बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
चतुर्षु त्र्यहेषु तृतीयस्त्र्यहोऽन्भक्षो भवति । प्रथमद्वितीयौ चोदनमक्षौ । चतुर्थः पराक इति । स एष कृच्छ्रातिकृच्छ्रः ॥ २८ ॥
अथ कृच्छ्रव्रतमुच्यते—
कृच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥ २६ ॥
अनु०—कृच्छ्र व्रत करते समय तीनों सवन काल में स्नान करे ॥ २९ ॥
त्रीणि सवनानि प्रातर्मध्यन्दिनं सायमिति । उपस्पर्शनं स्नानम् ॥ २९ ॥
अधश्शयनम् ॥ ३० ॥
अनु०—भूमि पर सोवे ॥ ३० ॥
उपरि खट्वादिषु शयननिषेधः। अनुपस्तीर्णे देशे शयनमधश्शयनमित्यपरे ॥ ३० ॥
एकवस्त्रता केशश्मश्रुलोमनखवापनम् ॥ ३१ ॥
अनु०—केवल एक वस्त्र धारण करे, केशों। दाढ़ी-मूँछ, शरीर के लोम तथा नखों को कटवाए ॥ ३१ ॥
अत्रोत्तरीयं प्रतिषिध्यते ॥ ३१ ॥
एतदेव स्त्रियाः केशवपनवर्जं केशवपनवर्जनम् ॥ ३२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयः खण्डः ॥
अनु०—यही नियम स्त्रियों के लिए भी होता है, किन्तु वे अपने केश न कटवाएँ ॥ ३२ ॥
यो यावान्निग्रमः कृच्छ्रेषु पुरुषस्योक्तः स एव स्त्रीणाम् । कृच्छ्रचरणे केशवपनं तु वर्ज्यते । द्विरुक्तिरुक्तप्रयोजना ॥ ३२ ॥
इति बौधायनधर्मविवरणे गोविन्दस्वामिकृते द्वितीये प्रश्ने प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः
तृतीयः खण्डः
एवं तावद्ब्रह्मचारिधर्मप्रसङ्गात् प्रसक्तानुप्रसक्तमभिहितम् । अधुना गृहस्थधर्मा उच्यन्ते । तत्र प्रथमं तावत्संक्षिप्याऽऽह—
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी ।
ऋतौ च गच्छन् विधिवच्च जुह्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ १ ॥
१८० | बौधायन-धर्मसूत्रम् | [ गृहस्थधर्माः
अनु०-सदैव कमण्डलु में जल लेकर चलने वाला, सदा यज्ञोपवीत धारण करने वाला, नित्य वेद का स्वाध्याय करने वाला, शूद्र के अन्न को न ग्रहण करने वाला, ऋतुकाल में ही अपनी पत्नी से मैथुन करने वाला और वेदविहित विधि के अनुसार हवनादि यज्ञ कर्म करने वाला ब्राह्मण मृत्यु के बाद ब्रह्म के लोक से च्युत नहीं होता ॥ १ ॥
टि०--इस सूत्र के अनुसार यदि गृहस्थ भी अपने आश्रम के अनुसार कर्मों को करते हुए धर्म का आचरण करता है तो मुक्ति का अधिकारी बन सकता है। इस संबन्ध में गोविन्दस्वामी ने याज्ञवल्क्य स्मृति का पद्य उद्धृत किया है।
नित्योदकी उदकमण्डलुहस्तः। नित्ययज्ञोपवीती निवीतिप्राचीनावीतिभ्यामन्यत्र। नित्यस्वाध्यायी नित्याध्ययनः अन्यत्रानध्यायात्। वृषलश्शूद्रः। अन्नग्रहणादामं प्राणसंशये तत्स्थित्यर्थमभ्यनुज्ञातमेव। ऋतुः आर्तवः ऋतेर्ग-तिकर्मणो गर्भाधानक्षमकालः। न वसन्तादिः। तत्र गच्छन् मैथुनमाचरन् आह--
ऋतुस्स्वाभाविकः स्त्रीणां रात्रयष्षोडश स्मृताः।
चतुर्भिरितरैस्सार्धमहोभिस्सद्भिर्गर्हितैः॥
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥
एतच्च स्वभार्यायामेव। विधिवच्च जुह्वत् श्रुतिस्मृतिचोदितेन मार्गेण ब्रह्मलोकान्न च्यवते। ब्रह्म च तल्लोकश्च ब्रह्मलोकः। तस्मान्न च्यवते न भेदं प्रतिपद्यत इत्यर्थः। अनेन प्रकारेण गृहस्थस्याऽपि स्वाश्रमविहितकर्मणा मुक्तिमनुमन्यते¹। आह च याज्ञवल्क्यः--
न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ इति ।
तथा च धर्मस्कन्धब्राह्मणम्--'सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमे'ति इति ॥ १ ॥
'ऋतौ च गच्छन्' इत्युक्तम् । तच्च 'प्रजानिश्श्रेयसम्' इति गृह्येषूक्तम् । प्रजानां च जीवनं कथं भवतीति दायविभागप्रकरणमारभ्यते । तत्र परकृतिरूपां श्रुतिमुदाहरति--
"²मनुः पुत्रेभ्यो दायं व्यभज"दिति श्रुतिः ॥ २ ॥
१. अनुमीयत. इति. ग. पु.
२. "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८१
अनु०--श्रुति में कहा गया है कि मनु ने अपने पुत्रों में अपनी सम्पत्ति का विभाजन किया ॥ २ ॥
टि०--'पुत्रेभ्यः' से यह विशेष अर्थ निकलता है कि पुत्रों को ही पिता की सम्पत्ति में अधिकार है, पुत्रियों को नहीं । "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभाने दिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः ।"
पुत्रग्रहणात् पुंस एव विभजेत्, न दुहितुः । तथा च श्रुतिः-'तस्मात्स्त्रियो निरिन्द्रिया अदायादीः' इति । स्मृतिरपि—
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ॥ इति ।
तत्र दायो दातव्यं द्रव्यम्, तस्य विभागो दायविभागः, इदानीं कर्तव्य इति विधिकल्पना ॥ २ ॥
तत्राऽयं प्रकारः—
समशस्सर्वेषामविशेषात् ॥ ३ ॥
अनु०— पिता अपनी सम्पत्ति का सभी पुत्रों में विशेष भाग न देकर समान विभाजन करे ॥ ३ ॥
न विशेषः कश्चिच्छिष्यते—विषमो विभाग इति । अयं तु समो विभागः सवर्णापुत्राणामौरसानां समानगुणानां च । न त्वसवर्णापुत्राणामनौरसानामसमानगुणानाम् ॥ ३ ॥
अस्मिन्नेव विषये उद्धारयुक्तं विभागमाह—
वरं वा रूपमुद्धरेज्ज्येष्ठः ॥ ४ ॥
अनु०— अथवा ज्येष्ठ पुत्र उस सम्पत्तिमें सबसे उत्कृष्ट द्रव्य अपने विशेष भाग के रूप में प्राप्त करे ॥ ४ ॥
'आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः" इति समग्रा श्रुतिः ॥ नाभानेदिष्ठः इति मनुपुत्रेष्वन्यतमस्य नाम । ब्रह्मचर्यं वसन्तं गुरुकुलेऽधीयानम् । निरभजत् भागरहितमकरोत् । कथा कथम् । अन्यदत्र सुगमम् ।
१८२ | बौधायन-धर्मसूत्रम् | [ दायविभागः
वरमुत्कृष्टरूपं द्रव्यमुद्धरेत् गृह्णीयात् ॥ ४ ॥
किं तत्र प्रमाणम्—
तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः ॥ ५ ॥
**अनु०—**इस कारण लोग ज्येष्ठ पुत्र को धन (का विशिष्ट भाग) देकर पृथक् करते हैं ऐसा श्रुति का वचन है ॥ ५ ॥
**टि०--**यह तैत्तिरीय संहिता, २.५.२.७ में आया है। इस श्रुतिवाक्य से पूर्वोक्त अविशेष समान विभाजन का नियम निरस्त हो जाता है।
निरवसायनं पृथक्करणम् । धनेनोपतोष्य पृथक्कुर्वन्तीत्यर्थः । अनया श्रुत्याऽविशेषादिति हेतुरपसारितो भवति ॥ ५ ॥
दशानां वैकमुद्धरेज्ज्येष्ठः ॥ ६ ॥
**अनु०—**अथवा ज्येष्ठ पुत्र दश भागों में एक भाग अपने विशेष अंश के रूप में प्राप्त करता है ॥ ६ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । दशसङ्ख्याधिकेषु सत्स्वेष विभागो लाभाय भवति, न तु दशसंख्यान्यूनेषु । एतावुद्धारौ गुणवज्ज्येष्ठविषयौ वेदितव्यौ ॥ ६ ॥
सममितरे विभजेरन् ॥ ७ ॥
**अनु०--**शेष धन को दूसरे पुत्रों में समान अंश देते हुए विभाजन करे ॥ ७ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । अवशिष्टनवभागानितरे पुत्रास्समं विभजेरन् ॥ ७ ॥
पितुरनुमत्या दायविभागस्सति पितरि ॥ ८ ॥
**अनु०—**पिता के जीवित रहने पर सम्पत्ति का विभाजन उसकी आज्ञा से ही होना चाहिए ॥ ८ ॥
तदनिच्छ्या विभागो दोषो भवति ॥ ८ ॥
चतुर्णां वर्णानां गोऽश्वाजावयो ज्येष्ठांशः ॥ ९ ॥
**अनु०—**ज्येष्ठ पुत्र का अतिरिक्त अंश चार वर्णों के क्रम के अनुसार गो, अश्व, बकरा और भेड़ होता है ॥ ९ ॥
अंशनियमेनोद्धारः । मृते जीवति वा पितरि सत्सु गोऽश्वाजाविष्वेतत् । इतरे समं विभजेरन् । गवादीनां ज्येष्ठभागद्गवावशिष्टस्याऽप्याधिक्ये सति विज्ञेयम् ॥ ९ ॥
तायः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः
एवं समानवर्णस्त्रीपुत्रविषयो विभाग उक्तः। अथ—
नानावर्णस्त्रीपुत्रसमवाये दायं दशांशान् कृत्वा चतुरस्त्रीन् द्वावे-
कमिति यथाक्रमं विभजेरन् ॥ १० ॥
अनु०—यदि अनेक वर्ण की स्त्रियों से उत्पन्न अनेक पुत्र हों तो सम्पत्ति का दश भाग कर, स्त्री के वर्ण-क्रम के अनुसार पुत्रों को चार, तीन, दो और एक भाग मिलता है। १० ॥
टि०—ब्राह्मणी का पुत्र चार भाग, क्षत्रिया से उत्पन्न पुत्र तीन भाग, वैश्या से उत्पन्न पुत्र दो भाग तथा शूद्रा से उत्पन्न पुत्र एक भाग प्राप्त करते हैं। इसी प्रकार क्षत्रिय अपनी सम्पत्ति का छः भागकर अपनी क्षत्रिया, वैश्या, शूद्रा पत्नियोंके पुत्रों को क्रमशः तीन, दो और एक भाग बाँटता है; वैश्य अपनी सम्पत्ति का तीन भाग कर वैश्या से उत्पन्न पुत्रों को दो भाग तथा शूद्रा पत्नीसे उत्पन्न पुत्रों को एक भाग दे।
नानावर्णस्त्रियो ब्राह्मणादिखियः। तत्पुत्रसमवाये सति सर्वं दशधा विभ-
ज्य चतुरोंऽशान् ब्राह्मणीपुत्रो हरेत्। इतरेषु षट्सु त्रीनंशान् क्षत्रियासुतः। तत्परि-
शिष्टेषु त्रिषु द्वौ वैश्यासुतः। तायैतदविशिष्टांशं शूद्रासुतः। एवं क्षत्रियोऽपि सुत-
स्य वर्णक्रमात् षोढा कृतानां त्रीन् द्वावेकमिति यथाक्रमं प्रकल्पयेत्। तथा
वैश्योऽपि स्वपुत्रयोः द्वावेकमिति विभजेत् ॥ १० ॥
अथौरसविषयविभागः—
औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः ॥ ११ ॥
अनु०—औरस पुत्र के उत्पन्न होने पर अन्य सवर्ण पुत्र सम्पत्ति का तृतीय अंश प्राप्त करते हैं ॥ ११ ॥
टि०—औरस पुत्र पति द्वारा अपनी सवर्णा पत्नी से स्वयं उत्पादित पुत्र को कहते हैं। यदि किसी पुरुष का औरस पुत्र उत्पन्न होता है तो उसके अन्य सवर्ण पुत्र पूरी सम्पत्ति के तृतीय अंश में ही अपना हिस्सा पाते हैं। गोविन्दस्वामी की व्याख्या में 'सवर्णाः' के स्थान पर “असवर्णाः” ग्रहण किया गया है अर्थात् औरस सवर्ण पुत्र उत्पन्न होने पर अन्य वर्ण की पत्नियों से उत्पन्न पुत्र पूरी सम्पत्ति के तृतीय अंश में भी छः भाग कर वर्णानुसार तीन, दो, एक अंश ग्रहण करें।
औरसं सवर्णापुत्रं वक्ष्यति—'सवर्णायां संस्कृतायाम्' इति। तस्मिन्नु-
त्पन्नेऽसवर्णास्तृतीयांशहरा भवेयुः। सर्वं धनजातं त्रेधा विभज्य तेषामेकं
षोढा सम्पाद्य त्रीन् द्वावेकमिति कल्पयेत् ॥ ११ ॥
१८४ बौधायन-धर्मसूत्रम् [ पुत्रभेदाः
'सवर्णापुत्रानन्तरापुत्रयोरनन्तरापुत्रश्चेद्गुणवान् स ज्येष्ठांशं हरेत्॥१२॥
अनु०— सवर्णा पत्नी से उत्पन्न पुत्र तथा उससे ठीक नीचे के वर्ण वाली पत्नी से उत्पन्न पुत्र में यदि ठीक नीचे के वर्ण वाली पत्नी का पुत्र गुणवान् हो तो वही ज्येष्ठ पुत्र का अंश प्राप्त करे ॥ १२ ॥
गुणवत्ता हि श्रुतशीलादिः ॥ १२ ॥
गुणवत्पुत्रस्य ज्येष्ठांशहरणे कारणमाह—
गुणवान् हि शेषाणां भर्ता भवति ॥ १३ ॥
अनु०— गुणवान् पुत्र ही शेष पुत्रों का भरण-पोषण करने वाला होता है ॥१३॥
आहारदानादिगुणवत्त्वे समर्थ एव । अतो ज्यैष्ठ्यं गुणवयः-कृतम् ॥ १३ ॥
'औरसे तूत्पन्ने' इत्युक्तम् ; तत्र सर्वस्यौरसनिमित्तग्रहणे प्राप्ते परिभाषते—
सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रं विद्यात् ॥१४॥
अनु०-- अपने वर्ण की संस्कारपूर्वक विवाहिता पत्नी से स्वयम् उत्पादित पुत्र को औरस पुत्र समझना चाहिए ॥ १४ ॥
पाणिग्रहणेन शास्त्रलक्षणेन तस्यां स्वयमुत्पादित औरसो न क्षेत्रजादिः ॥ १३ ॥
एतत्सञ्ज्ञात् पुत्रप्रतिनिधीनाह—
अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रमन्यं दौहित्रम् ॥ १५ ॥
अनु०-- संविदा के अनुसार पुत्री से उत्पन्न पुत्र को पुत्रिकापुत्र कहते हैं और उसके अतिरिक्त पुत्री के पुत्र को दौहित्र कहते हैं ॥ १५ ॥
विद्यादित्यनुवर्तते । अभ्युपगम्य संवादाऽस्मदर्थमपत्यमिति या दुहिता दीयते तस्यां जातं दौहित्रं पुत्रिकापुत्रं विद्यात् । अन्यत्वमौरसापेक्षया । तस्याऽस्य गौणत्वप्रदर्शनार्थम् । अन्यं दौहित्रमित्यस्याऽपरा व्याख्या—अन्यः असंवादपूर्वकं दत्तायां जातः तं दौहित्रमेव विद्यात् ॥ १५ ॥
१. एतत्सूत्रानन्तरं "अथाप्युदाहरन्ति-अङ्गादङ्गात् सम्भवसि हृदयादधि जायते । आत्मा वै पुत्र नामासि स जीव शरदश्शतमिति" इति । सूत्रं सर्वेषु मूलपुस्तकेषूपलभ्यते । परन्तु व्याख्यानपुस्तकेष्वनुपलम्भात्र व्याख्यातमिति भाति"