सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५१

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५१

तपःपरः । सचनेषूदकोपस्पर्शनं त्रिषवणस्नानम् । श्रामणो नामाऽऽधानविधिर्-
स्ति वैखानसशास्त्रे । तेनाग्निमाधाय जुहुयादिति शेषः । ग्रामे भवमन्नं ग्राम्यं
व्रीह्यादिप्रभवं तन्न भवतीति अग्राम्यं श्यामाकाद्यारण्यौषधिप्रभवम् । तद्भोजी
स्यात् । मूलफलैः प्राणधारणाशक्तावेतद्विज्ञेयम् । देवादिपूजा च तेनैवाऽन्नेन
यथासम्भवं कार्या । सर्वातिथ्यमादायाऽऽगतोऽतिथिः सर्वातिथिस्तं तेनैव पूज-
येदित्यर्थः । तत्राऽपि प्रतिषिद्धवर्जं, प्रतिषिद्धः पतितादिः । व्याघ्रादिहतं मांसं
कुद्दालादिनाऽनार्जितं मूलादि वा । फालकृष्टप्रतिषेधादफालकृष्टाधिष्ठाने न दोषः ।
ग्रामो वाससमुदायः । चशब्दान्मनुष्यसमुदायश्च । जटिलः अलुप्तकेशः अप्र-
साधितकेशश्च । चीरवासा अजिनवासाश्च । चीरं वृक्षाद्वानीतं वासः फलजं वा
जीर्णम् । अजिनं व्याघ्रादिचर्म । चीराजिनयोर्विधानात् समुच्चयो गम्यते ।
तत्र चैकमधोवासोऽपरमुत्तरीयम् । अतिसांवत्सरिकं संवत्सरमतिक्रान्तमन्नं न
भुञ्जीत । अनेनैतद् गम्यते तावन्तं कालं सञ्चयो द्रव्यस्याऽस्तीति ॥ १६-१७ ॥

परिव्राजकः परित्यज्य बन्धूनपरिग्रहः प्रव्रजेद्यथाविधि ॥ १८ ॥

अनु०— परिव्राजक अपने बान्धवों को छोड़कर, किसी प्रकार की सम्पत्ति साथ न लेकर नियम के अनुसार घर से निकल जाय ॥ १८ ॥

टी०— यथाविधि-परिव्राजक के लिए संन्यासी होने की विधि अन्यत्र २.१७ में विवेचित है ।

बन्धवो मातापितृव्यतिरिक्ताः योनिसम्बन्धिनः । कुत एतद् गम्यते ? 'न कदाचिन्माता पित्रोश्शुश्रूषा' इति विशेषवचनारम्भसामर्थ्यात् । तादात्विकौ-
पयिकादधिकः परिग्रहः । तथा च गौतमः—'अनिचयो भिक्षुः' इति । परितो
ग्रहणं परिग्रहः परित्सर्वतोभावे । सर्वैर्वर्णैर्दत्तः परिग्रहः । प्रशस्तब्राह्मणकुले
भिक्षेतेति यावत् । प्रव्रजेत् संन्यसेत् यथाविधि । विधिश्च वक्ष्यते—'अथा-
ऽतः संन्यासविधिम्' ( २.१७.१ ) इति ॥ १८ ॥

अरण्यं गत्वा ॥ १९ ॥

अनु०— वन में जाकर निवास करे ॥ १९ ॥

तत्र वसेदिति शेषः ॥ १९ ॥

शिखामुण्डः ॥ २० ॥

अनु०— शिखा को छोड़कर सिर के केशों का मुण्डन कराये ॥ २० ॥

शिखाव्यतिरिक्तं शिरो मुण्डितं यस्येति विग्रहः ॥ २० ॥

कौपीनाच्छादनः ॥ २१ ॥

अनु०— कौपीन से अपने गुप्तांग का आच्छादन करे ॥ २१ ॥

२५२ बौधायन-धर्मसूत्रम् [ संन्यासिसधर्मा:

परिव्राजका: स्युरिति शेषः। कौपीनमाच्छादनं येषामिति 'कृत्यल्युटो बहु-
लम्' इति कर्मणि ल्युट् । कुत्सितमाच्छादनं कौपीनमिति वैयाकरणाः। सोऽयं
व्यञ्जनप्रदेशे उक्तः। तथा च गौतमः—'कौपोनाच्छादनार्थं वासो बिभृयात्प्रही-
णमेके निर्णिज्य' इति ॥ २१ ॥

वर्षास्वेकस्थः ॥ २२ ॥

अनु०—वर्षा काल में केवल एक स्थान पर निवास करे ॥ २२ ॥

वर्षा नाम ऋतुः । तस्मिन्नेकस्मिन्नेव देशे तिष्ठेत् । 'ध्रुवशीलो वर्षासु'
इति गौतमः॥ २२ ॥

'कौपीनाच्छादनाः' इत्युक्तं, तत्राह—

काषायवासाः ॥ २३ ॥

अनु०—काषाय रंग का वस्त्र धारण करे ॥ २३ ॥

कषायेण रक्तं काषायम् ॥ २३ ॥

अथ भिक्षाकालमाह—

सन्नमुसले व्यङ्गारे निवृत्तशरावसम्पाते भिक्षेत ॥ २४ ॥

अनु०—जब मूसल चलने बन्द हो गये हों, और चूल्हें की आग बुझ गयी हो
तथा भोजन के बर्तनों की सफाई की जा चुकी हो तब भिक्षा के लिए निकले ॥ २४॥

सन्नं मुसलं यस्मिन् काले निवृत्तमुसलव्यापारे इति यावत् । व्यङ्गारे विग-
ताःशान्ता अङ्गारा यस्मिन् । शरावो भोजनपात्रोपलक्षणार्थः । सम्पातस्सम्मा-
र्जनं उच्च्छिष्ठावमार्जने वृत्ते इत्यर्थः । एतैर्विशेषणैरपराह्न उपलक्ष्यते । आह च—

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ इति ॥ २४ ॥

वाङ्मनःकर्मदण्डैर्भूतानामद्रोही ॥ २५ ॥

अनु०—वाणी, मन और कर्म पर नियन्त्रण रखे और प्राणियों को किसी
प्रकार कष्ट न पहुंचाये ॥ २५ ॥

दण्डो दमनादित्याहः—वागादिभिर्भूतानि न दमयेत् । अभयं सर्वभूतेभ्यो
दद्यादिति यावत् ॥ २५ ॥

पवित्रं बिभृयाच्छौचार्थम् ॥ २६ ॥

अनु०—जल छानने के लिए पवित्र साथ रखे ॥ २६ ॥

पवित्रं कुशमुष्टिः पञ्चमुष्टिर्वा जलपवित्रं बिभ्रद्वर्त्तेति शेषः । तद्धरणं
चाऽऽत्मशुद्ध्यर्थं देहादेशाद्धाऽर्जन्तूनां शोभनार्थम् ॥ २६ ॥