बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः २८५
पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः २८५
कृच्छ्रातिकृच्छ्रस्तृतीय इति वक्ष्यति –
एकैकं ग्रासमश्नीयात्पूर्वोक्तेन त्र्यहं त्र्यहम् ।
वायुभक्षस्त्र्यहं चाऽन्यदतिकृच्छ्रस्स उच्यते ॥ ८ ॥
**अनु०—**यदि पूर्वोक्त क्रम से तीन-तीन दिन क्रमशः दिन में, और रात्रि को बिना माँगे ही मिले हुए भोजन का (मोर के अण्डे के बराबर) केवल एक ग्रास खाकर रहे और अन्त में तीन दिन वायु का आहार कर रहे, तो वह अतिकृच्छ्र नाम का दूसरा व्रत कहा जाता है ॥ ८ ॥
शिख्यण्डपरिमितान्नो ग्रासः पाणिपूरान्नो वा पूर्वोक्तेन ‘दिवा रात्रौ’ इत्यादिना । अन्यदिति प्रायश्चित्तविशेषणत्वान्नपुंसकलिङ्गमदोषः । ‘अतिकृच्छ्रोऽम्बुनाऽशनः’ इति यदा पाठस्तदोदकपानमात्रमभ्युपगच्छतीति गम्यते ॥ ८ ॥
अम्बुभक्षस्त्र्यहानेतान्वायुभक्षस्ततः परम् ।
कृच्छ्रातिकृच्छ्रस्तृतीयो विज्ञेयस्सोऽतिपावनः ॥ ९ ॥
**अनु०—**यदि तीन-तीन दिन प्रथम तीन कालों में केवल जल पीकर रहे और उसके बाद अन्तिम तीन दिन केवल वायु-भक्षण करते हुए बिताये तो वह कृच्छ्रातिकृच्छ्र नाम का अत्यन्त पावन तीसरा व्रत होता है ॥ ९ ॥
अम्बुभक्षवचनादशनधर्मेणोदकपानमिष्यते । एवमन्त्ये त्र्यहे तदपि नाऽस्तीति वायुभक्ष इत्युक्तम् । तृतीयत्वमस्य निर्देशापेक्षया¹ ‘षष्ठीं चितिम्’ इति यथा । प्रत्येकमेव शुद्धिहेतुत्वात् ॥ ९ ॥
त्र्यहं त्र्यहं पिबेदुष्णं पयस्सर्पिः कुशोदकम् ।
वायुभक्षस्त्र्यहं चाऽन्यत् तप्तकृच्छ्रस्स उच्यते ॥ १० ॥
**अनु०—**यदि तीन-तीन दिन क्रमशः उष्ण दूध, उष्ण घृत और कुश के साथ उबाले गये उष्ण जल का पान करता है तथा अन्तिम तीन दिन वायु का भक्षण कर व्रत करता है, तो वह तप्त कृच्छ्र नाम का व्रत कहलाता है ॥ १० ॥
उष्णशब्दः पय आदिभिस्त्रिभिः प्रत्येकमभिसम्बध्यते । प्रतित्र्यहं पयआदीनि क्रमेण भवेयुः । अत्र सकृदेव स्नानम् । कुत एतत् ? मनुवचनात् —
१. ‘योऽग्निं चित्वा न प्रतितिष्ठति पञ्च पूर्वाश्चितयो भवन्त्यथ षष्ठीं चितिञ्चिनुते’ इत्युक्तम् । अत्राऽस्याश्चितेः पूर्वापेक्षया भेदेऽपि पूर्वोक्तचितिपञ्चकापेक्षया षष्ठीत्वमिति पूर्वमीमांसायां पञ्चमाध्याये निर्णीतम्, तदनुसंहितमत्र ।
२८ बौ०ध०
३८६ बौधायन-धर्मसूत्रम् [ सान्तपनकृच्छ्रः
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिजान् ।
प्रातस्त्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ १० ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ ११ ॥
**अनु०—**यदि एक-एक दिन क्रमशः गोमूत्र, गाय का गोबर, दूध दही, घृत, कुशोदक ग्रहण करे तथा एक दिन-रात्रि उपवास करे, तो वह सान्तपन कृच्छ्र नाम का व्रत होता है ॥ ११ ॥
साप्ताहिकोऽयं सान्तपनः। एकैकस्मिन्नहनि गोमूत्रादीनि क्रमेण भवेयुः तेषु च दधिव्यतिरिक्तानि कथिनानि कार्याणि ॥
तत्राऽयं केषां चित्पाठः—
गायत्र्या $^१$गृह्य गोमूत्रं $^२$गन्धद्वारेति गोमयम् ।
$^३$आप्यायस्वेति च क्षीरं $^४$दधिक्राव्णोति वै दधि ॥
$^५$शुक्रमसि ज्योतिरसीत्याज्यं $^६$देवस्य त्वा कुशोदकमिति ॥१२॥
**अनु०—**गायत्री मन्त्र का उच्चारण करते हुए गाय का मूत्र ग्रहण करे, गन्ध-द्वारां दुराधर्षां नित्यपुष्टांकरीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्' मन्त्र द्वारा गोबर ग्रहण करे।
'आप्यायस्व समेतु ते विश्वतस्तोम वृष्णियम्। भवा वाजस्य सङ्गथे। (तैत्तिरीय संहिता ३. २. ५) मन्त्र से दूध ग्रहण करें।
'दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभिनो मुखाकरत्प्रण आयूंषि तारिषत्॥ (तैत्तिरीय संहिता १.५.११)
१. आदाय इति ग० ।
२. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
३. आप्यायस्व समेतु ते विश्वतस्तोम वृष्णियम् ।
भवा वाजस्य सङ्गथे ॥ तै० सं० ३. २. ५.
४. दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्रण आयूंषि तारिषत् ॥ तै० सं० १. ५. ११.
५. शुक्रमसि ज्योतिरसि तेजोऽसि । तै० १. १. १०
६. देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥