सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पञ्चमः खण्डः ] तृतीयप्रश्ने पञ्चमोऽध्यायः ३२५

पञ्चमः खण्डः ] तृतीयप्रश्ने पञ्चमोऽध्यायः ३२५

अनु०—बारह रात्रियों में विद्वान् ब्राह्मण की हत्या, गुरुपत्नीगमन, सुवर्ण की चोरी और सुरापान के पापों को छोड़कर शेष सभी दुष्कर्मों के पाप से मुक्ति मिल-जाती है ॥ ६ ॥

ब्रह्महत्यादीनि महापातकानि वर्जयित्वा अन्येभ्यः पापेभ्यः प्रमुच्यत इति शेषः ॥ ६ ॥

एकविंशतिरात्रात्तान्यपि तरति तान्यपि जयति ॥ ७ ॥

अनु०—इक्कीस रात्रियों में उन महापातकों को भी पार कर लेता है और उन्हें भी जीत लेता है ॥ ७ ॥

तानि पूर्ववर्जितानि महापातकानि । तरणं क्षपणम् । जयः पुण्यफल-योग्यता ॥ ७ ॥

अथ फलार्थवादप्रपञ्चः—
सर्वं तरति सर्वं जयति सर्वक्रतुफलमवाप्नोति सर्वेषु तीर्थेषु स्नातो भवति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वैर्देवैर्ज्ञातो भवत्याचक्षुषः पङ्क्तिं पुनाति कर्माणि चाऽस्य सिध्यन्तीति बौधायनः ॥ ८ ॥

अनु०—अघमर्षण सूक्त का इस प्रकार जप करने वाला सबको पार कर जाता है, सबको जीत लेता है, यज्ञ के सभी फलों को प्राप्त कर लेता है। सभी पवित्र तीर्थों में स्नान कर लेता है। सभी वेदों के अध्ययन के लिए विहित व्रत का आचरण कर लेता है। सभी देवता उसे जानने लगते हैं। वह देखने मात्र से ही ब्राह्मणों की पंक्ति को पवित्र कर देता है और उसके सभी कर्म सफल होते हैं। ऐसा बौधायन का उपदेश है ॥ ८ ॥

आचक्षुषः आदृशः पश्यः। बौधायनसंशब्दनादन्यस्तच्छिष्योऽस्य ग्रन्थस्य कर्तेति गम्यते । मनुरब्रवीदितिवत् ॥ ८ ॥

इति तृतीये प्रश्ने पञ्चमः खण्डोऽध्यायश्च ।

३१६बौधायन-धर्मसूत्रम्[ यावकव्रतम्

तृतीयप्रश्ने षष्ठोऽध्यायः

षष्ठः खण्डः

प्रसृतयावकप्रसङ्गादिदमाह—

अथ कर्मभिरात्मकृतैर्गुरुमिवाऽऽत्मानं मन्येताऽऽत्मार्थे प्रसृतयावकं श्रपयेदुदितेषु नक्षत्रेषु ॥ १ ॥

**अनु०—**यदि कोई व्यक्ति अपने ही किए हुए कर्मों से (अनुताप के कारण) बोझ जैसा अनुभव करे तो नक्षत्रों के उगने पर अपने लिए एक मुट्ठी जौ का यवागू पकाए ॥ १ ॥

**टि०—**प्रसृतयावक की व्याख्या गोविन्द स्वामी ने 'गोकर्णपरिमितं यावकः यवविकारो यवागूर्वा' किया है ।

कर्मभिर्गर्हितैः गुरुमिव ।ऽजगरगीर्णमिवाऽऽत्मानं मन्यते । पुत्रदारादिकृतैनोन्निवृत्त्यर्थमात्मग्रहणम् । अत एवाऽऽत्मार्थमित्युक्तम् । आत्मार्थे न परार्थे एतस्मादेव लिङ्गादतोऽन्यत्र पापक्षपणे आत्विज्यमस्तीति गम्यते ॥ यद्वा—'नाऽऽत्मार्थं पाचयेत्' इत्यस्य प्रतिप्रसवोऽयम्—प्रसृतयावकमात्मार्थमेव श्रपयेदिति । ततश्च वैश्वदेवातिथिभृत्यादीनां द्रव्यान्तरमन्वेष्टव्यं भवति । सति चैवमुत्तरसूत्रेण प्राप्तस्याऽयमनुवादः 'न ततोऽग्नौ जुहुयात्' इति । प्रसृतं गोकर्णकरपरिमितं यावको यवविकारो यवागूर्वा उदितेषु नक्षत्रेष्विति श्रपणकालः॥१॥

न ततोऽग्नौ जुहुयान्न चाऽत्र बलिकर्म ॥ २ ॥

**अनु०—**उस यावक में से निकालकर अग्नि में हवन न करे और न उससे वैश्वदेव बलि का कर्म करे ॥ २ ॥

'यदंशनीयस्य' इति प्राप्तस्याऽयं प्रतिषेधः पर्युदासो वा ॥ २ ॥

अभृतं श्रप्यमाणं शृतं चाऽभिमन्त्रयेत् ॥ ३ ॥

**अनु०—**जौ पकाने के पहले तथा पकाये जाते समय निम्नलिखित मन्त्र से अभिमन्त्रण करे ॥ ३ ॥

यवानामवघातावस्थायां पाकावस्थायां पक्वावस्थायां चाऽन्वीक्ष्य मन्त्रं ब्रूयादित्यर्थः ॥ ३ ॥

तदाह—

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिस्स्मृतम् ॥ ४ ॥