सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४३

नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४३

ओमादित्यं तर्पयामि । सोमं तर्पयामि । अङ्गारकं तर्पयामि । बुधं तर्पयामि । बृहस्पतिं तर्पयामि । शुक्रं तर्पयामि । शनैश्चरं तर्पयामि । राहुं तर्पयामि । केतुं तर्पयामि ॥ ९ ॥

ओं केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि । गोविन्दं तर्पयामि । विष्णुं तर्पयामि । मधुसूदनं तर्पयामि । त्रिविक्रमं तर्पयामि । वामन तर्पयामि । श्रीधरं तर्पयामि । हृषीकेशं तर्पयामि । पद्मनाभं तर्पयामि । दामोदरं तर्पयामि । श्रियं देवीं तर्पयामि । सरस्वतीं देवीं तर्पयामि । पुष्टिं देवीं तर्पयामि । तुष्टिं देवीं तर्पयामि । वैनतेयं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । पार्षदीश्च तर्पयामि ॥ १० ॥

ओं यमं तर्पयामि । यमराजं तर्पयामि । धर्मं तर्पयामि । धर्मराजं तर्पयामि । कालं तर्पयामि । नीलं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि । औदुम्बरं तर्पयामि । वैवस्वतं तर्पयामि । वैवस्वतपार्षदांस्तर्पयामि । वैवस्वतपार्षदीश्च तर्पयामि ॥ ११ ॥

भरद्वाजं तर्पयामि । गौतमं तर्पयामि । अत्रिं तर्पयामि । आङ्गिरसं तर्पयामि । विद्यां तर्पयामि । दुर्गां तर्पयामि । ज्येष्ठां तर्पयामि । धान्वन्तरिं तर्पयामि । धान्वन्तरिपार्षदांस्तर्पयामि । धान्वन्तरिपार्षदीश्च तर्पयामि ॥ १२ ॥

अथ निवीती ॥ १३ ॥

अन०--निवीती होकर ( यज्ञोपवीत को गले चारो ओर लटकाकर ) ॥ १३॥

ओम्ऋषींस्तर्पयामि । परमर्षींस्तर्पयामि । महर्षींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । देवर्षींस्तर्पयामि । राजर्षींस्तर्पयामि । श्रुतर्षींस्तर्पयामि । जनर्षींस्तर्पयामि । तपर्षींस्तर्पयामि । सत्यर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषिपत्नीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । ऋषिपौत्रांस्तर्पयामि । काण्वं बौधायनं तर्पयामि । आपस्तम्बं सूत्रकारं तर्पयामि । सत्याषाढं हिरण्यकेशिनं

२४४बौधायन धर्मसूत्रम्[ नित्यतर्पणविधिः

तर्पयामि । वाजसनेयिनं याज्ञवल्क्यं तर्पयामि । आश्वलायनं शौनकं तर्पयामि । व्यासं तर्पयामि । वसिष्ठं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । गायत्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । अथर्वाङ्गिरसं तर्पयामि । इतिहासपुराणानि तर्पयामि । सर्पवेदांस्तर्पयामि सर्पदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि ॥ १४ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने नवमः खण्डः ।

**अनु०—**मैं ऋषियों का तर्पण करता हूँ, परमर्षियों का तर्पण करता हूँ...॥१४॥


दशमः खण्डः

अथ प्राचीनावीती—ओं पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातृस्स्वधा नमस्तर्पयामि । पितामहीस्स्वधा नमस्तर्पयामि । प्रपितामहीस्स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुःप्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीस्स्वधा नमस्तर्पयामि । मातुःपितामहीस्स्वधा नमस्तर्पयामि । मातुःप्रपितामहीस्स्वधा नमस्तर्पयामि ॥ १ ॥

**अनु०—**प्राचीनावीती होकर—पितरों को स्वधा, मैं पितरों का तर्पण करता हूँ...॥ १ ॥

ओमाचार्यान्स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरुन्स्वधा नमस्तर्पयामि । गुरुपत्नीस्स्वधा नमस्तर्पयामि । सखीन्स्वधा नमस्तर्पयामि । सखिपत्नीस्स्वधा नमस्तर्पयामि । ज्ञातीन्स्वधा नमस्तर्पयामि । ज्ञातिपत्नीस्स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्याः स्वधा नमस्तर्पयामि । सर्वान्स्वधा नमस्तर्पयामि । सर्वास्स्वधा नमस्तर्पयामि ॥ २ ॥