बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७१
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७१
व्यक्ति का खेत में गिरे अन्न को एकत्र कर जीवनवृत्ति चलाना, समावर्तन संस्कार होने के बाद भी भिक्षा मांग कर जीविका निर्वाह करना, समावर्तन के बाद चार मास से अधिक गुरु के यहां निवास करना, ऐसे समावर्तन संस्कार के बाद गुरुकुल में निवास करने वाले व्यक्ति का अध्यापन करना और नक्षत्रों का निर्देश कर ज्योतिष द्वारा जीविका निर्वाह करना ये सभी अशुद्धि उत्पन्न करने वाले कर्म हैं ॥८॥
द्यूतमक्षादिभिर्देवनम् । अभिचारः श्येनाद्यनुष्ठानम् । उञ्छः पथि क्षेत्रे वाऽनाघृते देशे एकैककणिशोद्धरणं तेन वर्तनमुञ्छवृत्तिः । सा चाऽनाहिताग्नेरशुचिकरा । आहिताग्नेस्तु विहिता ! तथा हि—
वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टीः पार्वणनान्तीयाः केवला निर्वपेत्सदा ॥ इति ।
समावृत्तो गृहस्थस्तस्य भिक्षाचर्या । तस्य चैव समावर्तनप्रभृति मासचतुष्टयादूर्ध्वं गुरुकुले वासः । अतस्तस्य मासद्वयं मासचतुष्टयं वा गुरुकुलवास इष्यत एव । तथा चाऽपस्तम्बः—'द्वौ द्वौ मासौ समाहित आचार्यकुले वसेत् भूयश्श्रुतमिच्छन्' । इति तस्यैवमुक्तलक्षणात् कालादूर्ध्वं यदध्यापनं तदप्यशुचिकरम् । अतश्चैतत् ज्ञापितं यावन्मरणं विद्यासङ्ग्रहः कार्य इति । तदुक्तम्—
वलीपलितकालेऽपि कर्तव्यश्श्रुतिसङ्ग्रहः ॥ इति ॥
नक्षत्रनिर्देशो ज्योतिःशास्त्रोपजीवनम् । चशब्दात् प्रतिमालेखनगृहस्थपरपाकोपजीवनानि गृह्यन्ते ॥ ८ ॥
यान्येतान्यशुचिकराणि—
'तेषां तु निर्वेशो द्वादश मासान् द्वादशाऽर्धमासान् द्वादश द्वादशाहान् द्वादश षडहान् द्वादश त्र्यहान् द्वादशाहं षडहं त्र्यहमहोरात्रमेकाहमिति यथाकर्माभ्यासः ॥ ९ ॥
अनु०—ऐसे अशुचियुक्त व्यक्तियों का प्रायश्चित्त दुष्कर्म की मात्रा के अनुसार बारह मास, बारह पक्ष, बारह-बारह दिनों की अवधि, बारह छः दिनों की अवधि, बारह तीन दिनों की अवधि, बारह दिन, छः दिन, तीन दिन-रात्रि या एक दिन व्रत करना होता है ॥ ९ ॥
अत्र षडहात् प्राग्ये काला निर्दिष्टाः तान् प्राजापत्येन याजयेत् । षडहादींस्त्वनशनेन । यथा पापस्य कर्मणोऽभ्यासस्तथा सेवा । तत्र गुर्वभ्यासे गुरुकल्पः । मध्यमे मध्यमः । लघौ लघुः ॥ ९ ॥
१. सूत्रमिदं समानाक्षरमेव आप. ध. १. २९ १७-१८ द्रष्टव्यम् ।
१७२ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
पतितानामेव किञ्चिद्वदाह—
'अथ पतितास्समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्याप-
का मिथो विवहमानाः पुत्रान् सन्निष्पाद्य ब्रूयुर्विप्रव्रजताऽस्मत्त
एवमार्यान् सम्प्रतिपत्स्यथेति ॥ अथापि न सेन्द्रियः पतति । तदेतेन
वेदितव्यमङ्गहीनोऽपि ²हि साङ्गं जनयतीति ॥ १० ॥
अनु०—सभी पतित एक साथ एक स्थान पर निवास करें, आपस में ही धर्मों का पालन करें, एक दूसरे का यज्ञ करावें, एक दूसरे का अध्यापन करें, आपस में ही विवाह करें और पुत्र उत्पन्न होने पर उनसे कहें हमें छोड़ कर जाओ, इस प्रकार तुम पुनः आर्यों को प्राप्त करोगे ॥ १० ॥
टि०—मनुष्य अपने इन्द्रियों के साथ पतित नहीं होता, इसका दृष्टान्त यही है कि विकलांग मनुष्य का पुत्र भी सम्पूर्ण अंगों से युक्त उत्पन्न होता है।
टि०—तात्पर्य यह है कि आर्यों के सम्पर्क में आने पर पतितों के पुत्र पवित्र हो हो जाते हैं। मनुष्य के पतित होने पर भी उसके इन्द्रियों का पतन नहीं माना जाता और इस कारण पुत्र को भी पतित नहीं माना जाता।
समवसाय सम्भूय परस्परं पतिता धर्मांश्चरेयुः ! किंल्लक्षणान् । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणान् अत्र परस्परं विवहमानेषु यदि पुत्रा निष्पन्ना भवेयुः तान्निष्पादितानुपनीयैव पितरो ब्रूयुः—विप्रव्रजत निर्गच्छत अस्मत्तः अस्मान् त्यक्त्वा निर्गच्छत निर्गता आर्यान् प्रतिपत्स्यथ यूयमार्यान् प्रतिपत्स्यथ, अपिशब्दस्सम्भावनावचनः । आर्यैः किल यूयं सम्प्रयोगं प्राप्स्यथेति आर्या एव युष्माकमुपनेतारो भविष्यन्तीति । पतितपुत्रा अपि तैस्संसर्गाभावे शुचयो भवन्ति । संसर्गे हि संसर्गपतनमिति ॥
ननु पतितपुत्रत्वादपि तद्वत्वतीत्याशङ्कयाऽऽह—अथाऽपि न सेन्द्रियः पतति यद्यपि च पिता पतति तथाऽपि सेन्द्रियः इन्द्रियैस्सह न पतति । कस्मात् ? न हि पतनीयकारणम् । न चेन्द्रियाणि करणानि पतितानि । कर्तृकरणयोश्च पृथक्त्वं प्रसिद्धम् , उपस्थेन्द्रियं च कर्मेन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बधर्मसूत्रे समानानुपूर्वीकं समानाक्षरमेव । परन्तु तत्र चतुर्धा विभक्तम् । see, आप. ध. १. २९. ८-११,
२. अङ्गहीनोऽपि क. घ. पु.