सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

षष्ठः खण्डः ] प्रथमप्रश्ने चतुर्थोऽध्यायः ३९

षष्ठः खण्डः ] प्रथमप्रश्ने चतुर्थोऽध्यायः ३९

अजः छागः। स्तम्बस्सङ्घातः। एतेषु चतुर्ष्वग्निः पठ्यते वेदेषु^१ आधाने— 'आग्नेयी वा एषा यदजा' इत्येवमादिषु। तस्माद् ब्राह्मणस्याऽपि दक्षिणे हस्तेऽग्निर्विद्यते। एवं च कमण्डलोरशुचिभावे प्राप्ते तं दक्षिणेन पाणिना परिसृजेत् 'उद्दीप्यस्व' इति मन्त्रेण। पर्यग्निकरणं तद्भवति। तच्च पुनर्दाहाद्विशिष्टतरं शौचमापादयतीत्यर्थः ॥ २ ॥

अत्राऽपि किञ्चित्संस्पृष्टं मनसि मन्यते कुशैर्वा तृणैर्वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥ ३ ॥

अनु०—इस विषय में भी यदि मन में ऐसी धारणा हो कि पात्र कुछ अशुद्ध हो गया है तो कुशस्तबक या अन्य प्रकार के तृणों को जलाकर दाहिने हाथ को नीचे करते हुए, चारो ओर से गरम करे ॥ ३ ॥

कमण्डलोरेवाऽशुचिसंस्पर्शशङ्कायां कुशैर्वा विश्वामित्रतृणैर्वाऽग्नौ प्रदीप्तैः प्रदक्षिणतः परिदहनं कर्तव्यम्। परितो दहनं परिदहनम् ॥ ३ ॥

अत ऊर्ध्वं श्ववायसप्रभृत्युपहतानामग्निवर्ण इत्युपदिशन्ति ॥ ४ ॥

अनु०—पात्रों के कुत्ता, कौआ या अन्य अपवित्र पशु-पक्षी द्वारा छुए जाने पर उन्हें उतनी देर तक अग्नि पर रखा जाये जब तक वे अग्नि के वर्ण के न हो जाँय ॥ ४ ॥

श्वादिभिरुपघाते पर्यग्निकरणं कृत्वा अत ऊर्ध्वं यथाऽग्निवर्णो भवति तथा दग्धव्य इत्युपदिशन्ति आचार्या इति शेषः ॥ ४ ॥

^२मूत्रपुरीषरोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ ५ ॥

अनु०—मूत्र, मल, रक्त, रेतस् आदि अपवित्र पदार्थों द्वारा अशुद्ध कमण्डलुओं का त्याग कर देना चाहिए ॥ ५ ॥

एतैरुपहतानां कमण्डलूनामुत्सर्गस्त्यागः। व्यक्त्यपेक्षया बहुवचनम् ॥ ५ ॥

यदा कमण्डलुर्भग्नस्स्यात्, तदा किं कुर्यादित्यत्राह—

भग्ने कमण्डलौ व्याहृतिभिश्चतं जुहुयात् ॥ ६ ॥

अनु०—कमण्डलु के फूट जाने पर व्याहृतियों का उच्चारण करते हुए सौ बार हवन करे ॥ ६ ॥


१. इमानि वाक्यानि नाऽऽधानप्रकरणे श्रूयन्ते। अतः कथमत्राऽऽधाने इति लिखितं व्याख्यात्रेति न प्रतीमः।
२. सूत्रमिदमेतद्भाष्यः च नास्ति ग. पुस्तके।

४०बौधायन-धर्मसूत्रम्[ कमण्डलुचर्या

आज्येनेति शेषः ॥ ६ ॥
जपेद्वा ॥ ७ ॥
अनु०— अथवा व्याहृतियों का उतनी ही बार जप करे ॥ ७ ॥
व्याहृतीरेव ॥ ७ ॥

“भूमिर्भूमिमगानन्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यता”मिति कपालानि संहृत्याऽप्सु प्रक्षिप्य सावित्रीं दशावरां कृत्वा पुनरेवाऽन्यं गृह्णीयात् ॥ ८ ॥

अनु०— “भूमिर्भूमिमगानन्माता मातरमप्यगात्। भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम्” (भूमि भूमि को प्राप्त हुई, माता माता के पास गयी, हम पुत्र, पशुओं से वृद्धि प्राप्त करें, जो हम से द्वेष करता है वह नष्ट हो जाय) इस मन्त्र का उच्चारण करते हुए टूटे हुए कमण्डलु के टुकड़ों को एकत्र कर जल में फेंक दे, कम से कम दस बार गायत्री का जप करे और फिर दूसरा कमण्डलु ग्रहण करे ॥ ८ ॥

टिप्पणी— मन्त्र में 'भूमिः' शब्द मिट्टी से बने कमण्डलु का और 'भूमिम्' प्रकृति अर्थात् पृथ्वी तत्त्व का बोधक है। 'माता मातरम॒ अगात्' से घट के भीतर परिमित आकाश के अपने मूल आकाश तत्त्व में विलीन होने का तात्पर्य है।

भूमिर्भूमिगादिति वामदेव ऋषिः। अनुष्टुप्छन्दः। भिन्नानि मृन्मयानि ^१प्रतिपाद्यानि। भूमिविकाराणां प्रकृतिलयविज्ञानं क्रियते। प्रथमान्तो भूमिशब्दः पात्रमाह। द्वितीयान्तः प्रकृतिम्। कपालानि स्वप्रकृतौ लीनानि। मातां मातरमप्यगात्। य एवमन्तःपरिमिताकाशो मृत्पिण्डः कमण्डलुः घटादिरूपेण निर्मितोऽसावपि स्वप्रकृतिमगात्। ततः किमायातमस्माकम् ? वयं तु पुत्रैः पशुभिर्भूयास्म। आशिषि लिङ्। यो नोऽस्मान् द्वेष्टि स एव हि भिद्यतामिति। अनेन मन्त्रेण कमण्डलुकपालानाम् अप्सु प्रक्षेपणं प्रतिपत्तिः। अथाऽन्यं गृह्णन् सावित्रीं दशावरां कृत्वा जपित्वा गृह्णीयात् ॥ ८ ॥

किञ्च—
वरुणमाश्रित्य 'एतत्ते वरुण पुनरेव तु मामो'मित्यक्षरं ध्यायेत् ॥ ९ ॥
अनु०— वरुण देवता का आश्रय लेकर 'एतत्ते वरुण पुनरेव तु माम् ओम्' ( हे वरुण, यह तेरा है, दूसरा फिर मुझे प्राप्त होवे' ) मन्त्र का उच्चारण करते हुए अक्षर का ध्यान करे ॥ ९ ॥


१. प्रतिपत्तिसंस्कारेण संस्कार्याणीत्यर्थः । कार्योपयुक्तस्य उपयुक्तशेषस्य वा वस्तुनो विहितदेशे प्रक्षेपणं प्रतिपत्तिः ।