बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पञ्चमः खण्डः ] प्रथमप्रश्ने तृतीयोऽध्यायः ३५
पञ्चमः खण्डः ] प्रथमप्रश्ने तृतीयोऽध्यायः ३५
चत्वार एवाऽऽश्रमधर्मास्सूत्रकारैस्समाम्नाताः, न च स्नातको नाम तेषां मध्ये कश्चिदाश्रमी विद्यते । आचार्येणाऽप्युक्तम्—'यत्र यत्र कामयते तदेतीत्ये-तत्समावर्तनम्' इति । एवं ब्रुवता समावर्तनानन्तरमाश्रमप्राप्तिरेव दर्शिता । नैष दोषः—भार्याऽधिगमने यतमानस्याऽपि कदाचिद्भार्याग्रहणं न सम्भाव्येत, परचित्ताधीनत्वात्तस्य । तस्यामवस्थायामिमे वक्ष्यमाणा धर्मा वेदितव्याः । किञ्च—यावद्वेदस्वीकरणं ब्रह्मचारिणो नियमानुपालनं, अत ऊर्ध्वं धर्मजिज्ञासा-ऽवस्थायां स्नातकधर्मावसरः । तस्माच्चोर्ध्वं दारसङ्ग्रही इत्यविरोधः¹ । आहुश्च न्यायविदः—'अस्नानादिनियमपर्यवसानं वेदाध्ययनसमकालमाहुः' इति ।
तथा—
तस्माद् गुरुकुले तिष्ठन् मधुमांसाद्यवर्जयन् ।
जिज्ञासेताऽविरुद्धत्वाद्वर्ममित्यवगम्यते ॥ इति ।
सोऽयं स्नातकः—
²अन्तर्वास्युत्तरीयवान् ॥ २ ॥
अनु०—अन्तर्वास (नीचे का वस्त्र, अधोवस्त्र) और उत्तरीय धारण करे ॥२॥
स्यादिति शेषः । अन्तर्वासः कटिसूत्रम् । तद्वानन्तर्वासी स चोत्तरीयवान् स्यादित्यर्थः ॥ २ ॥
वैणवं दण्डं धारयेत् ॥ २ ॥
अनु०—बाँस का दण्ड धारण करे ॥ ३ ॥
अङ्गुष्ठप्रमाणा ³मूर्धपरिमता यष्टिर्दण्डः ॥ ३ ॥
सोदकं च कमण्डलुम् ॥ ४ ॥
अनु०—जल से युक्त कमण्डलु धारण करे ॥ ४ ॥
धारयेदित्यनुवर्त्तते ॥ ४ ॥
द्वियज्ञोपवीती ॥ ५ ॥
अनु०—दो यज्ञोपवीत पहने ॥ ५ ॥
स्यादिति शेषः । द्वे यज्ञोपवीते अस्येति विग्रहः ॥ ५ ॥
१. विवाहानन्तरमपि स्नातकत्वस्याऽनपायात् एतेषां धर्माणां प्राप्तिरस्त्येवेति साम्प्रदायिकाः ॥
२. 'अन्तर्वास उत्तरीयम्' इति मूलपुस्तकेषु ।
३. मुखसंमिता. इति. ग, पु. ।
| ३६ | बौधायन-धर्मसूत्रम् | [ उपनयनकालः |
|---|
उष्णीषमजिनमुत्तरीयमुपानहौ छत्रं चौपासनं दर्शपूर्णमासौ च ॥६॥
**अनु०—**उष्णीष (पगड़ी) अजिन का उत्तरीय, जूता और छत्र धारण करे अग्नि का आधान करे, दर्श और पूर्णमास का स्थालीपाक करे ॥ ६ ॥
एतेऽप्यस्य भवेयुरिति शेषः। उष्णीषं शिरोवेष्टनं, अजिनमुत्तराय उभयमपि भवेदित्यर्थः। औपासनं एकाग्निपरिचरणं, तदेवौपासनशब्देनाऽऽह—दर्शपूर्णमासौ च स्थालीपाकविधानेन कर्तव्यौ ॥ ६ ॥
पर्वसु च केशश्मश्रुलोमनखवापनम् ॥ ७ ॥
**अनु०—**पर्वों पर केश, दाढ़ी-मूँछ, लोम को बनवावे तथा नखोंको कटवाये॥७॥
कर्तव्यमिति शेषः। केशा मूर्धजाः। श्मश्रुमुखजम्। लोमगुह्यप्रदेशजम्। नखाः करजादयः ॥ ७ ॥
तस्य वृत्तिः ॥ ८ ॥
**अनु०--**अब उस स्नातक की जीवन-वृत्ति का विधान किया जाता है ॥ ८ ॥
**टि०—**गोविन्द के अनुसार 'तस्य' से गृहस्थ का भी अर्थ गृहीत होता है।
तस्य स्नातकस्य वृत्तिः यात्रा जीवनोपायो वक्ष्यते। प्रकृतेऽपि स्नातके तस्य ग्रहणं वृत्तिव्यतिरिक्तधर्माणां गृहस्थस्याऽपि प्रवेशार्थम् ॥ ८ ॥
ब्राह्मणराजन्यवैश्यरथकारेष्वामं लिप्सेत ॥ ९ ॥
**अनु०--**ब्राह्मण, क्षत्रिय, वैश्य और रथकारसे बिना पका हुआ अन्न माँगे ॥९॥
आमग्रहणात् पक्वप्रतिषेधः। आमाभावे पक्वयाचनं चाऽनुज्ञायते। तथा च वसिष्ठः 'क्षुधा परीतस्तु किञ्चिदेव याचेत' इति प्रक्रम्य 'धान्यमन्नं वा न तु स्नातकः क्षुधाऽवसीदेदित्युपदेशः' इति। क्षुन्निवृत्तिसमर्थस्य द्रव्यस्यैव विधिः ॥ ९ ॥
तदभावे—
भैक्षं वा ॥ १० ॥
**अनु०--**अथवा अनेक व्यक्तियों से भिक्षा मांगकर जीवन-निर्वाह करे ॥ १० ॥
**टि०—**गोविन्दस्वामी के अनुसार इस सूत्र का यह भाव है कि विपत्ति में अनेक लोगों से भी भिक्षा माँग सकता है।
भिक्षाणां समूहो भैक्षं, आपदि बहुभ्यो याचेतेत्यर्थः ॥ १० ॥
याच्ञावस्थायाम्—
वाग्यतस्तिष्ठेत् ॥ ११ ॥