सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः ३१

चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः ३१

स्तवाऽवसरः यामेव रात्रि समिधं नाऽऽहराता इति । लिङर्थे लेट्भवति । समिदाहरणमग्नीन्धनम् । तच्च भिक्षाचरणवेदाध्ययनगुरुशुश्रूषादीनामपि प्रदर्शनार्थम् ॥ ४ ॥

उपसंहरति—

तस्माद् ब्रह्मचारी यां रात्रिं समिधं नाऽऽहरति आयुष ^१एव तामवदाय वसति ॥ ५ ॥

अनु०—अतएव ब्रह्मचारी जिस रात्रि को समिदाहरण कर्म नहीं करता उस रात्रि को अपनी आयु से काटकर निकाल देता है ॥ ५ ॥

आयुषः खण्डमिति शेषः । द्वितीयार्थे वा षष्ठी । यथा^२ 'द्विरैन्द्रवायवस्य भक्षयति' इति ॥ ५ ॥

अथाऽग्नीन्धनादिचतुष्टयमपि विदधाति—

तस्माद् ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानेति ॥६॥

अनु०—अतएव ब्रह्मचारी समिध अग्नि के ऊपर रखकर अग्नीन्धन करे नहीं तो कहीं ऐसा न हो कि वह अपनी आयु ही कम करते हुए रात्रि बिताने लगे ॥६॥

नेत्येष इद्दित्येतेन सम्प्रयुज्यते परिभवे गम्यमाने । यथा—'नेन्मे वाक्प्राणै-रनुषक्ता सत्' इति । आयुषोऽवदाय न वसानेति परिभवेनाऽग्नीन्धनादि-चतुष्टयं कुर्यादित्यर्थः ॥ ६ ॥

अथ दीर्घसत्रसंस्तवेन ब्रह्मचर्यप्रशंसा—

दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति ॥ ७ ॥

अनु०—जो ब्रह्मचर्य ग्रहण करता है वह एक दीर्घ सत्र ही आरम्भ करता है ॥ ७ ॥

दीर्घसत्रं^३ शाक्यानामयनादि ॥ ७ ॥


१. आयुष एतामवदाय, इति ग. पु.
२. ज्योतिष्टोमे— ऐन्द्रवायवनामकः कश्चन ग्रहोऽस्ति । स, इन्द्रवायुभ्यां गृह्यते हूयते च। सर्वेषामपि ग्रहाणां च होमानन्तरं 'सदसि भक्षयन्ति' इत्यनेन भक्षो विहितः । भक्षणं च सकृदेव । विशेषाश्रवणात् । ऐन्द्रवायवे तु द्विर्भक्षणमनेन वचनेन विधीयते । तत्र ऐन्द्रवायवमिति द्वितीयस्थाने ऐन्द्रवायवस्येति षष्ठी यथा तथेत्यर्थः ।
३. तत्र षट्त्रिंशत्संवत्सरानुष्ठेयः शाक्याना (क्त्याना) मयनं नाम सत्रविशेषः । (अनेकदिनसाध्यः सोमयागो द्विविधस्सत्रात्मकोऽहीनात्मकश्चेति । तत्र त्रयोदशदिन-प्रभृति सहस्रसंवत्सरपर्यन्तकालसाध्यस्सत्रात्मकः । द्विरात्रप्रभृति एकादशरात्र-पर्यन्ताहर्गणसाध्योऽहीनः ) तत्र प्रथममहः प्रायणीयं अन्तिममुदयनीयमित्युच्यते । ते

३२बौधायन-धर्मसूत्रम्[ ब्रह्मचारिधर्माः

सत्रस्य प्रायणीयोदयनीयावतिरात्रौ स्तः। उभयतोऽतिरात्रत्वात् सत्राणाम्। मध्ये चाऽन्यान्यहानि, तदिह कथमिति ? आह—

स यामुपयन् समिध आदधाति सा प्रायणीयाऽथ यां स्नास्यन् सोदयनीयाऽथ या अन्तरेण सत्र्या एवाऽस्य ताः ॥ ८ ॥

अनु०—वह जिस रात्रि को उपनयन के बाद पहली बार समिदाधान करता है वह सत्र की प्रायणीय नाम के अतिरात्र के समान होती है, जिस रात्रि को स्नान करने की तैयारी करते समय अन्तिम बार समिदाधान करता है वह रात्रि उदयनीय अतिरात्र के समान होती है। इन दोनों रात्रियों के बीच जो रात्रियाँ होती हैं वे सत्र की रात्रियाँ ही होती हैं ॥ ८ ॥

यां रात्रिमुपयन्नुपनीयमानसस्समिध आदधाति 'आयुर्दा देव जरसम्' इति। यां च स्नास्यन् 'इमं स्तोममर्हते जातवेदसे' इति। तदिह प्रायणीयोदयनीयौ रात्रिप्रधानत्वात् निर्देशस्य प्रायणीयोदयनीयशब्दाभ्यां स्त्रीलिङ्गोपादानमदोषः। याश्च ते अन्तरेण रात्रयस्तासु यास्सायंप्रातस्समिध आधीयन्ते तानि सत्रियाण्यहानीत्युपमीयन्ते ॥ ८ ॥

ब्राह्मणो ह वै ब्रह्मचर्यमुपयंश्चतुर्धा भूतानि प्रविशत्यग्निं पदा मृत्युं पदाऽऽचार्यं पदाऽऽत्मन्येव चतुर्थः पादः परिशिष्यते। तं स यदग्नौ समिधमादधाति य एवाऽस्याग्नौ पादस्तमेव तेन परिक्रीणाति। तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदात्मानं दरिद्रीकृत्याह्रीर्भूत्वा भिक्षते ब्रह्मचर्यं चरति य एवाऽस्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदाचार्यवचः करोति य एवाऽस्याऽऽचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यत्स्वाध्यायमधीते य एवाऽस्याऽऽत्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति न ह वै स्नात्वा भिक्षेताऽपि ह वै स्नात्वा भिक्षां चरत्यपि ज्ञातीनामशनायाऽपि पितॄणामन्याभ्यः क्रियाभ्यः स यदन्यां भिक्षितव्यां न विन्देताऽपि वा स्वामेवाऽऽचार्यजायां भिक्षेताऽथो स्वां मातरं नैनं सप्तम्यभिक्षिताऽतीयात् ॥


प्रथमोत्तमे द्वे अप्यहनी अतिरात्रसंस्थाके। सर्वेषां सत्राणां ह्याद्येऽहन्यन्तिमे चाऽतिरात्रसंस्थाकत्वं विहितम्। तदेवाऽनुसन्धीयतेऽत्र व्याख्यात्रा।