सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४९

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४९

नक्षत्रेभ्यश्च सदैवतेभ्यः ॥ ३२ ॥

**अनु०—**पौर्णमासी के दिन स्थालीपाक का हवन अग्नि के लिए जो तिथि हो उसके लिए, नक्षत्रों के लिए तथा नक्षत्रों के देवताओं के लिए करे ॥ ३०-३२ ॥

अप्राणिष्वष्ठ्येषा तृतीयार्थे पञ्चम्यर्थे वा द्रष्टव्या । अग्निसुपसमाधायेत्यादि प्रतिपद्यते ॥ ३० ॥

व्याख्यातमेतत् ॥ ३१ ॥

अत्र बहुवचनश्रवणात् सर्वेभ्यो नक्षत्रेभ्यः कृत्तिकादिभ्यो होतव्यमिति, तथा नक्षत्रदेवताभ्योऽपि सर्वाभ्यः । तत्र मन्त्राः नक्षत्रेष्टिषूपहोमत्वेनाऽऽम्नाता¹ वेदितव्याः ॥ ३२ ॥

अत एवाऽऽह—

पुरस्ताच्छ्रोणाया अभिजितस्सदैवतस्य हुत्वा गां ब्राह्मणेभ्यो दद्यात् ॥ ३३ ॥

**अनु०—**श्रोणा के समक्ष विद्यमान अभिजित् नाम के नक्षत्र के लिए तथा उसके देवता के लिए हवन कर ब्राह्मणों के लिए गौ का दान करे ॥ ३३ ॥

²अभिजित्नाम नक्षत्रमुपरिष्टादषाढानामधस्ताच्छ्रोणाया अस्ति । तस्य ब्रह्मा देवता । अन्यत्सर्वं प्रथमहोमवत् । अत्राऽपि पञ्चदश ग्रासा ग्रसनीयाः । तथा च सति तिस्रो नीतयस्सम्पद्यन्ते पर एव तस्यास्संख्याया नियमात् । यच्च पिपीलिकायवमध्ययोः पञ्चविंशत्युत्तरशतद्वयमिति; न चैतद्युक्तम्, चान्द्रायणान्तरे पक्षयोश्च द्वावुपवासौ कृतौ भवतः (?) ॥ ३३ ॥

एवं कृते—

तदेतच्चान्द्रायणं पिपीलिकामध्यम् ॥ ३४ ॥

**अनु०—**यह चान्द्रायण व्रत पिपीलिकामध्य चान्द्रायण कहलाता है । (जिस प्रकार चींटी बीच में पतली होती है उसी प्रकार इस व्रत के मध्य में अमावस्या को एक भी ग्रास भोजन नहीं किया जाता ) ॥ ३४ ॥

संव्यवहारार्थं संज्ञाकरणम् । लुप्तोपमेयम्; पिपीलिका हि तनुमध्योभयतः स्थूला भवति तद्वदेतदपि ॥ ३४ ॥


१. अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहा, इत्यादयः प्रतिनक्षत्रं मन्त्राः पठिता। तैत्तिरीयब्राह्मणे तृतीयप्रपाठके द्वितीयानुवाके तेऽत्राऽनुसन्धेयाः ॥
२. See तैं. ब्रा. १. ५. २. ३.

३५०बौधायन-धर्मसूत्रम्[वाक्यप्रायश्चित्तम्]

विपरीतं यवमध्यम् ॥ ३५ ॥

अनु०—इसके विपरीत यवमध्य चान्द्रायण होता है ॥ ३५ ॥
टि०—यह चान्द्रायण व्रत अमावास्या से आरम्भ किया जाता है और अमावास्या को ही समाप्त किया जाता है। जिस प्रकार यव का मध्य भाग मोटा होता है इसी प्रकार इसमें भी व्रत के मध्य में चन्द्रमा की कला के अनुसार अधिकतम ग्रास का आहार होता है।

अमावास्योपक्रमममावास्यान्तमित्यर्थः । अत्र हि पक्षयोरुपवासयोः क्रियमाणयोश्चन्द्रगतिरप्युपसृता भवति ॥ ३५ ॥


अतोऽन्यतरच्चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच्छुद्धो भवति ॥३६॥

अनु०—पाप करने वाला इन दोनों व्रतों में से कोई एक व्रत कर सभी पापों से शुद्ध हो जाता है ॥ ३६ ॥

मुक्तो भवतीत्युक्तं भवति ॥ ३६ ॥
न केवलं प्रायश्चित्तार्थमेवाऽन्यतरस्य चान्द्रायणस्य चरणम्, किं तर्हि ?


कामाय कामायैतदाहार्यमित्याचक्षते ॥ ३७ ॥

अनु०—सभी इच्छाओं की पूर्ति के लिए यह चान्द्रायण व्रत किया जा सकता है ऐसा कहा गया है ॥ ३७ ॥

अत्रैकः कामशब्दः कर्मवचनः । अपरो भाववचनः । काम्यमानाय फलायेत्यर्थः । यद्वा-वीप्सावचनमेतत् । अतश्च सर्वाभिप्रायकमेतदित्युक्तं भवति ॥३७॥
तदाह—


यं कामं कामयते तमेतेनाऽऽप्नोति ॥ ३८ ॥

अनु०—मनुष्य जिस फल की इच्छा करता है वह फल चान्द्रायण व्रत से प्राप्त कर लेता है ॥ ३८ ॥

नाऽत्र तिरोहितमस्ति किञ्चित् ॥ ३८ ॥


एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्यसाधयन् ॥ ३९ ॥

अनु०—प्राचीन काल में ऋषियों ने इस चान्द्रायण व्रत से ही अपने को पवित्र किया और अपने सभी कर्मों को पूरा किया ॥ ३९ ॥

कर्माण्यग्न्याधेयादीनि । उक्तं चैतत्-अग्नीनाधास्यमानः प्राज्यमात्मानं कुर्वीतिति । किमर्थमेतत् ? इदानींतना अपि कथं रोचयेरन्, ततोऽनुतिष्ठेयुरिति ॥ ३९ ॥