सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

सूत्रम्. | विषयः.

३२

सूत्रम्.विषयः.
६.अर्घ्यदानावशिष्टानानपां प्रथमपात्रे समवनयनं मुखाञ्जनं च ।
७.अत्र स्तुतिनिन्दार्थमुभयोर्गाथयोरुदाहरणम् ।

नवमः खण्डः ।

१. गन्धादिदानम् ।
२. स्थालीपाकादुद्धृतस्यान्नस्याग्नौ करणार्थं ब्राह्मणप्रार्थना ।
३. अग्नौ कुरुष्वेत्यादिब्राह्मणाभ्यनुज्ञा ।
४. पिण्डपितृयज्ञोक्तप्रकारेण होमः ।
५. आहिताग्न्यादेः पार्वणे पाणिहोमविधिः ।
६. पाणिहोमप्रशंसा ।
७. पाणिहोमपक्षे विशेषः ।
८. अग्नौ करणपक्षे विशेषः ।
९. श्रद्धया दाने प्रशंसा ।
१०. तृप्तेषु ब्राह्मणेषूभयोर्मन्त्रयोः श्रावणम् ।
११. तृप्तिप्रश्नप्रतिवचनानन्तरं पिण्डार्थमन्नमुद्धृत्य शिष्टस्यान्नस्य ब्राह्मणेभ्यो निवेदनम् ।
१२. भुक्तवत्स्वनाचान्तेषु पिण्डनिपरणम् ।
१३. केषाञ्चिन्मते आचान्तेषु पिण्डनिपरणम् ।
१४. अनन्तरं समन्त्रमन्नान्विकिरणं स्वधोक्त्यनन्तरं पितॄणां विसर्गः ।


दशमः खण्डः ।

१. शूलगवाख्यरौद्रयज्ञः ।
२. शूलगवस्य कालः ।
३. तस्य नक्षत्रविशेषः ।
४. यूथश्रेष्ठस्य पुङ्गवस्योपादानम्।
५. गोलक्षणम् ।

३३

सूत्रम्.विषयः.
६.तस्यैव लक्षणान्तरं केषाञ्चिन्मते ।
७.कृष्णस्याप्यारोहवतो ग्रहणम् ।
८.तस्य गोराभिषेकः ।
९.समन्त्रं शूलेनाङ्कयित्वोत्सर्गो यावद्दन्तपतनम् ।
१०.ग्रामाद् बहिर्यज्ञिये देशे शूलगवविधानज्ञेन होमस्तस्य वृद्धस्य पशोर्यूपे बन्धनं रुद्राय नियोगश्च ।
११.पशुकल्पोक्तवत् प्रोक्षणादिं ।
१२.विशेषवर्णनप्रतिज्ञा ।
१३.मृन्मयपात्रेण पर्णेन वा वपाहोमस्य कर्तव्यत्वम् ।
१४.वपाया अवदानानां स्थालीपाकस्य च हरायेत्यादिभिर्द्वादशभिर्नामभिः स्वाहाकारान्तो वपाहोमः ।
१५.उग्रायेत्यादिभिः षड्भिर्वा ।
१६.रुद्राय स्वाहेति वा ।
१७.होमानन्तरं स्विष्टकृतः पूर्वं चतसृषु दिक्षु बलिहरणम् ।
१८.बलिहरणे दिशां नामनिर्देशः ।
१९.चतुर्भिः सूक्तैश्चतसृणां दिशामुपस्थानम् ।
२०.अन्येष्वपि रुद्रयज्ञेषु दिशामुपस्थानम् ।
२१.तुषादीनामग्नौ प्रहरणम् ।
२२.पशोश्चर्मणोपानदादिकरणम् ।
२३.अग्नेरुत्तरतः समन्त्रं पशोः शोणितनिनयनम् ।
२४.संज्ञपनदेशस्थितस्य रुधिरादेः समन्त्रं सर्पेभ्यो निवेदनम् ।
२५.तस्य सर्पैर्हरणम् ।
२६.रुद्रस्य सर्वात्मकत्वप्रशंसा ।
२७.याजयितुर्यजमानस्य च ज्ञात्वानुष्ठाने प्रशंसा ।
२८.रुद्रप्रसादेन यजमानस्याकुतश्चिद्भयत्वम् ।
२९.पुत्रादीनामस्मिन् कर्मण्यन्वयप्रतिषेधः ।
३०.हुतशेषप्राशनस्य स्वस्त्ययनत्वम् ।

३४

सूत्रम्.विषयः.
३१.उक्तस्य शूलगवस्य सर्वकामफलप्रदत्वम् ।
३२.सर्वथास्य कर्मणः सकृत् कर्तव्यत्वम् ।
३३.यजमानप्रशंसा ।
३४.मङ्गल्यसूक्तं जपित्वा गृहस्य प्रत्यागमनम् ।
३५.पशूनां रोगेऽस्यैव देवस्य यष्टव्यत्वम् ।
३६.शूलगवस्य स्थाने सर्वहुतः स्थालीपाकः ।
३७.होमानन्तरं धूमस्पर्शार्थं गवामानयनम् ।
३८.मङ्गल्यं सूक्तं जपित्वा पशूनां मध्ये प्रवेशः ।
३९.शौनकाचार्यनमस्कारः ।

इति चतुर्थोऽध्यायः ।

शुद्धिपत्रम् ।

पृष्ठम् .पङ्क्तिः .अशुद्धम् .शुद्धम् .
१०२३त्विर्त्वि
१४१३येय
५०४यदाय था
,,१४थथे
७९३रा' सरास'
८६१९ना यनां य
१४९१२भान्र्भान्
१६२,,दृध्वा हदृध्वाह
,,१४तोब्रब्रतो
१८८१०याऽस्थीया अस्थी

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

॥ श्रीः ॥

आश्वलायनगृह्यसूत्रम् ।

अनाविलाख्यया श्रीहरदत्ताचार्यमिश्रविरचितया

वृत्त्या समेतम् ।


उक्तानि वैतानिकानि। गृह्याणि वक्ष्यामः ॥ १ ॥

नमो रुद्राय यद् गृह्यमाश्वलायननिर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाविला ॥

द्विप्रकाराणि कर्माणि श्रुतिलक्षणान्याचारलक्षणानि च । तत्र उक्तानि वैतानिकानि वितानैरग्निभिः साध्यानि श्रुतिलक्षणानि कर्माणि । अथेदानीं गृह्याणि वक्ष्यामः । गृहाश्रमे भवोऽग्निर्गृह्यः । वक्ष्यति च “पाणिग्रहणादि गृहं परिचरेत्” इति । यस्मिन्नग्नौ पाणिं गृह्णीयात् स गृह्य इति च्छन्दोगाः । इह तु तत्साध्यानि कर्माणि विवक्षितानि । यद्यप्युपनयनादौ लौकिकोऽग्निः, रथारोहणादिष्वग्नि^२रेव नास्ति, तथापि सर्वाण्येव स्मृत्याचारलक्षणानि कर्माणि गृह्याणीत्युच्यन्ते भूम्ना । किं प्रयोजनं सूत्रस्य । गृह्याणां कर्मणामधिकारः । तेन वक्ष्यमाणेषु कर्मसु सति सम्भवे गृह्योऽग्निः गृहस्थश्चाधिकारीति सिद्धम् । अथ गृह्याणि वक्ष्याम इत्येवाधिकार सिद्धे उक्तानि वैतानिकानीत्युक्तानुभाषणं^६


१. ‘धनानि’ ग. पाठः.
२. ‘दौ चाग्नि’ घ. पाठः.
३. ‘षु चाग्नि’ ग. पाठः.
४. ‘प्युच्य’ क. ख. ग. पाठः.
५. ‘न्ते न भू’ क., ‘न्ते नाम्ना’ ख. ग. पाठः.
६. ‘नीति भा’ घ. पाठः.

G. P T. 2374. 500. 24-1-21. B

१ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

वक्ष्यमाणेषु तदपेक्षाप्रदर्शनार्थम् । तेन तत्र याः परिभाषाः
“तस्य नित्याः प्राञ्चश्चेष्टा” इत्यादयः, तासां वक्ष्यमाणेष्वपि
प्रवृत्तिर्भवति । प्रकरणभेदाद्धि न प्राप्नोति ॥ १ ॥

त्रयः पाकयज्ञाः ॥ २ ॥

पाकगुणका यज्ञाः पाकयज्ञा इति विज्ञायमाने
आज्यहोमेषु “पाकयज्ञानामेतत्तन्त्रम्” इत्येष विधिर्न³ वर्तते । तस्मादल्पवचनः पाकशब्दः, यथो² योऽस्मात् पाकतरै इति । प्रशंसावचनो वा, यथा तं पाकेन मनसापश्यमभित⁵ इति । अल्पायाससाध्यत्वादल्पत्वम् । महाफलत्वात्⁶ प्रशस्तत्वम् । वक्ष्यति⁴ च “अथ काम्यानां स्थाने काम्याः⁷,” “चरवैः⁸,” “तानेव कामानाप्नोति” इति । ते पाकयज्ञास्त्रयः त्रिविधा इत्यर्थः ॥ २ ॥

तां¹⁰ एव विधा लक्षणेन दर्शयति —

हुता अग्नौ हूयमानाः अनग्नौ प्रहुता ब्राह्मणभोजने
ब्रह्मणिहुताः ॥ ३ ॥

हूयमानाः क्रियमाणा इत्यर्थः । नहि पाकयज्ञैः⁹ सर्वे
हूयन्ते । हुता नाम पाकयज्ञाः पार्वणादयः । अनग्नौ प्रहुताः


१. 'र्न प्रव' क. ख. ग. पाठः.
२. 'था अहैदैधिषव्यो दतस्तितिष्ठेते तत्र यो' ग, 'था अहेदैधिषव्येति यो' घ. पाठः.
३. 'स्म' क. घ. पाठः.
४. 'रेति च । प्र' घ. पाठः.
५. 'न्ति' ख. पाठः.
६. 'त्वं प्र',
७. 'त्वं च । व',
८. 'ति अ' घ. पाठः.
९. 'वः इ' क. ख. ग. पाठः.
१०. 'तानेवंविधेन लक्षणेन सह द' ग. पाठः.
११. 'ज्ञा हू' क. ख. ग. पाठः.