बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३६१
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३६१
उक्तं दानम्, तस्य साधनमाह—
हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि ॥ १५ ॥
अनु०—सुवर्ण, गाय, वस्त्र, अश्व, भूमि, तिल, घृत और अन्न—ये दान देने योग्य वस्तुएं हैं ॥ १५ ॥
एतानि प्रसिद्धानि । इतिशब्दाद्रजतोपानच्छत्राण्यपि गृह्यन्ते ॥ १५ ॥
संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाह-
-ष्षडहस्त्रयहोऽहोरात्रमेकाह इति कालाः ॥ १६ ॥
अनु०—एक वर्ष, छः मास, चार मास, तीन मास, दो मास, एकमास, चौबीस दिन, बारह दिन, छः दिन, तीन दिन, एक रात्रि-दिन, और एक दिन—ये तप के काल हैं ॥ १६ ॥
एक च तदहः एकाहः केवलम् । इतिशब्दात् केवलाऽपि रात्रिः ॥ १६ ॥
आनन्त्यात् पापानां प्रतिपापं प्रायश्चित्तोपदेशोऽप्यशक्य इति मत्वाऽऽह—
एतान्यनादेशे क्रियेरन्नेनस्सु गुरुषु गुरूणि लघुषु लघूनि ॥१७॥
अनु०—यदि किसी विशेष तप का निर्देश न किया गया हो तो इन्हों तपों को करना चाहिए । बड़े पाप होने पर बड़े तप और छोटे पाप वाले कर्मों के लिए छोटे तप करने चाहिए ॥ १७ ॥
विकल्पेनेति वाक्यशेषः । एतानि जपादीन्यनादेशे यानि प्रायश्चित्तान्य-न्यतोऽनुपदिष्टानि । यथाऽऽह—
‘अङ्घ्रि कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः’ इति ।
तत्र विकल्पेन तानि कर्तव्यानि-क्वचिज्जपः, क्वचित्तपः, क्वचिद्दानं क्वचित्स-र्वाणीति । गुरुत्वं चैनसोऽभिसन्ध्याद्यपेक्षया । आह चाऽऽपस्तम्बः—‘यः प्रमत्तो हन्ति प्राप्तं दोषफलम्, सह सङ्कल्पेन भूयः, एवमन्येष्वपि दोषवत्सु कर्मसु’ इत्यादि ॥ १७ ॥
‘कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिः सर्वप्रायश्चित्तिः॥१८॥
प्रायश्चित्तानि० ॥
उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥ १० ॥ अथाऽतोऽनश्नत्पारायण-
१. एतत्खण्डस्थानि सूत्राणि गोतमीयेनैकोविंशाध्यायेनाऽक्षरशस्संवदन्ति । (See. चौ. सं. १९. अ. ) किं तत्र कारणमिति न विद्मः ॥
३६२ बौधायन-धर्मसूत्रम् [ विविधप्रायश्चित्तानि
विधिम् ॥ ९॥ अथाऽतश्चान्द्रायणस्य ॥८॥ अथ कूष्माण्डैर्जुहुयात् ॥७॥
अथ कर्माभिरात्मकृतैः ॥६॥ अथाऽतः पवित्रातिपवित्रस्य ॥ ५ ॥ अथ
यदि ब्रह्मचर्यव्रत्यमिव चरेत् ॥ ४ ॥ अथ वानप्रस्थद्वैविध्यम् ॥ ३ ॥
यथो एतदृणिनिर्वर्तनोति ॥ २ ॥ अथ शालीनयायावरचकचराधर्मका-
ङ्क्षिणाम् ॥ १ ॥
इति तृतीयप्रश्ने दशमः खण्डः ॥
**अनु०—**कृच्छ्र, अतिकृच्छ्र और चान्द्रायण सभी पापों के लिए प्रायश्चित्त होते हैं ॥ १८ ॥
अनादेश इत्यनुवर्तत इति केचित् । इतिकरणात्पराकोऽपि । पापगुरुल्लघुत्वापेक्षया एतेषां व्यस्तसमस्तकल्पना ॥ १८ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे
तृतीयप्रश्ने दशमोऽध्यायः तृतीयप्रश्नस्समाप्तः ॥
अथ चतुर्थप्रश्ने
प्रथमोऽध्यायः
पुनरपि प्रायश्चित्तविषयैव कथा प्रस्तूयते—
प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।
तेषु तेषु च दोषेषु गरीयांसि लघूनि च ॥ १ ॥
**अनु०—**अब हम भिन्न-भिन्न दोषों के अनुसार बड़े और छोटे प्रायश्चित्तों का अलग-अलग विवेचन करेंगे ॥ १ ॥
नानार्थानि नानाप्रयोजनानि पृथक्पृथगनुष्ठातव्यानि न पुनर्देशकालादितन्त्रतया तन्त्रेणेति । न केवलं प्रयोजनानानात्वेन पृथगनुष्ठानम् । किं तर्हि गरीयस्सु गरीयांसि, न हि त्रिरात्रोपवासेनेव एकरात्रोपवासेन नश्यति । सोऽपि त्रिरात्रोपवासेनैव नाशयितव्य इत्यभिप्रायः ॥ १ ॥
यद्यत्र हि भवेद्युक्तं तद्धि तत्रैव निर्दिशेत् ।
भूयो भूयो गरीयस्सु लघुष्वल्पीयसस्तथा ॥ २ ॥
**अनु०—**जिस दोष के लिए जो प्रायश्चित्त उचित हो उस दोष के लिए उसी .