बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४१
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४१
द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ओं रुद्रांश्च तर्पयामि ॥ २ ॥
अनु०—पितरों, अर्यमा भग, सविता, त्वष्टा, वायु, इन्द्र-ओर अग्नि—इन दक्षिण द्वार के देवताओं का, नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ। रुद्रों का तर्पण करता हूँ ॥ २ ॥
मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ओं आदित्यांश्च तर्पयामि ॥ ३ ॥
अनु०—मित्र, इन्द्र, महापितर, आपः, विश्वे देवा, ब्रह्मा, विष्णु—इन पश्चिम द्वार के देवताओं का नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ। आदित्यों का तर्पण करता हूं ॥ ३ ॥
वसवो वरुणोऽजएकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इत्येतान्युदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ४ ॥
अनु०—वसुओं, वरुण, अज एकपाद, अहिर्बुध्न्य, पूषा, अश्विनौ, यम-इन उत्तर द्वार के देवताओं का नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ ॥ ४ ॥
ओं विश्वान् देवांस्तर्पयामि । साध्यांस्तर्पयामि । ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामि । चतुर्मुखं तर्पयामि । परमेष्ठिनं तर्पयामि । हिरण्यगर्भं तर्पयामि । स्वयम्भुवं तर्पयामि । ब्रह्मपार्षदांस्तर्पयामि । ब्रह्मपार्षदीश्च तर्पयामि ॥ अग्निं तर्पयामि । वायुं तर्पयामि । वरुणं तर्पयामि । सूर्यं तर्पयामि । चन्द्रमसं तर्पयामि । नक्षत्राणि तर्पयामि । ज्योतींषि तर्पयामि । सद्योजातं तर्पयामि । ओंभूः पुरुषं तर्पयामि । ओं भुवः पुरुषं तर्पयामि । ओं सुवः पुरुषं तर्पयामि । ओं भूर्भुवस्स्वः पुरुषं तर्पयामि । ओं भूस्तर्पयामि । ओं भुवस्तर्पयामि । ओं सुवस्तर्पयामि । ओं महस्तर्पयामि । ओं जनस्तर्पयामि । ओं तपस्तर्पयामि । ओं सत्यं तर्पयामि ॥ ओं भवं देवं तर्पयामि । ओं शर्वं देवं तर्प-
१९ बौ०गृ०
२४२ बौधायन-धर्मसूत्रम् [ नित्यतर्पणविधिः
यामि । ओमीशानं देवं तर्पयामि । ओं पशुपतिं देवं तर्पयामि । ओं रुद्रं देवं तर्पयामि । ओमुग्रं देवं तर्पयामि । ओं भीमं देवं तर्पयामि । ओं महान्तं देवं तर्पयामि ॥ ओं भवस्य देवस्य¹ पत्नीं तर्पयामि । ओं शर्वस्य देवस्य पत्नीं तर्पयामि । ओमीशानस्य देवस्य पत्नीं तर्पयामि । ओं पशुपतेर्देवस्य पत्नीं तर्पयामि । ओं रुद्रस्य देवस्य पत्नीं तर्पयामि । ओमुग्रस्य देवस्य पत्नीं तर्पयामि । ओं भीमस्य देवस्य पत्नीं तर्पयामि । ओं महतो देवस्य पत्नीं तर्पयामि ॥ ५ ॥
**अनु०—**मैं सभी देवों का तर्पण करता हूं । साध्यों का तर्पण करता हूँ । ब्रह्मन् का तर्पण करता हूँ । प्रजापति का तर्पण करता हूँ । चतुर्मुख का तर्पण करता हूँ । परमेष्ठी का तर्पण करता हूँ...॥ ५ ॥
ओं भवस्य देवस्य सुतं तर्पयामि । ओं शर्वस्य देवस्य सुतं तर्पयामि । ओमीशानस्य देवस्य सुतं तर्पयामि । ओं पशुपतेर्देवस्य सुतं तर्पयामि । ओं रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ओं भीमस्य देवस्य सुतं तर्पयामि । ओं महतो देवस्य सुतं तर्पयामि । ओं रुद्रांस्तर्पयामि । रुद्रपार्षदांस्तर्पयामि । रुद्रपार्षदीश्च तर्पयामि ॥ ६ ॥
**अनु०—**भव देव का तर्पण करता हू । शर्व का तर्पण करता हूँ...॥ ६ ॥
ओं विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । वक्रतुण्डं तर्पयामि । एकदन्तं तर्पयामि । लम्बोदरं तर्पयामि । गणपतिं तर्पयामि । विघ्नपार्षदांस्तर्पयामि । विघ्नपार्षदीश्च तर्पयामि ॥७॥
**अनु०—**विघ्न का तर्पण करता हूँ । विनायक का तर्पण करता हूँ...॥ ७ ॥
ओं सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । षण्मुखं तर्पयामि । विशाखं तर्पयामि । जयन्तं तर्पयामि । महासेनं तर्पयामि । स्कन्दपार्षदांस्तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि ॥ ८ ॥
१. अत्र पत्नीरिति बहुवचनान्तपाठ 'आ'. पु.