सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०९

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०९

गुरुः गुरुस्थानीयोऽभिप्रतः । नरेन्द्रोऽभिषिक्तः । पूर्वोक्त इति अनन्तरा-
भिहितं प्रायश्चित्तमाह; तच्च कृच्छ्रादित्रयम् ॥ १५ ॥

इदानीं ब्राह्मणस्य स्वकीयवृत्त्या जीवनाशक्तावनुकल्पमाह--
अध्यापनयाजनप्रतिग्रहैरशक्तः क्षत्रधर्मेण जीवेत् प्रत्यनन्तरत्वात् ॥ १६॥

**अनु०—**अध्यापन करने, यज्ञ कराने और दान लेने में असमर्थ होने पर ब्राह्मण क्षत्रिय के धर्म का आश्रय लेकर जीविका निर्वाह करे, क्योंकि वही ब्राह्मण के धर्म के निकट है ॥ १६ ॥

अशक्तिः नित्यकर्मावसादोऽवृत्त्यावसादो वा; अध्यापनादिष्वेकेनैव जीव-नाशक्तौ द्वितीयं तृतीयं वाऽधितिष्ठेत् । तत्राऽपि लघूपायासम्भवे गुरूपाय आस्थेयः । कुत एतत् ?

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥

इति स्मरणात् । क्षत्रधर्मः शस्त्रधारणम् । प्रत्यनन्तरत्वात् ? प्रतिशब्दोऽत्यन्तानन्तर्ये वर्तते । क्षत्रधर्मो हि वैश्यधर्मादनन्तरो ब्राह्मणस्य । अनेनैतद्दर्शयति—क्षत्रधर्मासम्भवे वैश्यधर्मेणोपजीवेदिति । सोऽपि प्रत्यनन्तर एव शूद्रधर्मव्यपेक्षया । "अध्यापनयाजनप्रतिग्रहास्सर्वेषाम् । पूर्वः पूर्वो गुरुः । तदलाभे क्षत्रियवृत्तिः तदलाभे वैश्यवृत्तिरि"ति ॥ १६ ॥

नेति गौतमोऽत्युग्रो हि क्षत्रधर्मो ब्राह्मणस्य ॥ १७ ॥

**अनु०—**किन्तु गौतम का मत है कि ब्राह्मण ऐसा न करे, क्योंकि क्षत्रिय के धर्म ब्राह्मण के लिए अत्यन्त कठोर होते हैं ॥ १७ ॥

**टि०—**गौतम धर्म सूत्र में गौतम का इस प्रकार का मत नहीं मिलता, अपितु वहाँ भी यही कहा गया है कि आपत्काल में यदि अपने वर्ण के नियम का पालन करने से जीविका न चल सके तो ब्राह्मण क्षत्रिय की वृत्ति स्वीकार करे और उससे भी निर्वाह न होने पर वैश्य की वृत्ति ग्रहण करे, १.७.६.७ पृ० ६५.

न क्षत्रधर्मो ब्राह्मणेनाऽऽस्थेय इति गौतम आचार्यो मन्यते स्म । प्रसिद्धगौतमीये 'तदलाभे क्षत्रियवृत्तिः' इति वचनात् अन्यद्गौतमशास्त्रमस्तीति कल्प्यते । तथा 'आहिताग्निश्चेत् प्रवसन् म्रियेत पुनस्संस्कारं कृत्वा शववच्छौचमिति गौतमः' इति वासिष्ठे । अत्युग्रः अतितीक्ष्णः 'संग्रामे संस्थानमनिवृत्तिश्च, न दोषो हिंसायामाहवे' इत्येवंलक्षणो ह्यसौ ॥ १७ ॥

अथेदानीं विप्रविशोश्च शस्त्रग्रहणे कारणमाह—

२०२ | बौधायनधर्मसूत्रम् | [ आपद्वृत्तिः

अथाप्युदाहरन्ति —
गवार्थे ब्राह्मणार्थे वा वर्णानां वाऽपि सङ्करे ।
गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥ १८ ॥

अनु०—इस संबन्ध में निम्नलिखित पद्य उद्धृत किया जाता है:-
गो के लिए, ब्राह्मण की रक्षा के लिए, अथवा वर्णों की अस्तव्यस्तता की स्थिति में धर्म की रक्षा का विचार कर ब्राह्मण और वैश्य भी शस्त्र धारण करें ॥ १८ ॥

टि०—गौतम प्राणसंकट उपस्थित होने पर ब्राह्मण के लिए शस्त्रग्रहण करना विहित करते हैं : प्राणसंशये ब्राह्मणोपि शस्त्रमाददीत । १।७।२५ पृ० ६९ ।

अर्थशब्दश्चाऽत्र रक्षणप्रयोजनवचनः । वर्णानां सङ्करः अनर्हस्त्रीपुंसलक्षणः । शस्त्रग्रहणे हेतुः—धर्मव्यपेक्षयेति । धर्मबुद्धयेति यावत् ॥ १८ ॥

प्रत्यनन्तरत्वादिति हेतुना वैश्यवृत्त्याऽपि जीवनमुक्तम् , इदानीं त्वनुवदत्युत्तरविधित्सया —

वैश्यवृत्तिरनुष्ठेया प्रत्यनन्तरत्वात् ॥ १९ ॥

अनु०—अथवा वैश्य की वृत्ति ग्रहण करे, क्योंकि वही उसके बाद की वृत्ति है ॥ १९ ॥

न हीनवर्णेनोत्कृष्टवृत्तिरास्थेया 'न तु कदाचिञ्ज्यायसीम्' इति वासिष्ठे-निषेधात् । तत्र कृषिवणिज्यलक्षणादिः वैश्यवृत्तिः । तत्र वाणिज्यविशेषो विहितः—'तृणकाष्ठमविकृतं विक्रेयम्' इत्येवमादिना ॥ १९॥

अथ कृषावाह—

प्राक्प्रातराशात् कर्षी स्यात् ॥ २० ॥

अनु०—(यदि ब्राह्मण कृषि कर्म द्वारा जीविका निर्वाह करता है तो) प्रातराश के समय से पहले ही जुताई करे ॥ २० ॥

टि०—प्रातराश दिन के भोजन को कहते हैं, तात्पर्य यह है कि मध्याह्न तक ही कृषि कर्म करे । गोविन्दस्वामी ।

प्रातराशो दिवाभोजनम् , तेन च मध्याह्नो लक्ष्यते । अष्टधाकृतस्य वासरस्य पञ्चमो भाग इत्यर्थः । तत्र हि भोजनं विहितम्, 'पञ्चमे भोजनं भवेत्' इति दक्षवचनात् । अस्मात् कालात् प्रागेवाऽनडुद्द्वयां विकृष्याऽक्लिष्टौ तौ विसृजेत् ॥ २० ॥

तौ विशिनष्टि—

अस्यूतनासिकाभ्यां समुष्काभ्यामतुदन्नारया मुहुर्मुहुरभ्युच्छन्दयन् ॥२१॥

चतुर्थः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः २०३

अनु०—कृषिकर्म करने वाला ब्राह्मण दो ऐसे बैलों द्वारा खेत जोते, जिनकी नाक न छेदी गयी हो, और जिन्हें बधिया न किया गया हो, उन्हें बिना मारे हुए ही बार-बार पुचकारते हुए तथा मीठे शब्दों का प्रयोग करते हुए हांके ॥ २१ ॥

अविद्धघोणाभ्यामित्यर्थः। समुष्काभ्यां साण्डाभ्यां अनुत्कृत्ताण्डाभ्यामित्यर्थः । अण्डोत्कर्तनेन हि बीजशक्तिः क्षीयते । अतुदन्नारया आरा नाम सलोहको दण्डः । तया तावनडुहौ अतुदन् तयोर्व्यथामकुर्वन् । अभ्युच्छन्दनं लोहफालायोयोक्त्रलग्नायाश्च मृदोऽपनयनम् , प्रियभाषणं कण्डूयनादिना लालनं च, तन्मुहुर्मुहुः कुर्वन् विलिखेत् भूमिमिति शेषः ॥ २१ ॥

स्वकर्मणा जीवनाशक्तौ हीनवृत्त्याऽपि जीवनमुक्तम् , अस्यामप्यापदि न न परित्याज्योऽग्निः । कुतः प्रभृति स ग्रहीतव्यः ? इत्यस्यामाकाङ्क्षायामाह—

भार्यादिरग्निस्तस्मिन् कर्मकरणं प्रागन्याधेयात् ॥ २२ ॥

अनु०—( गृह्य ) अग्नि का भार्याग्रहण के समय से आधान किया जाता है, अग्न्याधेय तक की क्रियायें उसी अग्नि में करनी चाहिए ॥ २२ ॥

टि०—यह नियम उस व्यक्ति के लिए भी है जो आपत्काल में हीन वृत्ति से जीवनिर्वाह कर रहा है । बोधायन के अनुसार विवाह के समय ही गृह्य अग्नि प्रज्वलित की जाती है । इस संबन्ध में वसिष्ठ धर्मसूत्र ८।३ के भी मत द्रष्टव्य हैं । गौतम के मतानुसार दायविभाग के काल में भी अग्नि का आधान होता है ।

गोतमीयमतेन¹ दायादिपक्षोऽप्यस्ति । आचार्यस्य पुनर्भार्यादिरेवाऽग्निरित्यभिप्रायः । कर्म गार्ह्यं यदग्न्याधेयात् पूर्वं तस्मिन् गृह्याणि कर्माणि क्रियन्त इति । गृह्योक्तानां कर्मणां पुनरनुवादोऽग्निहोत्रादितुल्ययोगक्षेमप्राप्तिहेतुत्वज्ञा-पनार्थः । अग्न्याधेयात्पूर्वं गार्ह्याणां शूलगवादीनामनुष्ठानम्² ॥ २२ ॥

अग्न्याधेयप्रभृत्यथेमान्यजस्राणि भवन्ति—यथैतदग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणमुदगयनदक्षिणायनयोः पशुः चातुर्मास्यानि ऋतुमुखे षड्ढोता वसन्ते ज्योतिष्टोम इत्येवं क्षेमप्रापणम् ॥ २३ ॥

अनु०—अग्न्याधेय के बाद से ये क्रियाएं नित्य अविच्छिन्न रूप में आती हैं—


१. भार्यादिरग्निर्दायादिर्वेति गौतमः ॥
२. शूलगवो नाम ईशानदेवताको गोद्रव्यकः कर्मविशेषो गृह्य उक्तः “अथ शूलगवः” ( बो. गृ. २-१३ ) इत्यादिना । तत्र यद्यपि गोद्रव्यत्वेन विहिता, तथाऽपि कलौ गवाslashलम्भस्य निषिद्धत्वात् तद्विकल्पेन ‘ईशानाय स्थालीपाकं वा . श्रपयन्ति’ इति स्थालीपाकस्य विहितत्वात् शिष्टाचाराच्च स्थालीपाक एवाऽनुष्ठेयः ॥

२०४ बौधायन-धर्मसूत्रम् [विहिताकरणदोषः

अग्न्याधेय, अग्निहोत्र, दर्शपूर्णमास, आग्रयण, उदगयन, दक्षिणायन, पशु यज्ञ, ऋतुओं के आरम्भ में किये जाने वाले चातुर्मास्य, वसन्त में किया जाने वाला षड्ढोता और ज्योतिष्टोम इस प्रकार कल्याण की प्राप्ति होती है ॥ २३ ॥

एतानि हि प्रसिद्धानि कर्माणि, पूर्वोक्तानि गार्ह्याणि । अजस्राणि नित्यानि, आगते काले कर्तव्यानि । अग्न्याधेयग्रहणं दृष्टान्तार्थम् । एषां पाठे दृश्यत एव । क्षेमप्रापणं मोक्षः एवं नित्यकर्मनिरतः प्रतिषिद्धकाम्यकर्मवर्जी गृहस्थोऽपि विमुच्यत इत्यभिप्रायः ।

नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति ॥ २३ ॥

इदानीं विहिताकरणे प्रतिषिद्धसेवने च दोषं वक्तुमुपक्रमते—
अथाप्युदाहरन्ति—

न दिवास्वप्नशीलेन न च सर्वान्नभोजिना ।
कामं शक्यं नभो गन्तुमारूढपतितेन वा ॥ २४ ॥

**अनु०—**इस संबन्ध में धर्मशास्त्रज्ञ निम्नलिखित पद्य उद्धृत करते हैं—
दिन में सोनेवाला, सभी प्रकार के अन्न का भोजन करनेवाला, किसी स्थान पर या व्रत में आरूढ होकर भ्रष्ट होने वाला कदापि स्वर्ग प्राप्त करने में समर्थ नहीं होता ॥ २४ ॥

**टि०---**दिवास्वप्नशील से यहां हर प्रकार के व्यसन में पड़े हुए, शुभ-अशुभ का ज्ञान न रखनेवाले, आलसी व्यक्ति से तात्पर्य है, इसी प्रकार गोविन्दस्वामी की व्याख्या के अनुसार सर्वान्नभोजी से निषिद्ध सेवा करने वाले व्यक्ति का भी अर्थ ग्रहण किया जाएगा ।

न शक्यं गन्तुमिति सम्बन्धः । दिवास्वप्नशीलेनेति शब्देन विहिताकरणस्वभावो लक्ष्यते । स्वप्नो निद्रा मनोवृत्तिविशेषः । 'अभावप्रत्ययालम्बना वृत्तिर्निद्रा' इत्यागमः । हिताहितप्राप्तिपरिहारोपायभूतशुभाशुभकर्मानुष्ठानवर्जनाकुलितचेतसो हि पुंसो नाऽस्ति निद्रावसरः । प्रसन्ने हि चेतसि निद्रा भवति । अलसो वा दिवास्वप्नशीलः । सर्वान्नभोजिशब्देनाऽपि प्रतिषिद्धसेवा कथ्यते, भोज्याभोज्यव्यवस्था यस्य नाऽस्तीत्यभिप्रायः । भुजिरत्र व्यापारमात्रोपलक्षणार्थः । आरूढपतितः तापसः परिव्राजको वा प्रत्यव्यवस्थितः । एतैर्नभस्स्वर्गं गन्तुं प्राप्तुमशक्यमित्यर्थः ॥ २४ ॥

दैन्यं शाठ्यं जैह्म्यं च वर्जयेत् ॥ २५ ॥

**अनु०—**दीनता, शठता, कुटिलता के भावों का परित्याग करे ॥ २५ ॥