रधानाहुतिहोमः । |
| १८. | प्रत्यक्तरं वा प्रधानाहुतिहोमः । |
| १९. | प्राक्संस्यमुदक्संस्थं वा हविर्होमः । |
| २०. | अग्नेरुत्तरपूर्वभागे सौविष्टकृतहोमः । |
| २१. | चतुरवत्तिनामवदानक्रमः । |
| २२. | पञ्चावत्तिनां जमदग्नीनामवदानक्रमः । |
६
| सूत्रम्. | विषयः. |
|---|---|
| २३. | हविष उत्तरार्धात् सौविष्टकृतमेकमवदानं, पञ्चावत्तिनो द्विरवदानं, सर्वेषां द्विरभिघारणम् इत्यवदानसम्पत्तिः । |
| २४. | प्रधानावदान इव सौविष्टकृतेऽवदाने हविषां न प्रत्यभिधारणम् । |
| २५. | सौविष्टकृतस्य हविषो होमे मन्त्रोपदेशः । |
| २६. | स्तीर्णे बर्हिषि प्रणीतापात्रनिनयनम् । |
| २७. | पाकयज्ञेषु पूर्णपात्रनिनयनस्यावभृथत्वरूपणम् । |
| २८. | उपदिष्टस्याङ्गजातस्य सर्वपाकयज्ञतन्त्रत्वम् । |
| २९. | हविशेषस्य दक्षिणात्वम् । |
नवमः खण्डः ।
| १. | पशुकल्पाधिकारः । |
| २. | शामित्रस्याग्नेरुत्तरतः संस्कृत्य प्रत्यङ्मुखमवस्थापितस्य पशोः समन्त्रकमार्द्रपलाशशाखया पश्चादुपस्पर्शः । |
| ३. | व्रीहियवमतीभिरद्भिः पुरस्तात् समन्त्रं प्रोक्षणम् । |
| ४. | तास्वप्सु किञ्चित् पाययित्वा तस्य पशोर्दक्षिणे बाहौ शेषस्य निनयनम् । |
| ५. | अमन्त्रकं त्रिः प्रदक्षिणं पर्यग्नि कृत्वा पशोरुदङ्नयनम् । |
| ६. | नीयमानस्य पशोः पुरस्ताद् दीप्ताग्रस्य काष्ठस्य हरणम् । |
| ७. | उल्मुकाग्निरेव शामित्र इति तस्य तस्मिन्नायतने प्रतिष्ठापनम् । |
| ८. | वपाश्रपणीभ्यां पशोरन्वारम्भणमध्वर्युस्थानीयस्य । |
| ९. | तस्यान्वारम्भणं यजमानस्य । |
| १०. | पशोः संज्ञपनवपोद्धारवपाश्रपणप्रकाराः, शामित्रौपासनाग्न्योः पर्यावर्तनेन प्रधानाग्नौ वपाहोमः । |
| ११. | अत्रैवाग्नौ स्थालीपाकश्रपणम् । |
| १२. | पशोरेकादशावदानानि । |
| १३. | अवदानक्रमः, अवदानेभ्यः प्राक् स्थालीपाकहोमः । |
| १४. | अवदानैः सह स्थालीपाकहोमो वा । |
७
| सूत्रम्. | विषयः. |
|---|---|
| १५. | प्रत्यङ्गं द्विर्द्विरवदानम् । |
| १६. | तूष्णीं हृदयशूलचरणम् । |
दशमः खण्डः ।
१. चैत्ययज्ञे स्विष्टकृतः प्राग्बलिहरणम् ।
२. विदेशस्थस्यापि चैत्यस्य यागः ।
३. तदा पलाशवृक्षेण दूतं कारयित्वा तेन बलिहरणम् ।
४. समन्त्रकमुभौ पिण्डौ कृत्वा वीवधस्य शिक्ययोरभ्याधाय तस्य वीवधस्य दूतस्कन्धे निधानम् ।
५. इमं बलिं चैत्याय हरेति पिण्डमेकमभिमृश्य निर्देशः ।
६. अयं तुभ्यमिति दूतपिण्डमभिमृश्य वचनम् ।
७. अन्तरा भयसम्भावनायां दूताय खड्गादिदानम् ।
८. अन्तरा नौतार्याया नद्याः सत्त्वे प्लवरूपमलावुपात्रादिकं दूताय दत्वानेन तरितव्यमित्युपदेशः ।
९. धन्वन्तरिनामकचैत्ययज्ञे ब्रह्माग्न्योरन्तरा पुरोहिताय प्रथमं बलिहरणं पश्चाद् धन्वन्तरये । होमस्तु धन्वन्तरिमात्रस्य । विदेशस्थत्वे तु धन्वन्तरये सपुरोहितायैकः पिण्डो दूताय द्वितीयः ।
एकादशः खण्डः ।
१. शाखान्तरोपनिषदाम्नातानां गर्भलम्भनपुंसवनानवलोभनानामनुष्ठेयत्वम् ।
२. उपनिषदनध्ययने तृतीये मासि तिष्ये पुंसवनं — पूर्वेद्यू रात्रावुपोषिताया भार्याया द्वौ द्वौ माषौ यवं च प्रक्षिप्य प्रसृतेन त्रिर्दधिप्राशनम् ।
३. किं पिवसीति पुंसवनमिति च भर्तृभार्ययोस्त्रिरुक्तिप्रत्युक्तयः ।
४. अनवलोभनं — दूर्वां रसीकृत्य तूष्णीं नस्तःकरणम् ।
८
| सूत्रम्. | विषयः. |
|---|---|
| ५. | एकेषां मते द्वाभ्यामृग्भ्यां नस्तःकरणम् । |
| ६. | पुंसवनानवलोभनयोः प्राजापत्यः स्थालीपाकः । तत्राज्यभागान्ते नस्तःकरणं, ततः शृतहविष्यहोमः समन्त्रं पत्न्या हृदयदेशस्पर्शश्च । |
द्वादशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | सीमन्तोन्नयनस्य चतुर्थे मासि कर्तव्यता, आधारसंस्कारत्वान्नास्य प्रतिगर्भमावृत्तिः, पूर्वयोस्तु गर्भसंस्कारत्वादावृत्तिः । |
| २. | सीमन्तोन्नयनस्य शुक्लपक्षे पुंनक्षत्रेषु कर्तव्यत्वम् । |
| ३. | तस्य षष्ठेऽष्टमे वापि मासे कर्तव्यता । तत्र समन्त्रकं होमविधानम् । |
| ४. | शलादुस्तवकेन त्रिषु स्थानेषु श्वेतवर्णया शलल्या कुशस्तम्बैश्च समन्त्रकं सीमन्तव्यूहनं त्रिश्चतुर्वा । |
| ५. | वीणागाथिनोः संशासनं, |
| ६. | प्रैषक्रमः । |
| ७. | गेयगाथावर्णनम् । |
| ८. | यां नदीमुपजीवन्ति, तस्याः सम्बोधनं गेयगाथासु । |
| ९. | पतिपुत्रवतीनां ब्राह्मणीनामुपदेशस्य यथावदनुष्ठानम् । |
| १०. | वृषभस्य दक्षिणात्वम् । |
त्रयोदशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | जातकरणम् । |
| २. | जातस्योभयोः कर्णयोर्मेधाजननजपः । |
| ३. | समन्त्रकमंसयोरभिमर्शनम् । |
| ४. | नामकरणं, नामकरणकालश्च । |
| ५. | नामलक्षणम् । |