सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७९

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७९

भवति । तत्सन्ततिषु चोभयतोऽपि सप्तमे निवर्त्तते । सापिण्ड्यस्य संक्षेपोक्ति-
रेषा, विस्तरस्तु वक्ष्यते 'अपि च प्रपितामहः' इत्यत्र । ननु त्रिपुरुषमेव सापि-
ण्ड्यं सम्भाव्यते, पितृपितामहप्रपितामहानां पिण्डदानवचनात् । उच्यते—
पित्रादिषु त्रिषु जीवत्सु येभ्यः पिता ददाति तेभ्यः पुत्रो ददातीति परेभ्यः
त्रिभ्यः पिण्डदानं सम्भाव्यते, अत उपपद्यते सप्तमे निवृत्तिरिति ॥ २ ॥

साम्प्रतं म्रियमाणवयोवस्थाविशेषापेक्षयाऽऽशौचमाह—
'आसप्तमासादादन्तजननाद्धोदकोपस्पर्शनम् ॥ ३ ॥

अनु०—सातवां मास पूरा होने से पहले या दांतों के निकलने से पहले बच्चों
की मृत्यु होने पर सपिण्डों को स्नान मात्र करना चाहिए ॥ ३ ॥

सप्तममासादर्वागादन्तजननाद्वा बालेषु मृतेषूदकोपस्पर्शनं स्नानमात्रमेव
सपिण्डानाम् । यत्तु तस्मिन्नप्येकाहाशौचं तेन सहाऽस्य विकल्पः ॥ ३ ॥

किञ्च—
पिण्डोदकक्रिया प्रेते नाऽत्रिवर्षे विधीयते ।
आदन्तजननाद्वाऽपि दहनं च न कारयेत् ॥ ४ ॥

अनु०—तीन वर्ष की अवस्था पूरी करने से पहले मृत अथवा दांत निकलने
से पहले मृत बच्चे के लिए पिण्ड और उदक दान की क्रिया का विधान नहीं है ।
इसी प्रकार ऐसे मृत बच्चे के शव की दाहक्रिया भी न कराये ॥ ४ ॥

तृतीयवर्षमप्रविष्टस्याऽजातदन्तस्य वा पिण्डोदकक्रिया न कर्त्तव्या । दहनं
च, अवध्योर्द्वयोः स्नेहापेक्षया विकल्पः ।

नाऽत्रिवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया ।
जातदन्तस्य वा कुर्यान्नाम्नि वाऽपि कृते सति ॥

तथा—
नाऽस्य कार्योंऽग्निसंस्कारो नाऽपि कार्योदकक्रिया इति ॥ ४ ॥

स्त्रीषु मृतासु कथमित्याह—
अप्रत्तासु च कन्यासु प्रत्तास्वेके ह कुर्वते ।
लोकसंग्रहणार्थं हि यदमन्त्रास्त्रियो मताः ॥ ५ ॥

अनु०—अविवाहिता कन्याओं के लिए भी पिण्डोदक दान की क्रिया न करे।


१. सपिण्डेष्वासप्तमासादादन्त इत्यादि सूत्रं पठितं ग, पुस्तके,

८० बौधायन-धर्मसूत्रम् [ द्रव्यशुद्धिः

कुछ लोग विवाहिता पुत्रियों की मृत्यु पर पिण्डोदक दान की क्रिया करते हैं, किन्तु ऐसा लोगों की सहानुभूति प्राप्त करने के लिए करते हैं, क्योंकि स्त्रियों को मन्त्रों से कोई सम्बन्ध नहीं होता ऐसा माना जाता है ॥ ५ ॥

टि०—विवाहिता पुत्रियों के लिए पिण्डोदक दान की क्रिया उसके पति के सपिण्ड ही करते हैं । विवाहिता या अविवाहिता मृत स्त्रियों के पिण्डोदक दान कर्म में मन्त्रों का व्यवहार नहीं किया जाता ।

अप्रत्तास्वेत्यत्र न पिण्डोदकक्रियेत्यनुवर्तते । प्रत्तास्वेके ह कुर्वत इति । पितृ-सपिण्डाभिप्रायमेतत् । तथाऽयं हेतुः—लोकसङ्ग्रहणार्थं हीति । लोकसङ्ग्रहणं महाजनवशोकारः । तस्मात्प्रत्तासु विकल्पः । आह च याज्ञवल्क्यः—

कामोदकं सखिप्रत्ताश्वश्रीयश्वशुरर्त्विजाम् ॥ इति ॥

भर्तृसपिण्डाः पुनरूढानां कुर्वीरन्नेव । तथा च वसिष्ठः—'प्रत्तानामितरे कुर्वीरन् ताश्च तेषाम्' इति । ऊढानां च अमन्त्रिकैवोदकक्रिया । आह च मनुः—

'अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ इति ॥ ५ ॥

²स्त्रीणां कृतविवाहानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति च सनाभयः ॥ इति ॥ ६ ॥

अनु०—मृत विवाहिता स्त्रियों के बान्धव तीन दिन के बाद ही शुद्ध हो जाते हैं किन्तु उनके सहोदर भाई पूर्वोक्त नियम के अनुसार ही शुद्ध होते हैं ॥ ६ ॥

टि०—इस सूत्र पर गोविन्द की टीका नहीं है, उनकी मूल पुस्तक में इसका अभाव है ।

द्रव्यसाध्यत्वात् पिण्डदानादेर्मृतस्य रिक्थं लब्ध्वा पिण्डदानादिकं कुर्या-दिति विवेक्तुं सपिण्डसकुल्यविवेकक्रमं तावदाह—

अपि च प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सव-र्णायाः पुत्रः पौत्रः प्रपौत्रस्तत्पुत्रवर्जं तेषां च पुत्रपौत्रमविभक्तदायं सपिण्डानाचक्षते ॥ ७ ॥


१. श्लोकोऽयं ख, घ, पुस्तकयोरेवमनूदितः—
अमन्त्रिकाः क्रियाः कार्याः स्त्रीषु प्रत्तास्वशेषतः ।
.........................................यथार्हसि ॥ इति ।

२. सूत्रमिदं ई० पुस्तकव्यतिरिक्तेषु सर्वेषु मूलपुस्तकेषूपलभ्यते, परन्तु न कुत्रापि व्याख्यानपुस्तकेषु ।