सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

वाऽऽयुष्टे विश्वतो दधदित्येतैराज्यं जुहुयात्, वैश्वानराय प्रतिवेदयाम इत्युपति-
ष्ठत इति । पवित्रकामो वा जुहुयादित्येष । न वैसशरीरस्य सतः पापापहतिर-
स्तीत्यभिप्रायः ॥ ५ ॥

अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा
ब्रह्मचारिकल्पेन व्रतमुपैति ॥ ६ ॥

अनु०—अमावास्या या पौर्णमासी के दिन केश, दाढ़ी मूँछ, रोएँ और नखों को
कटाकर ब्रह्मचारी के लिए विहित विधि के अनुसार व्रत का आचरण करे ॥ ६ ॥

पर्वण्युपक्रमः । ब्रह्मचारिकल्पो मधुमांसादिवर्जनम् । इत्थंभूतलक्षणे
तृतीया । व्रतं सङ्कल्पः—कूष्माण्डैर्होण्यामीति ॥ ६ ॥

संवत्सरं मासं चतुर्विंशत्यहो द्वादश रात्रीः षट् तिस्रो वा ॥ ७ ॥

अनु०—उपयुक्त व्रत एक वर्ष, एक मास, चौबीस दिन, बारह रात्रियों, छः
रात्रियों या तीन रात्रियों तक करे ॥ ७ ॥

इमे श्रुतिसिद्धाः कल्पाः । एतेषां च व्यवस्था 'यावदेनो दीक्षामुपैति'
इति ॥ ७ ॥

न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेताऽनृतात् ॥८॥

अनु०—मांस का भक्षण न करे । स्त्रीगमन, आसन, चारपाई आदि पर
न बैठे और असत्य भाषण से दूर रहे ॥ ८ ॥

टि०—गोविन्दस्वामी के अनुसार इस व्रत में भी ऋतुकाल में पत्नीगमन विहित
है । तृणादि के आसन पर बैठने में कोई दोष नहीं है । औषध के प्रयोजन से भी
मांस भक्षण न करे ।

अनृतौ नोपेयादिति ऋतौ चोपेयादेव उपर्यासननिषेधः खट्वादाँ । ततश्च
तृणादावुपर्यासने न दोषः । जुगुप्सा निन्दा । नाऽनृतं वदेदित्यर्थः । ब्रह्मचा-
रिकल्पेनेत्यनेनैव मांसभक्षणादेरभावे सिद्धे संयोगपृथक्त्वत् । कर्माङ्गत्वमप्य-
वगम्यते । एवं च तदतिक्रमे कर्मैव निष्फलं भवति । अतश्चौषधार्थमपि मांसं
न भक्षयितव्यमिति गम्यते ॥ ८ ॥

अथ भक्षनियमः—

पयो भक्ष इति प्रथमः कल्पः ॥ ९ ॥

अनु०—दूध पीकर जीवन निर्वाह करना सबसे उत्तम विधि है ॥ ९ ॥

निगदव्याख्यातमेतत् ॥ ९ ॥

३३४बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

यावकं वोपयुञ्जानः कृच्छ्रद्वादशरात्रं चरेद्भिक्षेद्वा तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥ १० ॥

अनु०— अथवा यावक का भोजन के रूप में प्रयोग करते हुए बारह दिनों का कृच्छ्र व्रत करे अथवा भिक्षा से जीवन निर्वाह करे । ऐसी स्थिति में क्षत्रिय यवागू का भक्षण करे और वैश्य आमिक्षा का भक्षण करे ॥ १० ॥

उपयुञ्जानो जुहुयादिति शेषः । तप्ते पयसि दध्याननीते यच्छ्नं सा आमिक्षा भवति ॥ १० ॥

पूर्वाह्णे पाकयज्ञिकधर्मेणाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्नि-मुखात्कृत्वा । ‘“यद्देवा देवहेलनम्” ।

१. यद्देवा देवहेलनन्देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्त्तंस्यर्तेन मामित ॥ १ ॥ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवासस्सजोषसः ॥ २ ॥ ऋतेन द्यावापृथिवी ऋतेन त्वꣳसरस्वति । कृतान्नः पाहिनेनसो यत्किञ्चाऽनृतमूदिम ॥ ३ ॥ इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । तैनो मुञ्चन्त्वेनसो यदन्यकृतमास्म ॥ ४ ॥ सजातशꣳसादुतजामिशꣳसाज्ज्यायसश्शꣳ-सादुत वा कनीयसः । अनाधृष्टन्देवेकृतं यदेनस्तस्मात्त्वमस्माज्जातवेदो मुमुग्धि ॥ ५ ॥ यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳशिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता ॥ ६ ॥ येन ध्रितो अर्णवा-न्व्विभूर्येन सुयन्तमसो निमुंमोच । येनेन्द्रो विश्वा अजयदारातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि ॥ ७ ॥ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतितत्ते दधामि ॥ ८ ॥ यन्मयि माता गर्भ सत्येनञ्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ९ ॥ यदा पिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् । पहिं-सितौ पितरो मया तत्तदग्ने अनृणो भवामि ॥ १० ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ११ ॥ यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा० मनेनसम् ॥ १२ ॥ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नाऽपि दुष्कृतस्तमारोहामि सुकृतान्नु लोकम् ॥ १३ ॥ ऋते देवा अपुञ्जतैतदेनस्तित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चि-दानशेऽग्निर्मा तस्मादेनसो० मनेनसम् ॥ १४ ॥ दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुन्धन्तु शुन्धनीः ॥ १५ ॥ यदापो नक्तं