बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०५
चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०५
टि०—दीनता से यहां याचकता आदि का भाव भी लिया गया है, परोपकार न करना शठता है। सूत्र में च शब्द के प्रयोग से अश्लीलादि भाषण का भी अर्थ ग्रहण करना चाहिए—गोविन्दस्वामी।
आत्मनः क्षीणत्वप्रदर्शनेन याचिष्णुता¹ दैन्यम्। शक्तौ सत्यामपि परोपकाराकरणं शाठ्यम्। जैह्म्यं कौटिल्यम्। चशब्दादश्लीलादिकमपि ॥ २५ ॥
दैन्यं पुनः प्रयत्नेन वर्जनीयम् अस्मिन्नर्थे गाथामाह—
अथाऽप्यत्रौशनसश्च वृषपर्वणश्च दुहित्रोस्संवादे गाथामुदाहरन्ति ॥२६॥
अनु०—इस संबन्ध में उशना और वृषपर्वा की पुत्रियों के बीच हुए संवाद की एक गाथा उद्धृत की जाती अ है—
तुम उसकी पुत्री हो जो दूसरों का स्तुति करता है, याचना करता है, तथा दान ग्रहण करता है, किन्तु मैं ऐसे व्यक्ति की पुत्री हूं, जिसकी स्तुति की जाती है, जो याचकों को दान देता है, किसी से दान स्वीकार नहीं करता ॥ २६ ॥
टि०—यह संवाद शर्मिष्ठा तथा देवयानी के संवाद के रूप में महाभारत में भी आया है। पूर्वार्ध में देवयानी के पिता उशना के दीन स्वभाव का उल्लेख है।
उशनाः शुक्रः, तस्य दुहिता देवयानी वृषपर्वा तु क्षत्रियः, तस्य दुहिता शर्मिष्ठा। तयोस्संवादो विसंवादः गाथाश्लोकः ॥ २६ ॥
स्तुवतो दुहिता त्वं वैयाचतः प्रतिगृह्णतः ।
अथाऽहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
ददतोऽप्रतिगृह्णतः इति ॥ २७ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने चतुर्थः खण्डः ॥
प्रतिशाङ्गं प्रभाषते तत्र पूर्वेणाऽर्धेन देवयान्याः पितुरुशनसो दीनस्वभावत्वं कथयति। उत्तरेण चाऽऽत्मनः पितुर्वृषपर्वणः ततो विपरीतस्वभावत्वम् ॥ २७ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मसूत्रविवरणे द्वितीयप्रश्ने द्वितीयोऽध्यायः ॥
१. वागाविष्करणं दैन्यमिति घ. पु०
२०६ बौधायन-धर्मसूत्रम्
अथ द्वितीयप्रश्ने तृतीयोऽध्यायः
पञ्चमः खण्डः
भूयोऽपि नियमानोच्यते—
'तपस्यमवगाहनम्^१ ॥ १ ॥
**अनु०—**तपस्या के लिए स्नान करना चाहिए ॥ १ ॥
तपसे हितं तपस्यम् । अवगाहनं स्नानम् । तपस उपक्रमे कर्तव्यमित्यर्थः ॥ १ ॥
देवतास्तर्पयित्वा पितृतर्पणम् ॥ २ ॥
**अनु०—**देवताओं का जल द्वारा तर्पण करने के बाद पितरों का तर्पण करना चाहिए ॥ २ ॥
भवेदिति शेषः । ऋषितर्पणानन्तरं पितृतर्पणं किलाऽन्यत्रोच्यते^२ । इह तु देवतर्पणादनन्तरम् , अत आनन्तर्ये विकल्पः । यद्वा—तपस्येऽवगाहने एव विशेषः ॥ २ ॥
अनुतीर्थमप उत्सिञ्चे “दूर्जं^३ वहन्ती” रिति ॥ ३ ॥
**अनु०—**ऊर्जं वहन्ती मन्त्र का पाठ करते हुए तीर्थों के अनुसार जल गिराया जाता है ॥ ३ ॥
**टी०—**पूरा मन्त्र इस प्रकार है—“ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” ।
अनुतीर्थं तीर्थमनुकूलमित्यर्थः । एतस्मादेव गम्यते जले तर्पणमिति । अयं हि मन्त्रः स्नानविध्यनुवाके कृत्स्नशः पठ्यते । यद्वा—नदीतरणानन्तरमेतदुत्सेचनं कर्तव्यम् ॥ ३ ॥
अथाप्युदाहरन्ति —
स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः ।
प्रातरुत्थाय कुर्वीरन् देवर्षिपितृतर्पणम् ॥ ४ ॥
१. तपस्यमपोऽवगाहनम् इति व्याख्यानपुस्तकेषु ॥
२. अत्रैव नवमखण्डे 'अथोत्तरं देवतास्तर्पयति', इत्यारभ्य देवतर्पणान्युक्त्वा ततः “अथ निवीती ऋषींस्तर्पयामि” इत्यादिना ऋषितर्पणमुक्त्वा, अनन्तरमेव “अथ प्राचीनावीती पितॄन् स्वधा नमस्तर्पयामि” इति पितृतर्पणं विहितमाचार्येणेत्यर्थः ।
३. “ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” इति समग्रो मन्त्रः ॥