बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८५
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८५
पितुरित्यपरे शुक्लप्राधान्यात् ॥ १९ ॥
**अनु०—**अन्य लोगों का मत है कि इस अवसर पर पिता का ही आशौच होता है, क्योंकि सन्तानोत्पत्ति में पिता के वीर्य की ही प्रधानता होती है ॥ १९ ॥
न हि शुक्लमन्तरेण भवन्तीति ॥ १९ ॥
ननु क्षेत्रमन्तरेणाऽपि प्रजा न भवन्तीत्याशङ्कयाऽऽह—
अयौनिजा ह्यपि पुत्राश्श्रूयन्ते ॥ २० ॥
**अनु०—**क्योंकि श्रुति में अयोनिज ( माता के गर्भ से न उत्पन्न होने वाले ) पुत्रों का उल्लेख है ॥ २० ॥
टि०— यथा अगस्त्य, वसिष्ठ। उर्वशी को देखकर मित्रावरुण देवो का वीर्यं वासतीवर नामके यज्ञ-कलश में गिरा जिससे अगस्त्य और वसिष्ठ उत्पन्न हुए ।
इस कथा के विषय में सायणाचार्य ने निम्नलिखित श्लोक उद्धृत किये हैं।
तयोरादित्ययोस्सत्रे दृष्ट्वाऽप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतत् वासतीवरे ॥
तेनैव तु मुहूर्तेन वीर्यवन्तो तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः ।
बहुधा पतितं रेतः कलशे च जले स्थले ॥
स्थले वसिष्ठस्तु मुनिस्सम्भूत ऋषिसत्तमः ।
कुम्भे त्वगस्त्यस्सम्भूतो जले मत्स्यो महाद्युतिः ॥
उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ।
अगस्त्यवसिष्ठादयः । तथा हि—'मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं
१. तयोरगस्त्यवसिष्ठयोराख्यायिकावेदकाः श्लोकाः सायणाचार्यैरेवमुदाहृताः-
तयोरादित्ययोस्सत्रे दृष्ट्वाऽप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतत् वासतीवरे । तेनैव तु मुहूर्तेन वीर्यवन्तो तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः । बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिस्सम्भूत ऋषिसत्तमः । कुम्भे त्वगस्त्यस्सम्भूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः । इति ।
**मन्त्रस्याऽयमर्थः—**उत अपि च हे वसिष्ठ त्वं मैत्रावरुणः मित्रावरुणयोः पुत्रोऽसि । हे महान् ! वसिष्ठ उर्वश्याः तन्नाम्न्या अप्सरसः सम्बन्धिनो मनसोऽधि जातः । मित्रावरुणयोरुर्वशीविषयकान्मानससङ्कल्पाज्जात इत्यर्थः । विश्वे देवाः कलशे स्कन्नं रेतरूपं त्वा पुष्कराख्ये स्थाने दैव्येन देवसम्बन्धिना ब्रह्मणा वेदराशिनाऽधारयन् इति ॥
| ८६ | बौधायन-धर्मसूत्रम् | [ आशौचविधिः |
|---|
दृष्ट्वा वासतीवरे कलशे रेतो न्यपतत् । ततोऽगस्त्यवसिष्ठावजायेतामिति । तदेतदृचाऽभ्युक्तम्—
'उताऽसि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ इति ॥ २० ॥
अतस्स्वमतमेवोपसंहरति—
मातापित्रोरेव तु संसर्गसामान्यात् ॥ २१ ॥
अनु०— किन्तु अन्तिम मत यही है कि माता और पिता दोनों के लिये आशौच होना चाहिए, क्योंकि सन्तानोत्पत्ति में दोनों का समान संसर्ग होता है ॥ २१ ॥
संसर्गः सम्बन्धः प्रजोत्पत्त्युपायभूतः । स चोभयोस्समानो यस्मात् ॥२१॥
अधुना क्रमप्राप्ते मरणे सत्युदकक्रियाप्रयोगक्लृप्तिरुच्यते—
मरणे तु यथाबालं पुरस्कृत्य यज्ञोपवीतान्यपसव्यानि कृत्वा तीर्थमवतीर्य सकृत्सकृत् त्रिर्निमज्ज्योत्तीर्याऽऽचम्य तत्प्रत्ययमुदकमासिञ्चाऽत एवोत्तीर्याऽऽचम्य गृहद्वार्यङ्गारमुदकमिति संस्पृश्याऽक्षारलवणाशिनो दशा॒हं कटमासीरन् ॥ २२ ॥
अनु०— मृत्यु के समय मृत के सम्बन्धी अवस्था के अनुसार कम आयु वालों को आगे कर, यज्ञोपवीत को दाहिने कन्धे के ऊपर (तथा बायीं भुजा के नीचे) कर, घाट पर जल में उतरें। एक-एक कर तीन बार डुबकी लगायें, जल से निकल कर आचमन करें और मृत व्यक्ति को उद्दिष्ट कर जल प्रदान करें। फिर किनारे पर आकर आचमन करें, अपने घर के द्वार पर अङ्गार, जल आदि इसी प्रकार की वस्तु का स्पर्श कर दश दिन तक क्षार, नमक आदि का भोजन न करते हुए चटाई पर सोयें ॥ २२ ॥
टि०— 'सकृत् सकृत्' से यह तात्पर्य है कि जल में डुबकी लगाने, जल से निकलने
१. अयमर्थ एतत्प्रोपरितनमन्त्रेणाऽपि स्पष्टं प्रतिपाद्यते—
सत्रे ह जाता विषिता नमोभिः कुम्भे रेतस्सिषिचतुस्समानम् ।
ततो ह मान उदियाय मध्यात्ततो जातपृषिमाहुर्वसिष्ठम् ॥
ऋ. सं. ५. ३. २४. ३.
ज्योतिष्टोमादिषु सोमयागेषु अभिषवकाले आसेचनार्थं अभिषुतस्य सोमरसस्याऽल्पत्वात् तेन सह मेलनार्थं च नद्यादितीर्थेभ्य आहृत्य कुम्भेषु आपस्संरक्ष्यन्ते । ता वसतीवर्य इत्युच्यन्ते । यत्र तास्सन्ति स कुम्भो वासतीवरः ॥ मानः अगस्त्यः ।
एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ८७
आचमन करने तथा उदकाञ्जलि देने के कार्य अलग-अलग तीन बार किये जायेंगे।
'अङ्गारमुदकमिति' में इति से गोबर पीले सरसो आदि का भी ग्रहण हो जाता है,
जिसका उल्लेख याज्ञवल्क्य ने किया है। प्रायश्चित्ताध्याय—
इति संस्पृश्य गच्छेयुर्गृहं बालपुरःसराः।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः॥ १२॥
आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान्।
प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः ॥ १३॥
(मेरे अनुवाद सहित संस्करण, पृ० ४०१ चौखम्भा प्रकाशन)
यथाबालं यो यो बालस्तं तं पुरस्कृत्य कनिष्ठप्रथमा इति यावत्। अपस-
व्यानि अप्रदक्षिणानि प्राचीनावीतानि कृत्वा। कथं यज्ञोपवीतानि भवन्ति
चेत् ? भूतगत्येति ब्रूमः। अन्यत्राऽपि प्रेतकृत्येष्वेवमेव भवितव्यम्। सकृद्-
ग्रहणं प्रतिनिमज्जनोन्मज्जनं उत्तीर्योत्तीर्येत्यर्थः। तत्प्रत्ययं प्रेतप्रत्ययं प्रेतं प्रत्याय्य
प्रेतस्य नामग्रहणपूर्वकं तदुद्देशं कृत्वेत्यर्थः। प्रत्ययमित्याभीक्ष्ण्ये णमुल्प्रत्ययो
द्रष्टव्यः। गृहप्रवेशावस्थायां पुनर्गृहद्वारे अङ्गारमुदकं च संस्पृश्य बालपुरस्सराः
गृहं प्रविशेयुः। इतिशब्देन प्रकारवाचिना स्मृत्यन्तरेणोक्तं समुच्चिनोति।
एवं हि याज्ञवल्क्य आह—
आचम्याऽग्न्यादिसलिलं गोमयं गौरसर्षपान्।
विदश्य निम्बपत्राणि गृहान् बालपुरस्सराः ॥
प्रविशेयुस्समालब्ध्य कृत्वाऽश्मनि पदं शनैः॥ इति ॥
ततः प्रभृति दशाहमक्षारलवणाशिनो भवेयुः। यावदाशौचं कटे तृणप्रस्तरे
आसीरन् उपविशेयुः। पिण्डदानमपि प्रतिदिवसं कार्यम् ॥ २२ ॥
एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥ २३ ॥
अन्०—ग्यारहवें अथवा बारहवें दिन श्राद्धकर्म करे॥ २३॥
कुर्युरिति शेषः। योऽप्ययमेकोद्दिष्टादेः ज्योतिषशास्त्रे कालो विहितः सोऽ-
निष्क्रान्ततत्कालस्य वेदितव्यः॥ २३॥
शेषक्रियायां लोकोऽनुरोद्धव्यः ॥ २४ ॥
अन्०—शेष क्रियाओं को करते समय लोक-नियमों का ही अनुसरण करना
चाहिए ॥ २४॥
अत्राऽपि प्रेतस्य शेषक्रियायाः कर्त्तव्यायाः लोको महाजनः अनुरोधव्यः।
नग्नप्रच्छादनश्राद्धं दाहादिषु। अत्राऽपि न केवलं दाहक्रियायामेव। तत्र हि
बहुशब्दे उदकमुक्तं, यच्चातः स्त्रिय आहुस्तत्कुर्वन्ति' इति। तथाऽन्यैरप्युक्तं
'स्त्रीभ्यस्सर्ववर्णैभ्यश्च धर्मशेषान् प्रतीयात्' इति ॥ २४ ॥
८८ बौधायन-धर्मसूत्रम् [ आशौचविधिः
अत्राऽप्यसपिण्डेषु यथाऽऽसन्नं त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ २५ ॥
अनु०— इस स्थिति में जो सपिण्ड न हों उनमें भी संबन्ध की निकटता के अनुसार तीन दिन-रात्रि, एक दिन-रात्रि अथवा एक दिन का या उससे कम समय का आशौच होता है ॥ २५ ॥
टी०— इस विषय में गौतम धर्मसूत्र में भी असपिण्डों के लिये पक्षिणी आशौच (दो दिन और उनके मध्य की रात्रि, या दो रात्रियां और उनके मध्य के दिन) होता है ।
'असपिण्डे योनिसंबन्धे सहाध्यायिनि च' इत्यादि २.५.१८
देखिये मेरे अनुवाद सहित संस्करण, चोखम्बा प्रकाशन, पृ० १४८
साम्प्रतं सपिण्डाशौचं कर्तव्यम् । तन्न तावत्समानोदकाशौचमुच्यते—इतिकरणात् सद्यशौचम् । अहोरात्रशब्देन पक्षिण्युपक्षिप्ता । वृत्तस्वाध्यायापेक्षश्चाऽयं विकल्पः । वृत्तनिमित्तानि चाऽध्ययनविज्ञानानि कर्माणीति द्वयेकगुणनिर्गुणानां व्युत्क्रमेणैते पक्षा भवन्ति ॥ २५ ॥
आचार्योपाध्यायतत्पुत्रेषु त्रिरात्रं^१ पक्षिण्येकाहम् ॥ २६ ॥
अनु०— आचार्य, उपाध्याय और उनके पुत्रों की मृत्यु पर क्रमशः तीन रात और दिन का पक्षिणी (दो रात्रि और मध्यवर्ती दिन, या दो दिन और मध्यवर्ती रात्रि), तथा एक दिन का आशौच होता है ॥ २६ ॥
टी०— मूल पुस्तकों में 'पक्षिण्येकाहम्' पाठ नहीं है । गोविन्द स्वामी की प्रति में यही पाठ है, जिसके अनुसार उन्होंने व्याख्या की है । गौतम धर्मसूत्र में आचार्य, आचार्यापत्नी, यजमान और शिष्य की मृत्यु पर तीन दिन का आशौच विहित है । २.५.२६, पृ० १५१ पर ।
आचार्ये प्रेते त्रिरात्रम् । उपाध्याये पक्षिणी । तयोः पुत्रेष्वेकाहम् ॥ २६ ॥
ऋत्विजां च ॥ २७ ॥
अनु०— ऋत्विज् की मृत्यु पर भी तीन दिन और रात्रि का आशौच होता है ॥
चशब्दाद्याज्यस्य च । त्रिरात्रमृत्विजां च ॥ २७ ॥
शिष्यसतीर्थसब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥२८॥
अनु०— शिष्य, समान गुरुवाले, साथ ब्रह्मचर्य जीवन व्यतीत करने वाले की
१. पक्षिण्येकाहमिति नाऽस्ति मूलपुस्तकेषु सर्वेष्वपि ।