सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

लोकेऽवस्थाय ^१"वैश्वानराय प्रतिवेदयाम" इति द्वादशर्चेन सूक्तेनो-
पस्थाय ^२"यन्मे मनसा वाचा कृतमेनः कदाचन । 'सर्वस्मान्मेळित्तो
मोग्धि त्वं हि वेत्थ यथातथँ स्वाहे"ति समिधमाधाय वरं
ददाति ॥ ११ ॥

**अनु०—**पूर्वाह्नमें पाकयज्ञ की विधि के अनुसार अग्नि को प्रज्वलित कर उसके चारो ओर कुश फैलाकर अग्निमुख तक की क्रियाएँ कर 'यद्देवा देवहेळनम्' "यददीव्यन्नृणमहं बभूव" "आयुष्टे विश्वतो दधत्" आदि तीन अनुवाकों से प्रत्येक ऋचा के उच्चारण के साथ घृत का हवन करे उसके बाद "सिंहे व्याघ्र उत या पृदाकौ" आदि (तैत्तिरीय संहिता २.७.७) से स्रुवा द्वारा चार आहुतियाँ करे । इसके बाद "अग्नेऽभ्यावर्त्तिन्नभि न आवर्त्तस्वाऽऽ युषा वर्चसा सन्या मेधया प्रजया धनेन ।" "अग्ने अङ्गिरश्शतं ते सन्त्वावृतस्ससहस्रन्त उपावृतः । तासां पोषस्य पोषेण

१. वैश्वानराय प्रतिवेदयामो यदीतृणग् सङ्गरो देवतासु । स एतान् पाशान् प्रमु-
ञ्चन् प्रवेद स नो मुञ्चातु दुरितादवद्यात् ॥ १ ॥ वैश्वानरः पवमानः पवित्रेणैत्सङ्गर-
मभिधावाम्याशाम् । अनाजानन् मनसा याचमानो यदन्नो अव तत्सुवामि ॥ २ ॥
अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम् ॥३॥
विजिहीष्वं लोकान् कृधि बन्धाम्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भस्सर्वान् पथो
अनुष्व ॥ ४ ॥ स प्रजानन् प्रतिगृह्णीत विद्वान् प्रजापतिः प्रथमजा ऋतस्य । अस्मा-
भिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसञ्चरेम ॥ ५ ॥ ततं तन्तुमन्वेके अनुसञ्चर-
न्ति येषां दत्तं पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्वातुं चेच्छक्नवाँस स्वर्गं
एषाम् ॥ ६ ॥ आरभेथामनुसंरभेथाँ समानं पन्थामवथो घृतेन । यद्वां पूतं परि-
विष्टं यदग्नी तस्मै गोत्रायेह जायापती सँरभेयाम् ॥ ७ ॥ यदन्तरिक्षं पृथिवीमुत
द्यां यन्मातरं पितरं वा जिहिँसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उभोनेषद्दुरिता
यानि चकृम ॥ ८ ॥ सूरिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभि शस्त एनः ।
द्यौर्नः पिता पितृयाच्छं भवाति जामिमित्वा मा विवित्सि लोकान् ॥ ९ ॥ यत्र
सुहार्दस्सुकृतो मदन्ते विहाय रोगं तन्वाँस्वायाम् । अश्रोणाङ्गै रह्रुतास्स्वर्गे तत्र
पश्येम पितरं च पुत्रम् ॥ १० ॥ यदक्षमद्यमघमृतेन देवा दास्यन्नदास्यन्नुत वा करि-
ष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु
॥ ११ ॥ यदसमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम् । यद्देवानां
चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मातस्मादनृणं कृणोतु ॥ १२ ॥


२. यन्मे मनसा वाचा...। सर्वस्मान्मेदितो मोग्धि" इत्येव 'इ' भिन्नेषु सर्वेषु मूलपुस्तकेषु पाठः ।
२५ बौ०गृ०

३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि”, “पुनरुर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥” “सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि” ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियाँ करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर “वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे “यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा” ( मैंने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्वाऽनाम्नातया पक्वहोमं कृत्वा सौविष्टकृतं च । यद्देवादेव उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निदेवता यद्वाङ्मनसाभ्यां कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गौ का दान करने तक की क्रियाएँ ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकताऽपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यानादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं ‘कर्मादिष्वेवैतैर्जुहुयात्’ इत्येतद्व्याख्यास्यान्नाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव । आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. “यन्मे मनसा” इति ख. ग घ. पु. पाठः ।