सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७

अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७

प्रथमणं शौचं मूत्रपुरीषोद्यपनयनलक्षणं पल्पूलनं मलापनयनाय पाणिभ्याम-
वस्फोटनं, उपस्पर्शनं आचमनम् । एतत्त्रयमप्सु सता न कर्तव्यमित्यर्थः॥७-८॥

यद्युप॒रुद्धा॑स्स्यु॒रेतेनोप॑तिष्ठते "नमो॑ऽग्नये॒ऽप्सुमते॒ नम॒ इन्द्रा॑य
नमो॒ वरु॑णाय॒ नमो वारु॑ण्यै॒ नमो॒ऽद्भ्य” इति ॥ ९ ॥
उत्तीर्याऽऽचम्याऽऽचान्तः पुनराचामेत् ॥ १० ॥

अनु—यदि स्नान के लिए प्रयुक्त जल चारो ओर से घिरा हो (जैसे कूप में)
तो "नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः" इस मन्त्र
से उसकी प्रार्थना करे । मन्त्रार्थ—जल के स्वामी अग्नि को नमस्कार, जल को
नमस्कार ॥ ९ ॥

अनु०—जल से बाहर निकलकर और आचमन कर पुनः आचमन करे ॥१०॥

'तपस्यमवगाहनम्' ( २. ३. १.) इत्यस्मिन्नध्याये 'स्रवन्तीष्वनिरुद्धासु'
इति निरुद्धास्वप्सु स्नानप्रतिषेध उक्तः। तस्येदानीं प्रायश्चित्तमाह—यद्युपरुद्धास्स्यु-
रेतेनोपतिष्ठते 'नमोऽग्नय' इति । नात्र मन्त्रे विरोहितं किञ्चिदस्ति । जलाश-
यादुत्तीर्य प्राङ्मुख उदङ्मुखो वा आचामेत् । अप आचम्याऽऽचामेदित्येव
सिद्धवे आचान्तः पुनरिति चोक्तम् । तस्याऽयमभिप्रायः—मन्त्राचमनं सर्वत्रा-
ऽऽचान्त एव कुर्यादिति ॥ ९-१० ॥

आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पूता पु॑नातु॒ माम् ॥
यदु॑च्छि॒ष्टमभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापोऽस॑तां च प्रति॒ग्रहं॒ स्वाहेति॑ ॥ ११ ॥

अनु०—( इसके साथ निम्नलिखित मन्त्रों का जप करे ) जल पृथिवी को
पवित्र करे । पवित्र पृथिवी मुझे पवित्र करे । ब्रह्मणस्पति पवित्र करे । ब्रह्मा पवित्र
करे । जो कुछ उच्छिष्ट अभोज्य खाकर मैंने पाप किया है अथवा मैंने जो दुष्कर्म
किये हैं तथा अयोग्य लोगों का जो दान ग्रहण किया है उसे जल पवित्र करे ।

वामदेव ऋषिः, विश्वेदेवा वा ऋषयः। द्वे अप्येते अनुष्टुभौ आपः
प्रार्थ्यन्ते । आपश्शोधयन्तु । इह पृथिवीशब्देन तन्मयं शरीरमुच्यते । ताभि-
रद्भिः पूतं शरीरं मां पुनातु । पुनन्तु ब्रह्मणस्पतिरिति एकस्मिन् पूजायां बहुवच-
नमेतत् , वैष्णवान् खनामि' इति यथा । ब्रह्मणस्पतिः पृथिवी पुनात्वित्यर्थः ।
ब्रह्मपूता बृहस्पतिपूतं शरीरम् , यदुच्छिष्टमन्यत् यदभोज्यं मया भुक्तं यद्वा
दुश्चरितं मम सम्बन्धीति शेषः। सर्वं पुनन्तु मां, सर्वस्मादस्मात् मामापः पुन-

२३८ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः

न्तु मामापोऽसतां च प्रतिग्रहम्। असन्तश्शूद्राः पापकर्माणो वा तत्प्रतिग्रह-
जातादेनो मामापः पुनन्त्विति। स्वाहेति प्रदानप्रतिपादकश्रवणार्थेयमित्य-
वेहि ॥ ११ ॥

मन्त्राचमनानन्तरम्—
पवित्रे कृत्वाऽद्भिर्मार्जयति 'आपो हिष्ठा मयोभुव इति तिसृभिः
"२हिरण्यवर्णाश्शुचयः पावका" इति चतसृभिः "३पवमानस्सुवर्चन"
इत्येतेनाऽनुवाकेन मार्जयित्वाऽन्तर्जलगत्तोऽघमर्षणेन त्रीन् प्राणायामान्
धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि
वासांसि परिधायाऽप आचम्य दर्भेष्यासीनो दर्भान् धारयमाणः
प्राङ्मुखस्सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा
दशावरम् ॥ १२ ॥

अनु०— कुश के दो पवित्र बनाकर जल से 'आपो हिष्ठा मयोभुवः' (तै०
सं० ४. १. ५.१) इन तीनों मन्त्रों से तथा 'हिरण्यवर्णाश्शुचयः' (तै० सं० ५. ६ १)
आदि चार मन्त्रों से तथा 'पवमानस्सुवर्चन' (तै० ब्रा० १.४.८) अनुवाक से
मार्जन कर, पुनः जल में जाकर 'ऋतं च सत्यं च' तीन ऋचाओं के अघमर्षण मन्त्र
से तीन बार प्राणायाम करे तब किनारे आकर वस्त्रों को निचोड़कर धोए हुए, वायु
में सुखाये गये तथा पहनने योग्य छिद्रादिरहित वस्त्र पहन कर जल से आचमन करे
कुशों पर बैठकर हाथ में कुश लेकर पूर्व की ओर मुख कर एक सहस्र बार या सौ
बार अथवा अनिश्चित बार अथवा कम से कम दस बार सावित्री मन्त्र का जप करे।

ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत।
ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥
समुद्रादर्णवादधि संवत्सरो अजायत।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी।
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।
दिवं च पृथिवीं चाऽन्तरिक्षमथो सुवः ॥ १२ ॥

पवित्रे इति द्विवचनाद् द्वाभ्यां दर्भाभ्यां मार्जनम्। अन्तर्जलं जलमध्यम्।


१. मन्त्रत्रयमिदं १५९. पृष्ठे टिप्पण्यां द्रष्टव्यम्।
२. हिरण्यवर्गाश्शुचयः पावका इति मन्त्रचतुष्टयं तै. सं. ५. ६. १ द्रष्टव्यम्।
३. पवमान इत्यनुवाकः तै. ब्रा. १. ४. ८. द्रष्टव्यः।