बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अथाऽपोऽभिप्रपद्यते—
हिरण्यशृङ्गं वरुणं प्रपद्यते तीर्थं मे देहि याचितः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥
यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
तन्म इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनः पुनरिति ॥
अनु०—पैरों को धोने के बाद इस मन्त्र का पाठ करते हुए जल में प्रवेश करे— मैं सुवर्ण की सींगवाले वरुण की शरण में जाता हूँ । हे वरुण, मेरी प्रार्थना सुनकर मुझे स्नान योग्य पवित्र जल दो । अपवित्र जनों का जो अन्न मैंने खाया हो अथवा पापी जनों से जो कुछ दान लिया हो, मन से, वाणी से और कर्म से मैंने जो कुछ पाप किया हो, उसे इन्द्र, वरुण, बृहस्पति और सविता मुझ से दूर कर मुझे बार-बार पवित्र करे ॥ ३ ॥
टि०—'हिरण्यशृङ्ग' इत्यादि तैत्तिरीय आरण्यक १०. १. १२ में प्राप्त ऋचा वामदेव ऋषि की बतायी गयी है, प्रथम पद्य पुरस्ताद्बृहती छन्द में और दूसरा पंक्ति छन्द में है ।
अथशब्दात्प्रक्षालनानन्तर्यमाह । अत्र गन्धद्वारामित्यृचा गोमयेनात्मान-मालेप्यं$^१$ केचिदिच्छन्ति । हिरण्यशृङ्गमिन्यूचोवामदेव ऋषिः । काण्डर्षयो वा विश्वेदेवाः । प्रथमा पुरस्ताद् बृहती, द्वितीया पंक्तिः । उभे अपि लिङ्गोक्तदैवते । तत्र द्वयोरप्ययमर्थः--हिरण्यशृङ्गं हिरण्मयशृंगं वरुणं प्रपद्ये त्वां शरणं इत्य-ध्याहारः । मया याचितस्त्वं मम स्नानाय तीर्थं जलाशय देहि । वरुणो ह्यपां राजा 'यासां राजा वरुणः' लिङ्गात् । किमतो यदाज्ञया तुभ्यं तीर्थमिति ? आह--यन्मयेति । असाधूनामभोज्यान्नानां अन्नं यन्मया भुक्तम्, यो वा मया पापकर्मभ्यः प्रतिग्रहः कृतः, यच्च मया मनोवाक्कायकर्मभिः दुष्कृतं, तत्सर्वं जलाशयेस्नानेन, इन्द्रादयः पुनन्विति यन्मया पुनः पुनः प्रार्थयितुं शक्यते इत्येतदतो भवति ॥ ३ ॥
अथाऽञ्जलिना उपहन्ति 'सुमित्रा न आप ओषधयस्सन्व'ति ॥४॥
अनु०--इसके अनन्तर अञ्जलि से 'सुमित्रा न आप ओषधयस्सन्तु' (जल और ओषधियाँ मेरे लिए सुखदायी होंवे) कहते हुए जल ग्रहण करे ॥ ४ ॥
द्विहस्तसंयोगोऽञ्जलिः तेनाऽञ्जलिना$^२$ जलप्रपद्नानन्तरमुपहन्ति
१. 'गोमयेनानुपलेपनं' इति, घ. पु.
२. जलप्रवेशादन्तरं इति. घ पु.
२३६ बौधायन-धर्मसूत्रम् [ स्नानविधिः
गृह्णाति । नः अस्माकं आपश्चौषधयश्च तदुत्पादितास्सुमित्राः सुखहेतवस्स-
न्त्विति मन्त्रार्थः ॥ ४ ॥
अथैना अपः—
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति "दुर्मित्रास्त-
स्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्म" इति ॥ ५ ॥
अनु०—उस जल को 'दुर्मित्रास्तस्मै भूयासुः योऽस्मान् द्वेष्टि यं च वयं द्विष्मः
( जो मुझसे द्वेष करता है और जिससे हम द्वेष करते हैं। उसके लिए यह जल नाश
करने वाला हो) कहकर उस दिशा की ओर गिरावे जिस दिशा में उसका कोई शत्रु
निवास करता हो ॥ ५ ॥
अस्य स्नातुः द्वेष्यो यस्यां दिशि अस्ति तां दिशं अपोऽभ्युक्षति । यः पुरुषः
अस्मान् द्वेष्टि यं वा वयं द्विष्मः तस्मै दुर्मित्रा दुःखहेतवः आपो भूयासुरिति
मन्त्रार्थः ॥ ५ ॥
अथाऽप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयति "यदपां क्रूरं
यदमेध्यं यदशान्तं तदपगच्छता" दिति ॥ ६ ॥
अनु०—जल से आचमन कर तीन बार प्रदक्षिणा करते हुए और "यदपां
क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्" ( जल में जो कुछ कष्टदायी, अपवित्र और
अशुभ हो वह निकल जाय ) कहते हुए अपने चारो ओर जल में आवर्त उत्पन्न
करे ॥ ६ ॥
उपस्पर्शनं पाणिप्रक्षालनं आवर्तयति परिभ्रामयति, क्रूरं यदमेध्यं मूत्रादि
अशान्तं व्याधिरूपं यदेवञ्जातीयकं अप्सम्बन्धि तत्सर्वमपगच्छतादिति मन्त्रा-
भिप्रायः ॥ ६ ॥
अप्सु निमज्ज्योन्मज्ज्य ॥ ७ ॥ नाऽप्सु सतः प्रयमणं विद्यते
न वासः प्रक्षूलनं नोपस्पर्शनम् ॥ ८ ॥
अनु०—जल में डुबकी लगाकर और निकलकर ( पुनः आचमन करे ) ॥७॥
अनु०—जल में रहकर शरीर की सफाई ( शौचादि कर्म ), वस्त्रों को हाथ से
रगड़ कर धोने तथा आचमन का कार्य न करे ॥ ८ ॥
उन्मज्ज्याऽऽचान्तः पुनराचामेदिति सम्बन्धः। निमज्जनमद्भिरात्मनः प्रच्छा-
दनम् उन्मज्जनं ताभ्य आविर्भावः। अत्रोन्मज्जनानन्तरभाविनीं क्रियामनुक्त्वा
मनस्याविर्भूतं प्रतिषेधं विस्मरणभयादाचार्य उपदिशति स्म—नाप्सु सत इति।