बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
पुत्राश्चेन्द्रियनिष्पादिताः । तथा च मन्त्रः—'अङ्गादङ्गात्सम्भवसि' इति । अतः करणसमवायिनः ।
अथोच्येत सर्वैरेव पितृगुणैः पुत्रैर्भवितव्यम् । अपि पतितत्वेनेति । तदपि न । कस्मात्—तदेतेन वेदितव्यम् दृश्यते ह्ययमर्थोऽङ्गहीनोऽपि साङ्गं जनयति, साङ्गोऽप्यङ्गहीनम् । अतो नाऽवश्यं पतितपुत्रेणाऽपि पतितेन भवितव्यम् ॥ १० ॥
अमुं तावत्पक्षं दूषयति—
'मिथ्यैतदिति हारीतो दधिधानीसधर्माः स्त्रियस्तयो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तच्छिष्टा धर्मकृत्येषूपयोजयन्ति । एवमशुचि शुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥ ११ ॥
हारीत का कथन है कि यह धारणा मिथ्या है । उनके अनुसार स्त्रियां यज्ञिय दधिधानी पात्र के समान होती हैं, जिस प्रकार दधिधानी में अशुद्ध दूध को मथने पर शिष्ट लोग उसका प्रयोग धर्म कार्यों में नहीं करते हैं इसी प्रकार जो व्यक्ति अपवित्र वीर्य से उत्पन्न होता है उसके साथ किसी प्रकार का संबन्ध नहीं होना चाहिए ॥ ११ ॥
टि०—इस मत के अनुसार देह भी कर्ता होने के कारण पतित होता है ।
अपतितायामपि जनन्यां पतितादुत्पन्नश्चेत् पतित एव भवतीत्येतदनेन कथ्यते । कस्य हेतोः ? यावता जनन्या अपि स उत्पन्नः । मिथ्यैतदिति हारीतः । हारीतग्रहणं पूजार्थम्, नाऽऽत्मीयं मतं पर्युदसितुम् । अत्र दधिधानीसाधर्म्यात् स्त्रीणां बीजप्राधान्यं दर्शयति । तथा द्रव्यानन्तरनिष्पत्त्यायतनत्वं दधिधान्या एव । आसामप्यशुचिशुक्लाधारत्वम् । यथा च दधिधान्यां प्रयतायामातञ्चितादप्रयताद्दध्नो मथननिष्पन्नं नवनीतं घृतं न धर्मकार्येष्विष्ट्यादिषु उपयुज्यते, एवमशुचिशुक्लनिष्पादितेन पुंसा न धर्मसम्बन्धो विधीयते । अथ यदुक्तं 'न सेन्द्रियः पतति इति तत् मिथ्यैव'। कथं ? द्वौ हि पुरुषौ भवतः-सोपाधिको निरूपाधिकश्च । यो निरूपाधिकः परमात्मा तस्याऽकर्तृत्वम् । सोपाधिकस्तु पुण्यापुण्ये करोति, तत्फलं चाऽनुभवति । उपाधिश्च बुद्ध्यादिर्देहपर्यन्तः । स हि क्षेत्रज्ञः । तस्मिंश्चाऽहम्प्रत्ययः । स च भूतात्मा स देहोऽहङ्कारं मनः ॥
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बीये धर्मे प्रायशस्समानानुपूर्विकमेव See. आप. ध. १ २९. १२--१४ ।
१७४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
ततो देहोऽपि कर्तृत्वादेव पतति । एवं च कृत्वा मृतेष्वपि पतितेषु तत्सपि-
ण्डानां तद्देहस्पर्शनादिः शिष्टैर्नाऽभ्युपगम्यते । तस्मादशुचिशुक्लोत्पन्नानामशु-
चित्वमेव । तथा च स्मृतिः--'पतितोत्पन्नः पतितो भवतीत्याहुः' इति । यदप्यु-
क्तम् 'अङ्गहीनोऽपि साङ्गम्' इति, तदपि ग्रहस्थितिवशात् आहारविशेषवशाच्च
युक्तम् । इह तु सेन्द्रिय एव पततीत्युक्तम् । किञ्च--स्त्रीपुंसाभ्यां हि पुत्रो
जन्यते । यद्यत्राऽपि पुमानङ्गहीनः स्त्री तु साङ्गा भवत्येव । ततोऽस्याऽङ्गानि-
प्रवर्तन्ते ॥ मनुः--
पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ इति ।
इदं चाऽन्यत्-भूयांसो धर्माः कारणगताः कार्ये भवन्ति । तत्र शुक्लादयो
गुणाः पुत्रे न भवन्तीति प्रमाणशून्यं वचः । अत एव तदपि मिथ्यैव । तस्मान्न
तेन सह सम्प्रयोगो विद्यत इति स्थितम् ॥ ११ ॥
यद्यपि सम्प्रयोगो न विद्यते, तथाऽपि प्रायश्चित्तं तस्याऽस्तीत्याह--
अशुचिशुक्लोत्पन्नानां तेषामिच्छतां प्रायश्चित्तिः ।
पतनीयानां तृतीयांशस्स्त्रीणामंशस्तृतीयः ॥ १२ ॥
अनु०—इस प्रकार अपवित्र वीर्य से ( पतित पुरुषों से ) उत्पन्न पुरुष यदि प्रायश्चित्त करने के इच्छुक हों तो उनका व्रत पतनीयों के व्रत का तीसरा अंश होता है और इस प्रकार उत्पन्न स्त्रियों का व्रत उसको भी तृतीय अंश होता है ॥ १२ ॥
पतनीयप्रायश्चित्तं यत्तूक्तं 'चतुर्थकाला मितभोजिनस्स्युः' इति तस्य तृतीयो भागः पतितोत्पन्नानां प्रायश्चित्तम् । स्त्रीणां तदुत्पन्नानां तस्याऽपि तृतीयो भागः, नवमभाग इति यावत् । तत्र तौल्येऽपि तद्बीजत्वे स्त्रीणां दोषलाघवमवगम्यम् । तथा च वसिष्ठो युक्तिमेवाऽऽह--
'पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः, सा हि परगामिनी, तामरिक्थामुपेया'दिति ॥ १२ ॥
'सर्वपण्यैर्व्यवहरणम्' ( २.२.५ ) इति पतनीयमुक्तम् । तत्र किल विषये किञ्चिदुच्यते-
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
श्वविष्ठायां क्रिमिर्भूत्वा पितृभिस्सह मज्जतीति ॥ १३ ॥
अनु०—यदि भोजन, मालिश और दान के अतिरिक्त किसी अन्य प्रयोजन के लिए तिलों का व्यवहार करता है तो वह क्रिमि बनकर अपने पितरों के साथ कुत्ते के मल में डूबता है, ऐसा उद्धरण दिया जाता है ॥ १३ ॥