सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९७

सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९७

आहूत हैं और ये वे नियम हैं जिनके द्वारा भरद्वाज आदि ऋषियों ने ब्रह्म की समता प्राप्त की ॥ ९ ॥

मन्त्राणां मार्गो मन्त्रमार्गः पाठः स एव प्रमाणं यस्य विधानस्य तदुदीरितं पाठमूलत्वं स्यात्तादृशानामपि धर्माणांमुक्तं तत्, प्रजापत्यादेरपि यन्त्रस्य । विधानं मन्त्रादेर्मूलमिति । अयं किलाऽऽचार्यो मन्त्रप्रमाणक इव लक्ष्यते—'पञ्चतयेन कल्पमवेक्षते 'तच्छन्दसा ब्राह्मणेन' इति तच्छन्दसो मन्त्रात्मकस्य प्रथमनिर्देशं ब्रुवन्नन्यत्र छन्दसा न शक्नुयात् कर्तुमित्यपवावदौर्बल्यमभ्यनुजानंश्च । ब्रह्मणस्समानमिति वचनादभ्युदयार्थमित्येतद्विधानमिति गम्यते ॥ ९ ॥

तदाह—
प्रसन्नहृदयो विप्रः प्रयोगादस्य कर्मणः ।
कामांस्तांस्तानवाप्नोति ये ये कामा हृदि स्थिताः ॥ १० ॥
इति चतुर्थप्रश्ने षष्ठः खण्डः ।

अनु०—प्रसन्न चित्त वाला विप्र इन कर्मों का आचरण कर उन सभी इच्छाओं को प्राप्त कर लेता है, जो-जो इच्छाएं उसके मन में होती हैं ॥ १० ॥

क्रियत इति कर्म । तच्च मन्त्रपाठप्रमाणं विधानम् । तस्यैषा प्रशंसा ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्ने षष्ठोऽध्यायः ।


सप्तमोऽध्यायः

सप्तमः खण्डः

निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।
यो विप्रस्तस्य सिध्यन्ति बिना यन्त्रैरपि क्रियाः ॥ १ ॥

अनु०—जो विप्र पाप कर्मों से विरत है तथा पुण्य कर्मों में प्रवृत्त है उसकी क्रियाएं व्रतों का आचरण किए बिना भी सिद्ध हो जाती हैं ॥ १ ॥

प्रतिषिद्धवर्जनस्य विहितानुष्ठानस्य च प्रशंसैषा । यद्येवंविधस्य, पुरुषस्य पूर्वोक्तयन्त्राभावेऽपि सामर्थ्यादुत्तरथर्वणां कर्मण्यधिकारोऽस्तीति दर्शयति । तस्याऽपि वक्ष्यमाणो गणहोमो भवत्येव ॥ १ ॥

३९८बौधायन-धर्मसूत्रम्[ ब्राह्मणप्रशंसा

अथैवंविधानां ब्राह्मणानां प्रशंसा—

ब्राह्मणा ऋजवस्तस्माद्यद्यदिच्छन्ति चेतसा ।
तत्तदा साधयन्त्याशु संशुद्धा ऋजुकर्मभिः ॥ २ ॥

अनु०—अपने शुद्ध कर्मों से पवित्र सरल हृदय वाले धर्मात्मा ब्राह्मण जिस कार्य की अपने मन से इच्छा करते है उसे शीघ्र ही सफल बना लेते हैं ॥ २ ॥

ऋजुकर्माणि विहितकरणप्रतिषिद्धवर्जनलक्षणानि ॥ २ ॥

अथेदानीं निरपेक्षानैकयन्त्रोपदेशप्रयोजनमाह—

एवमेतानि यन्त्राणि तावत्कार्याणि धीमता ।
कालेन यावतोपैति विग्रहं शुद्धिमात्मनः ॥ ३ ॥

अनु०—बुद्धिमान् व्यक्ति इन व्रतों को उतने ही समय तक करे जितने समय तक करने से शरीर की शुद्धि हो जाय ।

कालेन कालपरिमित्रेन यन्त्रेण विग्रहं शरीरम् । उपैतिर्नयत्यर्थे । ततश्च द्विकर्मत्वाद्विग्रहमिति द्वितीयोपपत्तिः । एनस्सु गुरुषु गुरूणि लघुषु लघूनीत्ययमर्थोऽन्यत्र दर्शितः । आह—

यस्मिन् कर्मण्यस्य कृते मनसस्यादलाघवम् ।
तस्मिन् तावत्ततः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ इति ॥ ३ ॥

जपहोमेष्टियन्त्रान्युक्तान्युपसंहरति—

एभिर्यन्त्रैर्विशुद्धात्मा त्रिरात्रोपोषितस्ततः ।
तदारभेत येनर्द्धिं कर्मणा प्राप्तुमिच्छति ॥ ४ ॥

अनु०—जो व्यक्ति इन तपश्चरणों से शुद्ध हो चुका है वह तीन दिन और रात्रि उपवास करे, उसके बाद उस क्रिया आरम्भ करे जिसके द्वारा अभीष्ट इच्छा की सिद्धि करना चाहता हो ॥ ४ ॥

गणहोमादर्वागेवोपसंहाराभिधानं तस्याऽपि त्रिरात्रोपवासाङ्गत्वज्ञापनाय॥

क्षापवित्रं सहस्राक्षो मृगारोऽंहोमुचौ गणौ ।
पावमान्यश्च कूष्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥ ५ ॥

अनु०—क्षापवित्र ( क्षा से युक्त पवित्र मन्त्र, 'क्षां विश्वेभिः' आदि तैत्तिरीय ब्राह्मण २.८.२ ), सहस्राक्ष ( अर्थात् पुरुषसूक्त ), मृगार ( 'अग्नेर्मन्वे' आदि अनुवाक ), बंहोमुच् नाम के दो गण ( 'या वायिन्द्रावरुणा यतण्या आदि चार मन्त्र,

सप्तमः खण्डः ] चतुर्थप्रश्ने सप्तमोऽध्यायः ३९९

तथा 'यो वामिन्द्रावरुणावग्नो स्तोमस्तं वामतेनाऽव्यजे' आदि आठ मन्त्र ), पाव-
मानी ( 'पवमानस्सुवर्जन' अनुवाक ), कूष्माण्डी ( 'यदद्देवा' आदि इक्कीस
ऋचाएँ ), वैश्वानरी ऋचाएँ ( 'वैश्वानरो न ऊत्या' आदि आठ ऋचाएँ ) —
इन सबका पाठ करे ॥ ५ ॥

१. अग्नेर्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहवस्समिन्धते । विश्वस्यां विशि
प्रविशिखाँसमीमहे स नो मुञ्चत्वꣳहसः ॥ १ ॥ यस्येदं प्राणन्निमिषद्यदेज'ति यस्य
जातं जनमानञ्च केवलम् । स्तोम्य न्नायितो जोहवीमि स नो मुञ्चत्वꣳहसः ॥२॥
इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नस्तोमा उप मामुपागुः । यो दाशुषस्सुकृतो
हवमुपगन्ता स नो मुञ्चत्वꣳहसः ॥ ३ ॥ यस्संग्रामन्नयति सं वशी युधे यः पुष्टानि
सꣳसृजति त्रयाणि । स्तोमेन्द्रन्नाथितो जोहवीमि स नो मुञ्चत्वꣳहसः ॥ ४ ॥ मन्वेवां
मित्रावरुणा तस्य वित्तꣳसत्यौजसा दृꣳहणा यन्नुदेथे । या राजानꣳ सरथं याथ
उग्रा ता नो मुञ्चतमागसः ॥ ५ ॥ योवाꣳ रथो ऋजुरश्मिस्सत्यधर्मा मिथुञ्चरन्तमुप-
याति दूषयन् । स्तोमि मित्रावरुणा नाथितो जोहवीमि तो नो मुञ्चतमागसः ॥ ६ ॥
वायोस्सवितुर्विदथानि मन्महे यावात्मन्वद्बिभृतो यो च रक्षतः । यो विश्वस्य परिभू-
बभूवतुस्तो नो मुञ्चतमागसः ॥ ७ ॥ उप श्रेष्ठा न आशिषो देवयोर्घर्मं अस्थिरन् ।
स्तोमि वायु ꣳ सवितारन्नाथितो जोहवीमि तो नो मुञ्चतमागसः ॥ ८ ॥ रथी-
तमो रथीनामहू ऊतये शुभं गमिष्ठौ सुयमेभिरश्वैः । ययोर्वा देवौ देवेष्वनिशितमो-
जस्तो नो मुञ्चतमागसः ॥ ९ ॥ यदयातं वहतुꣳसूर्यायास्त्रिचक्रण सूꣳसदमिच्छमानी ।
स्तोमि देवावश्विनो नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ १० ॥ मरुतां मन्वे
अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हवे सुयमानूतये ते नो मुञ्च-
न्त्वेनसः ॥ ११ ॥ तिग्ममायुधं वीडितꣳ सहस्वद्विद्यत्ꣳशर्धः पृतनासु जिष्णु । स्तोमि
देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥१२॥ देवानां मन्वे अधि नो ब्रु-
वन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हुवे सुयमानूतये ते नो मुंचन्त्वे-
नसः ॥ १३ ॥ यदिदं माऽभिशोचति पौरुषेयेण दैव्येन । स्तोमि विश्वान् देवात्राथितो
जोहवीमि ते नो मुञ्चन्त्वेनसः ॥ १४ ॥ अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ॥१५॥ अन्विदनुमते त्वं मन्यासै शञ्च नः कृ-
धि । क्रत्वे दक्षाय नो हिनु प्रण आयूꣳषि तारिषः ॥ १६ ॥ वैश्वानरो न ऊत्या प्रयातु
परावतः । अग्निरुक्थेन वाहसा ॥ १७ ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो
विश्वा ओषधीराविवेश । वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा सरिषः पातु
नक्तम् ॥ १८ ॥ ये अप्रयेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् । स्तोमि
द्यावापृथिवी नाथितो जोहवीमि तेनो मुञ्चतमꣳहसः ॥ १९ उर्वी रोदसी वरिवः
कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तोमि द्यावापृथिवी नाथितो जोहवीमि ते
नो मुञ्चतमꣳहसः ॥२०॥ यत्तैं वयं पुरुषत्रा यविष्ठाऽविद्वाꣳसश्चकृमा कच्चनाऽऽगः ।

४००बौधायन-धर्मसूत्रम्[ चान्द्रायणविधिः

कृधी स्वस्माऽअदितेरनागा व्येनाँ सि शिश्रथो विश्वगग्ने ॥२१॥ यथा ह तद्वसवो
गौर्यंचित्पदिषिताममुञ्चता यजत्राः । एवास्मस्मत्प्रमुञ्चाव्यंहो॒ प्रतार्यग्ने प्रतराण
आयुः ॥ २२ ॥ ( तै. सं. ४. ७. १५. ) ॥

क्षापवित्रं क्षाशब्दवत् पवित्रं च, तच्च तैत्तिरीयाणां सूक्तपाठे 'अ-
ग्नेनय' इत्यादिषडृचम् । अयमेको मन्त्रगणः तैत्तिरीयपाठसिद्धो गृहीतव्यः ।
सहस्राक्षस्तावत्पुरुषसूक्तं, तच्चाऽष्टादशर्चम् । मृगारो मृगाराया दृष्टेर्याज्यानु-
वाक्या द्वाविंशतिर्ऋचः 'अग्नेर्मन्वे' इत्यनुवाकः । अंहोमुचो तच्छन्दवन्तौ
गणौ । तयोः³ 'या वामिन्द्रावरुणा' इत्येकः चत्वारो मन्त्राःसानुषङ्गाः । अप-
रो⁴ 'यो वामिन्द्रावरुणा' इत्यष्टौ । अत्र तादृश एव सामशब्दोऽहोमुचव-
चनः । पावमान्योऽपि तच्छन्दवत्यः ऋचस्सप्तदश । ताश्च५ 'पवमानस्सु-
वर्जनः' इत्यनुवाकः । "कूष्माण्ड्यः 'यद‍ेवाः' इत्याद्या एकविंशतिर्ऋचः ।
वैश्वानर्य्य६ 'वैश्वानरो न ऊत्या' इत्यष्टौ । एतेऽष्टौ मन्त्रगणाः प्रायशो विश्वे-


१. या वामिन्द्रावरुणा यतव्या तनूस्तयेममहंसो मुञ्चतम् ॥१॥ या वामिन्द्राव-
रुणा सहस्या तनूस्तयेममहंसो मुञ्चतम् ॥२॥ या वामिन्द्रावरुणा रक्षस्या तनूस्तये-
ममहंसो मुञ्चतम् ॥३॥ या वामिन्द्रावरुणा तेजस्या तनूस्तयेममहंसो मुञ्चतम् ॥४॥

२. यो वामिन्द्रावरुणावग्नो स्वामस्तं वामेतेनाऽवयजे ॥ १ ॥ यो वामिन्द्रावरुणा
द्विपात्सु पशुषु क्षामस्तं वामेतेनाऽवयजे ॥ २ ॥ यो वामिन्द्रावरुणा चतुष्पात्सु पशुषु
क्षामस्तं वामेतेनावयजे ॥ ३ ॥ यो वामिन्द्रावरुणा गोष्ठे क्षामस्तं वा०यजे ॥ ४ ॥
यो वामिन्द्रावरुणा गृहेषु क्षामस्तं वा०यजे ॥ ५ ॥ यो वामिन्द्रावरुणाऽप्सु क्षामस्तं
वा०यजे ॥ ६ ॥ यो वामिन्द्रावरुणौषधीषु क्षामस्तं वा०यजे ॥ ७ ॥ यो वामिन्द्रा-
वरुणा वनस्पतिषु क्षामस्तं वामेतेनाऽवयजे ॥ ८ इत्यष्टौ ॥ ( तै. सं. २. ५. ११ )

३. २५७. पृष्ठे टिप्पण्यां द्रष्टव्यम् । ४. २३८. पृष्ठे टिप्पण्यो द्रष्टव्यम् ।

५. वैश्वानरो न ऊत्या प्रयातु परावतः । अग्निरुक्थेन वाहसा ॥ १ ॥ शृणोत्वग्निं
वैश्वानरममृतस्य ज्योतिष्पतिम् । अजस्रं घर्मममिहे ॥ २ ॥ [वैश्वानरस्य दंसनाभ्यो
बृहद्धरिणादेकस्स्वपस्यया कविः । उभा पितरा महयन्नजायतऽग्निर्द्यावापृथिवी भुरिरे-
तसा॥३॥ पृष्टो दिविः पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानर-
स्सहसा पृष्टो अग्नित्स नो दिवा स रिषः पातु नक्तम् ॥ ४ ॥ जातो यदग्ने भुवना
व्यख्यः पशुं न गोपा इर्यः परज्मा। वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभि-
स्सदा नः ॥५ ॥ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणः जायमानः । त्वं
देवाँअभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥६॥ अस्माकमग्ने मघवत्सु धार-
याऽनामिक्षममजरं सुवीर्यम् । वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोति
भिः ॥ ७ ॥ वैश्वानरस्य सुमती स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो
विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ॥ ८ ॥ ( तैं. सं. १. ५. ११) ।