बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
पञ्चमः खण्डः] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९३
अन्यतमवेदपक्षे त्रिः । इतरथा सकृदेव ॥ २९ ॥
अथ चेत्त्वरते कर्तुं दिवसे मारुताशनः ।
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम् ॥ ३० ॥
**अनु०—**जो व्यक्ति शीघ्रता करना चाहे वह दिन में केवल वायु का आहार करे (अर्थात् बिना कुछ खाये-पिये रहे) और रात्रि को जल में खड़ा रहकर ही सवेरा कर दे, तो वह प्राजापत्य कृच्छ्र के समान व्रत होता है ॥ ३० ॥
गायत्र्याऽष्टसहस्रं तु जपं कुर्वोत्थिते रवौ ।
मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ ३१ ॥
**अनु०—**जो व्यक्ति सूर्य के उगने पर एक सहस्र और आठ बार गायत्री मन्त्र का जप करता है, वह यदि विद्वान् ब्राह्मण की हत्या का दोषी नहीं है, तो सभी पापों से मुक्त हो जाता है ॥ ३१ ॥
त्वरते कर्तुं कर्म सामर्थ्यजुरथर्वेणामिति शेषः । प्राणायामविशेषेण जानुद्वयसजलस्थितस्याऽपि शाखार्थासिद्धयतीति मन्तव्यम् । व्युष्टः उषोन्तरितः । श्वोभूते अष्टौ च सहस्रं सावित्र्या जपं कुर्यात् । अत्र प्राजापत्येन तत्सममिति वचनादिदमन्यत् स्मृत्यन्तराद्वेदितव्यम्, प्राजापत्यादौ प्रवृत्तस्याशक्तस्य विप्रभोजनेनाऽपि तत्सिद्धिर्भवतीति । प्राजापत्ये तावदशक्यदिनेषु प्रतिदिनं विप्रान् पञ्चावरान् शुद्धान् भोजयेत् । एवं विधानेनैवाऽतिकृच्छ्रे पञ्चदशावरानशक्यदिनेषु प्रतिदिनं वा विप्रमेकम् । एतत्सर्वत्र समानम् । कृच्छ्रातिकृच्छ्रे त्रिंशतम्, तप्तकृच्छ्रेषु चत्वारिंशतम्, पराकनिर्णये पञ्चाशतम्, चान्द्रायणे षड्विंशतिम्, तुलापुंसि तु त्रयोविंशतिम्, महासान्तपने षड्विंशतिम्, तथैकाहोपवासे पञ्च । त्रिरात्रे प्रत्यहं दशदशेत्यादि ॥ ३०-३१ ॥
किं वाऽत्र बहुनोक्तेन—
योऽन्नदस्तसत्यवादी च भूतेषु कृपया स्थितः ।
पूर्वोक्तयन्त्रशुद्धेभ्यस्सर्वभ्यस्सोऽतिरिच्यते ॥ ३२ ॥
इति चतुर्थप्रश्ने पञ्चमः खण्डः ।
**अनु०—**जो अन्न का दान करता है, सत्यभाषण करता है तथा प्राणियों पर दया करता है वह पूर्वोक्त व्रतों से शुद्ध हुए सभी व्यक्तियों से बढ़कर होता है ॥ ३१ ॥
एवंविधवृत्तस्थ इत्यभिप्रायः ॥ ३२ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने पञ्चमोऽध्यायः ।
३९४ बौधायन-धर्मसूत्रम् [पापविनाशकजपविधिः
षष्ठोऽध्यायः
षष्ठः खण्डः
उक्तानि तन्त्राणि, जपा वक्तव्या इत्यत आह—
समाधुच्छन्दसां रुद्रा गायत्री प्रणवान्विता ।
सप्तव्याहृतयश्चैव जाप्यः पापविनाशनाः ॥ १ ॥
अनु०— मधुच्छन्दा नाम के ऋषि द्वारा दृष्ट (शाकलसंहिता के आरम्भिक दस) सूक्तों के साथ, 'नमस्ते रुद्र' आदि ग्यारह अनुवाकों, ओंकार से युक्त गायत्री मन्त्रों, तथा सात व्याहृतियों का जप करना चाहिए। ये पाप को नष्ट करते हैं ॥ १ ॥
मधुच्छन्दा यासामृचामृषिः। ताश्च सकलसंहिताया आदितो दशसूक्तानि। ताभिस्सह रुद्राः 'नमस्ते रुद्र' इति एकादशाऽनुवाकाः। अन्यत्प्रसिद्धम्। जपादिभिः प्रतिपूरणे कर्तव्ये सति एभिः प्रतिपूरणं वेदितव्यम् स्वातन्त्र्येण चैषामुपयोगः। तत्र कालगणना मन्त्रावृत्तिमणना च विशेषापेक्षया विज्ञेया ॥ १ ॥
मन्त्रजपौ वृत्तौ। काः पुनस्ता इष्टयः ? इत्याह—
मृगारेष्टिः पवित्रेष्टिस्त्रिहविः पावमान्यपि ।
इष्ट्यः पापनाशिन्यो वैश्वानर्या समन्विताः ॥ २ ॥
अनु०— मृगारेष्टि, पवित्रेष्टि, त्रिहविः पावमानी इष्टि वैश्वानरी इष्टि से संयुक्त ये सभी इष्टियाँ पाप का विनाश करती हैं ॥ २ ॥
'मृगारं' 'अग्नयेऽंहोमुचेऽष्टाकपालः'^१ इति दशहविरिष्टिः। तथा पवित्रेष्टिरपि 'अग्नये पवमानाय' इति दशहविरेव। त्रिहविस्सचनेष्टिः। पावमानी पाषमानेष्टिः। वैश्वानरो द्वादशकपालो वैश्वानरी। तथा समन्विता एताः पापनाशिन्यः, नैकैकशः ॥ २ ॥
आचार्य इमान् न्त्रनान् प्रत्याह—
इदं चौवाऽपरं गुह्यमुच्यमानं निबोधत ।
मुच्यते सर्वपापेभ्यो महतः पातकादृते ॥ ३ ॥
पवित्रैर्मार्जनं कुर्वन् रुद्रैकादशिकां जपन् ।
पवित्राणि घृतैर्जुह्वत् प्रयच्छन् हेमगांतिलान् ॥ ४ ॥
१. २७५. पृष्ठे द्रष्टव्यम्।