सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

षष्ठः खण्डः] अनाविलोपेसम् । ३१

षष्ठः खण्डः] अनाविलोपेसम् । ३१

वासे वासे सुमङ्गलीरियं वधूरितीक्षका-
नीक्षेत ॥ ७ ॥

वासे वास इति वचनात् पथि न भवति ॥ ७ ॥

इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेश-
येत् ॥ ८ ॥

विवाहाग्निमुपसमाधाय पश्चादस्यानाडुहं चर्मा-
स्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वार-
ब्धायाम् आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः
प्रत्यृचं हुत्वा समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्र-
तिप्रयच्छेत् ॥ ९ ॥

नयनेऽधिकृतत्वाद्धोमे यःकश्चिदग्निर्मा भूदिति विवाहाग्निग्रहणम् । उपसमाधायेति चर्मास्तरणस्य कालोपदेशार्थम् । पश्चादिति अग्नेः पश्चिमे देशे । आनडुहम् अनडुहो विकारं चर्म । प्राक् चास्य ग्रीवा उपरिष्टाच्च लोमानि भवन्ति । तस्मिन्नुपविष्टायां वध्वां समन्वारब्धवत्यां स्वयं चोपविश्य “आ नः प्रजामि”ति चतसृभिः प्रत्यृचं जुहोति । यत्र प्रत्यृचग्रहणं नास्ति तत्रापि प्रत्यृचमेव होमः “धाता ददातु दाशुष इति द्वाभ्यामि”त्यादौ, एकस्य कर्मणो बहुमन्त्रत्वमन्याय्यमिति कृत्वा । यथाहापस्तम्बः—“वचनादेकं कर्म बहुमन्त्र-
भि”ति । इह तु प्रत्यृचग्रहणमृगन्ते होमो यथा स्यात् स्वा-
हाकारो मा भूदिति । केचिदृगन्ते होमं कृत्वा पश्चात् स्वाहा-
कारं कुर्वन्ति । समञ्जन्त्विति दध्नः प्राश्य दध्न एकदेशं स्वयं
प्राश्य तस्याः प्राशनार्थं प्रतिप्रयच्छेत् ॥ ९ ॥

३२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

आज्यशेषेण वानक्ति हृदये ॥ १० ॥

अथवा हुतशिष्टं यदाज्यमाज्यस्थाल्यां तेन हृदये द्वे आत्मनश्च वध्वाश्चानक्ति पूर्वेणैव मन्त्रेण । यथा — "द्वार्योर्देवीर्द्वारावि"त्यभिमर्शनमन्त्रः सकृत् प्रयुक्तः सन्नुभयार्थो भवति । एवमिहापि सकृदेव मन्त्रप्रयोगः, नाविति द्विवचनयोगात् । अन्ये त्वभ्यासमिच्छन्ति । ततः स्विष्टकृदादि ॥ १० ॥

अत ऊर्ध्वमक्षारालवणाशिनावधःशायिनौ ब्रह्मचारिणौ स्याताम् । त्रिरात्रं द्वादशरात्रं संवत्सरं वैक ऋषिर्जायत इति ॥ ११ ॥

अतःशब्देनानन्तरस्य गृहप्रवेशनीयस्य निर्देशे प्राक्तने मार्गे व्रतचर्या न प्राप्नोति । अथ परमप्रकृतस्य विवाहस्य निर्देशः एवमपि यस्य दूरे विवाहः तस्य प्रागेव गृहप्रवेशनीयान्मार्ग एव व्रतसमाप्तिः प्राप्नोति । तस्माद् योगद्वयमेतद् व्याख्येयम् । विवाहप्रभृत्यक्षारालवणाशिनौ ब्रह्मचारिणौ स्यातामित्येको योगः। ततो गृहप्रवेशनीयादूर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वेति द्वितीयः । एक ऋषिर्जायत इति । एवं नियमयुक्तस्य ऋषिकल्पः पुत्रो जायत इत्यर्थः ॥ ११ ॥

चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् ॥ १२ ॥

एवमन्यतमेन कल्पेन चरितव्रतः सन् सूर्याविदे "सत्येनोत्तभिते"त्यारभ्याध्यायपरिसमाप्तेर्ये मन्त्राः ते सूर्याया