सामग्री पर जाएँ
सर्वकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 20, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 20

६

सूत्रम्.विषयः.
२३.हविष उत्तरार्धात् सौविष्टकृतमेकमवदानं, पञ्चावत्तिनो द्विरवदानं, सर्वेषां द्विरभिघारणम् इत्यवदानसम्पत्तिः ।
२४.प्रधानावदान इव सौविष्टकृतेऽवदाने हविषां न प्रत्यभिधारणम् ।
२५.सौविष्टकृतस्य हविषो होमे मन्त्रोपदेशः ।
२६.स्तीर्णे बर्हिषि प्रणीतापात्रनिनयनम् ।
२७.पाकयज्ञेषु पूर्णपात्रनिनयनस्यावभृथत्वरूपणम् ।
२८.उपदिष्टस्याङ्गजातस्य सर्वपाकयज्ञतन्त्रत्वम् ।
२९.हविशेषस्य दक्षिणात्वम् ।

नवमः खण्डः ।

१.पशुकल्पाधिकारः ।
२.शामित्रस्याग्नेरुत्तरतः संस्कृत्य प्रत्यङ्मुखमवस्थापितस्य पशोः समन्त्रकमार्द्रपलाशशाखया पश्चादुपस्पर्शः ।
३.व्रीहियवमतीभिरद्भिः पुरस्तात् समन्त्रं प्रोक्षणम् ।
४.तास्वप्सु किञ्चित् पाययित्वा तस्य पशोर्दक्षिणे बाहौ शेषस्य निनयनम् ।
५.अमन्त्रकं त्रिः प्रदक्षिणं पर्यग्नि कृत्वा पशोरुदङ्नयनम् ।
६.नीयमानस्य पशोः पुरस्ताद् दीप्ताग्रस्य काष्ठस्य हरणम् ।
७.उल्मुकाग्निरेव शामित्र इति तस्य तस्मिन्नायतने प्रतिष्ठापनम् ।
८.वपाश्रपणीभ्यां पशोरन्वारम्भणमध्वर्युस्थानीयस्य ।
९.तस्यान्वारम्भणं यजमानस्य ।
१०.पशोः संज्ञपनवपोद्धारवपाश्रपणप्रकाराः, शामित्रौपासनाग्न्योः पर्यावर्तनेन प्रधानाग्नौ वपाहोमः ।
११.अत्रैवाग्नौ स्थालीपाकश्रपणम् ।
१२.पशोरेकादशावदानानि ।
१३.अवदानक्रमः, अवदानेभ्यः प्राक् स्थालीपाकहोमः ।
१४.अवदानैः सह स्थालीपाकहोमो वा ।