बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५९
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५९
अनु०—अनजान में ही सुरा पान करने पर तीन मास तक कृच्छ्र व्रत करे और पुनः उपनयन संस्कार करावे ॥ १८ ॥
टि०—द्रष्टव्य-मनु० ११।१५१ ।
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि ॥
कृच्छ्राब्दपादः संवत्सरप्राजापत्यचतुर्भागः । ब्रह्महत्यादिषूक्तैः प्रायश्चित्तैः ब्राह्मण एवाऽधिक्रियते नाऽन्यः । कुत एतत् ? ब्रह्महत्यादिभिः पतति यः । तद्वा कथमिति चेत् ? पञ्चाग्निविद्यायां दर्शनात् तत्र ह्युक्तं 'यथैव न प्राक्सत्वत्तः पुरा विद्या ब्राह्मणान् गच्छति' इति प्रक्रम्य 'तदेष श्लोकः—स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसंन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाऽऽचरंस्तैरिति ॥ अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन् पाप्मना लिप्यते' इत्यादि ॥
आह च मनुः—
अतोऽन्यतममास्थाय विधिं विप्रस्समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ इति ॥
तथा सुरायामपि
अथवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति ॥
तथा—सुवर्णस्तेयकृद्विप्रो राजानम्¹ ॥ इति ॥
एवमन्यान्यपि स्मृतिलिङ्गानि 'ब्राह्मणो ब्राह्मणं घातयित्वा' इत्यादीनि द्रष्टव्यानि ॥ १८ ॥
अथ पुनरुपनयने विशेषमाह—
²वपनव्रतनियमलोपश्च पूर्वानुष्ठितत्वात् ॥ १९ ॥
अनु०—दूसरे उपनयन संस्कार में पहले किये गये संस्कार के केशवपन, सावित्र व्रत, भिक्षाचरण आदि नियमों को छोड़ा जा सकता है ॥ १९ ॥
व्रतं सावित्रव्रतम् । नियमो भिक्षाचरणम् । चशब्दात् मेखलादण्डधारणमपि गृह्यते । तत्र हेतुः—पूर्वानुष्ठितत्वात् कृतस्य करणासम्भवादित्यर्थः ॥१९॥
१. अभिगम्यतु । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति इति श्लोकशेषः ।
२. वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि ॥ इति मनु० ११.१५१,
१६० | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
अथाप्युदाहरन्ति-
अमत्या वारुणीं पीत्वा प्राश्य मूत्रपुरीषयोः ।
ब्राह्मणः क्षत्रियो वैश्यः पुनस्संस्कारमर्हति ॥ २०॥
अनु०— इस सम्बन्ध में निम्नलिखित पद्य उद्धृत किया जाता है—
अनजान में ही वारुणी नाम की सुरा का पान करने पर या मूत्र या मल खा लेने पर ब्राह्मण, क्षत्रिय और वैश्य का पुनः संस्कार करना आवश्यक होता है ॥२०॥
मूत्रपुरीषयोरिति द्वितीयार्थे षष्ठी 'सुपां सुपो भवन्ति' इति । अयं पुनस्संस्कारश्चान्द्रायणसहितो द्रष्टव्यः 'विड्वराहश्लोके दर्शनात् ॥ २०॥
सुराधाने तु यो भाण्डे अपः पर्युषिताः पिबेत् ।
शङ्खपुष्पीविपक्वेन षडहं क्षीरेण वर्तयेत् ॥ २१ ॥
अनु०— किन्तु जिस व्यक्ति ने सुरापात्र में रखे गये जल का पान किया हो, वह शंखपुष्पी डालकर उबाले गये दूध का ही पान करते हुए छः दिन व्यतीत करे ॥२१॥
सुरां यस्मिन् भाण्डे धयन्ति पिबन्ति तत्सुराधानम् । अत्र पर्युषिताः उषसाऽन्तरिते काले निहिताः । शङ्खपुष्पी नाम समुद्रतीरे लताविशेषः । पर्युषितासु वसिष्ठ आह—
मद्यभाण्डस्थिता आपो यदि कश्चिद् द्विजः पिबेत् ।
पद्मोदुम्बरबिल्वपलाशकुशानामुदकं पीत्वा त्रिरात्रेण विशुद्धयति ॥
इति ॥ २१ ॥
इद्मन्यमरणे प्रायश्चित्तम्-
गुरुप्रयुक्तश्चेन्म्रियेत गुरुस्त्रीन् कृच्छ्रांश्चरेत् ॥ २२ ॥
अनु०— यदि गुरु द्वारा किसी कार्य के लिए नियुक्त शिष्य की वह कार्य करते समय मृत्यु हो जाय तो गुरु तीन कृच्छ्र व्रत का आचरण करे ॥ २२ ॥
मरणसन्देहास्पदीभूतेषु गुरुणा चोदितश्शिष्यो यदि म्रियेत सोऽस्य विषयः । शास्त्राविरुद्धोदकुम्भाहरणादिविषये प्रेरणमिदम् । दुर्गेदेशगमनादिषु विषयेषु ^३ब्रह्महत्या स्यादेव । गुरोरशासननिमित्तमृत्युविषयं चैतत् । स्वापराधनिमित्ते तु मरणे नेदं युक्तमिति । अगुरोः पुनश्चोदयितुर्हेननप्रायश्चित्तमेव ॥२२॥
१. See. मनु० ५.१०.
२. पलाशानमुदकं इत्येद म. पु. पा. ३. भ्रूणहत्यासममेवेति ख. घ पु.