सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३

प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३

शेषेणं ॥ १५ ॥ पित्र्यमायुष्यम् ॥ १४ ॥ यथ
अथ शालीनयायावराणाम् ॥ १२ ॥ अथैते पञ्च महायज्ञाः ॥ ११ ॥
अथ प्राचीनावीती ॥ १० ॥ अग्निः प्रजापतिः ॥ ९ ॥ अथ हस्तौ
प्रक्षाल्य ॥ ८ ॥ अथाऽतस्सन्ध्द्योपासनविधिं व्याख्यास्यामः ॥ ७ ॥ न
पिण्डशेषम् ॥ ६ ॥ तपस्यमवगाहनम् ॥ ५ ॥ अब्राह्मणस्य शारीरो
दण्डः ॥ ४ ॥ नित्योदकी नित्ययज्ञोपवीती ॥ ३ ॥ अथ पतनीयानि
॥ २ ॥ अथाऽतः प्रायश्चित्तानि ॥ १ ॥

इति बौधायनीय धर्मसूत्रे द्वितीयः (गृह्यसूत्रे पञ्चदशः) प्रश्नस्समाप्तः ।


अथ तृतीयप्रश्ने प्रथमोऽध्यायः

प्रथमः खण्डः

यजनदण्डकृषिवाणिज्यादयो वर्णविशेषव्यवस्थयाऽभिहिताः। अथेदानीं-माश्रमविशेषव्यवस्थया वृत्त्युपाया वक्तव्या इत्यत आह—

अथ शालीनयायावरचक्रचरधर्मकाङ्क्षिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥ १ ॥

अनु०—अब हम शालीन, यायावर, चक्रचर के कर्तव्यों का पालन करने के इच्छुक तथा नौ प्रकार की वृत्तियों से जीविकानिर्वाह करने वाले व्यक्तियों के लिए नियमों का विवेचन करेंगे ॥ १ ॥

वृत्त्युपाया वक्ष्यन्त इति शेषः । गृहस्थविशेषाः केचिच्छालीनयायावराः । शालीनयायावरशब्दौ स्वयमेव व्युत्पादयति—'शालाश्रयत्वाच्छालीनत्वम्' (३-१. ३.) इत्यादि । सर्वेषामप्याश्रमिणां स्वकीयधर्मकांक्षितवे सति विशेषोपादानमेतदर्थम् । तच्च क्षिप्रं पुरुषार्थप्रापणम् ॥ १ ॥

याभिश्चशरीरयात्रा वर्तते ता वृत्तयः काश्चन भवन्ति । तत्राऽऽह—

तेषां तद्वर्तनाद् वृत्तिरित्युच्यते ॥ २ ॥

अनु०—वृत्ति शब्द इस लिए कहा गया है कि वे उसके द्वारा जीविका निर्वाह करते हैं ॥ २ ॥

३०४बौधायन-धर्मसूत्रम्[ वृत्त्युपायाः

अनेन वृत्तिशब्दो व्युत्पाद्यते। तेषां शालीनयायावराणां तद्वर्तनात् तस्य शरोरस्य वर्तनात् दर्शितमेतदस्माभिः पूर्वसूत्रे ॥ २ ॥

शालाश्रयत्वाच्छालीनत्वम्। वृत्त्या वरया यातीति यायावरत्वम्। 'अनुक्रमचरणाच्चक्रचरत्वम् ॥ ३ ॥

**अनु०—**घर में निवास करने के कारण शालीन कहा जाता है। श्रेष्ठ वृत्ति द्वारा जीवन निर्वाह करने से यायावर कहलाते हैं। (वर्ण के) क्रम के अनुसार ब्राह्मण, क्षत्रिय, वैश्य के घर वृत्ति के लिए जाने वाला चक्रचर कहलाता है ॥ ३ ॥

**टि०—**गोविन्द के अनुसार चक्रचर यायावर का ही नाम है। यायावर ब्राह्मण, क्षत्रिय, वैश्य के घर अनुक्रम से जाता है अर्थात् ब्राह्मण के यहाँ जाने पर वृत्ति न मिले तो क्षत्रिय के यहाँ जाता है, वहाँ भी वृत्ति न उपलब्ध होने पर वैश्य के यहाँ जाता है।

अन्वर्थसंज्ञा एताः। विस्तीर्णाभिः शालाभिर्युक्ताश्शालीनाः। यथा 'जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाकय आस। सह सर्वत आवसथान् मापायंचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति'। तद्वदेतेऽपीति। खप्रत्ययो मत्वर्थीयः। अनुक्रमेण चरणमनुक्रमचरणम्। यायावारामेवैषा संज्ञा। अनुक्रमचरणं नाम विप्रक्षत्रियविशां गेहेषु पूर्वस्य पूर्वस्याऽभावे उत्तरोत्तरचरणम्। वृत्त्या वरया उत्कृष्टया यापयत्यात्मानमिति। णिचो लोपोऽत्र द्रष्टव्यः ॥ ३ ॥

ता अनुव्याख्यास्यामः ॥ ४ ॥

**अनु०—**हम उन वृत्तियों की क्रमशः व्याख्या करेंगे ॥ ४ ॥

क्रमेण ता वृत्तीः विविच्य व्याख्यास्यामः ॥ ४ ॥

षन्णिवर्तनी कौद्दाली ध्रुवा सम्प्रक्षालनी समूहा पालिनी सिलोञ्छा कापोता सिद्धेच्छेति नवैताः ॥ ५ ॥

**अनु०—**ये वृत्तियाँ नौ हैं—षन्णिवर्तनी, कौद्दाली, ध्रुवा, सम्प्रक्षालनी समूहा, पालिनी, सिलोञ्छा, कापोता, सिद्धेच्छा ॥ ५ ॥

एता अप्यन्वर्थसंज्ञा एव। एतासामेव रूपमुपरितनेऽध्याये स्वयमेव निपुणतरं विवरिष्यते ॥ ५ ॥

तासामेव वान्याऽपि दशमी वृद्धिर्भवति ॥ ६ ॥


१. अनुक्रमेण चरणात् इति आ. पु.