सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५५

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५५

क्वच गार्हस्थ्यस्यैकाश्रम्यमेव निःश्रेयसकरम्। उक्तं च—'गृहस्थोपि विमुच्यते' इति।

स्यादेतत्—नैव हि कर्मणां मोक्षोपायत्वमस्ति, प्रमाणाभावात्। न तावत्प्रत्यक्षं प्रमाणम्, विद्यमानोपलम्भनत्वात्तस्य। नाऽप्यनुमानम्, सम्बन्धग्रहणाभावात्। न खल्वपि शब्दः। कथम्? लौकिकस्तावत् मूलज्ञानाभावादसमर्थः। वेदवाक्यानि पुनः प्रातिस्विकफलदायोनि कर्माणीति श्रूयन्ते। यदपि 'अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति' इति तदेतदपि चिरेण क्षयमालोच्य भवतीति। यथा नक्तं संस्थापनवचनं “असंस्थितो हि तर्हि यज्ञ” इति चिरेण संस्थामालोच्य, तद्वदेवाऽऽपातः। न कृत्स्नेभ्योऽपि वेदकर्मभ्यो मोक्ष इतीदृशं वाक्यमस्ति। यद्यप्यस्ति तथाऽपि तदन्यार्थत्वेन नेतुं शक्यते। उपमानादि तु दूरोत्सारितम्। यच्च भगवद्गीतासु वचनम्—

कर्मणैव हि संसिद्धिमास्थिता जनकादयः। इति

तदपि सिद्धे सत्युपायत्वे कर्मणोऽवधारणं ब्रूयात्। तदेवाऽद्याप्यसिद्धम्। अतस्तदप्यन्यार्थमेव। तस्मात्कर्मणां न मोक्षोपायत्वे प्रमाणमस्ति। अस्ति तु ज्ञानस्य 'ब्रह्मविदाप्नोति परम्' इति ॥ ३१ ॥

अधुना केवलज्ञानात् कर्मरहितादेव मुक्तिरित्यस्मिन्नर्थे ऋगप्यस्तीत्याह—

तदेषाऽभ्यनूच्यते—एष नित्यो महिमा ब्राह्मणस्य। न कर्मणा वर्धते नो कनीयान्। तस्यैवाऽऽत्मा पदवित्तं विदित्वा। न कर्मणा लिप्यते पापकेनेति ॥ ३३ ॥

अनु०— इस सम्बन्ध में निम्नलिखित उद्धृत किया जाता है—ब्राह्मण की नित्य स्थायी रहने वाली महिमा यही है, यह न तो कर्म से बढ़ती है और न घटती है। आत्मा उस महानता के तत्त्व से परिचित रहता है। आत्मा भी किसी पाप कर्म से लिप्त नहीं होता ॥ ३२ ॥

टि०— तात्पर्य यह है कि परमात्मा न तो अग्निहोत्र आदि कर्मों से उनके फल का भोग करता है और न ही ब्रह्महत्यादि निकृष्ट कर्मों के पाप का ही भोग करता है। इस कारण कर्मफल का भोक्ता तथा कर्ता उससे भिन्न है। इस सम्बन्ध से कहा है कि सम्यक् दर्शन से युक्त व्यक्ति कर्मों के बन्धन में नहीं पड़ता।

वामदेव ऋषिः काण्ड ऋषिर्वा। त्रिष्टुप्छन्दः। ज्ञानप्रशंसा। एष आत्मेति सम्बध्यते। नित्यो महिमेति पदद्वयं स्वयमेव न्यासविधौ विवरिष्यति 'अपुनर्भवं नयतीति नित्यो, महदेनं गमयतीति महिमा' (२.१७.९,१०.) इत्यत्र। यद्वा—नित्यस्सर्वदा सः। महिमा महान् सर्वत्राऽस्तीति स एष परमात्माऽभि-

२५६ बौधायन-धर्मसूत्रम् [ज्ञानकर्मसमुच्चयः

प्रेतः। ब्राह्मणस्येति जात्यवच्छिन्नस्सोपाधिकः क्षेत्रज्ञवर्ती च तयोर्व्यतिरेकार्थः।
परमात्मा न कर्मणा अग्निहोत्रादिना वर्धते तत्फलभुग्भवति। अतस्ततोऽन्यः
कर्ता भोक्ता च। तथा-नोऽपि न कनीयान् कर्मणा ब्रह्महत्यादिना निकृष्टो
नरकभाग् भवतीत्यर्थः। यतोऽसौ पापमपि न करोति तस्मादेव तस्य ब्राह्मणस्य
सोपाधिकस्य, एवशब्दः पादपूरणः, अवधार्याभावात्। तस्याऽऽत्मा परमात्मा
पदवित्। पद्यते गम्यतेऽनेनार्थ इति वेदः पदं, अत एव 'नाऽवेदविन्मनुते तं
बृहन्तम्' इत्युक्तम्। सततमात्मानमभेदेन विदित्वा न कर्मणा लिप्यते पापकेन
शुभेन च।

तदुक्तम्-
सम्यग्दर्शनसपन्नः कर्मभिर्न स बध्यते इति।
तथा-
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति

एवं स्पष्टभाषिणा केवलज्ञानवादिना यः पर्यनुयुक्तः-

स यत् ब्रूयात् '-येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृ-
मान् योनियोनौ। नाऽवेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्प-
राये इति ॥ ३४ ॥

अनु०-यदि वह ऐसा कहता है तो इस पर ध्यान दे, जिसे वेद का ज्ञान नहीं
वह मृत्यु के समय उस महान्, सर्वानुभवी, आत्मा का ध्यान नहीं करता, जिसके
द्वारा सूर्य प्रकाशमान है, तेज से युक्त होकर प्रकाश प्रदान करता है और पिता पुत्र
का योनि से जन्म होने पर उसके माध्यम से पितृमान् होता है ॥ ३४ ॥

स ब्रूयात् परिहारत्वेनाऽधस्तनीसूचमित्यर्थः। सत्यमाह भवान् यदि
केवलादेव ज्ञानात् सर्वभेदप्रत्ययनिबर्हणान्मोक्ष इति, न त्वेतदेवम् । अपि
कर्मणः। ननु 'एष नित्यो महिमा' इत्युक्तं, सत्यं, ज्ञानात्, तत्तु न कर्म निषे-
धति । ननु-कर्मणां मोक्षं प्रत्यनुपायत्वात् निषेधत्येवेत्युक्तम्। मोक्षानभिज्ञः
कर्मद्वेषी देवानां प्रियः। मोक्षेऽपि नाऽऽत्मनश्शरीरपरिग्रहाभावः। स च
प्रागभावः प्रध्वंसाभावो वा ? न तावदात्मज्ञानेन शरीरं प्रध्वस्तम् , प्रत्यक्ष-
विरोधात्। तदुक्तं 'बुद्धे चेत्क्षेमप्रापणं इहैव न दुःखमुपलभेत' इति। अथ
मन्यसे सुखदुःखोपभोगार्थानि देहारम्भकाणि पुण्यापुण्यान्यदृष्टानि कर्माणि


१. अयमपि मन्त्रस्तैत्तिरीयब्राह्मणान्तर्गतकाठकभागस्य एव। त० ब्रा १२ ३.९