सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

प्रथमः खण्डः] अनाविलोपेनम् । १०३

प्रथमः खण्डः] अनाविलोपेनम् । १०३

वैयाकरणाः । वेदे तु स्त्रीलिङ्गोऽपि दृश्यते ‘तस्यार्धाः शस्त्वा-
र्धाः परिशिष्ये²ति । सर्पिंरं³संस्कृतम् । सर्वमेतदहन्येव भवति ॥

अस्तमिते स्थालीपाकं श्रपयित्वैककपालं च पुरोडाशम् अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनेककपालम् अच्युताय भौमाय स्वाहेति ॥

अस्तमित आदित्ये स्थालीपाकमेककपालं पुरोडाशं च श्रपयित्वा अग्ने नयेति चतसृभिः प्रत्यृचं स्थालीपाकं जुहोति । अच्युताय भौमाय स्वाहेति मन्त्रेण पुरोडाशम् । सर्वहुतोऽयं पुरोडाशः । कारणमुत्तरत्र वक्ष्यामः । तत्रावदानमर्थलुप्तम् । उपस्तरणाभिघारणयोस्तु सव्येन पाणिना प्रवृत्तिमिच्छन्ति । इह स्थालीपाकपुरोडाशयोः श्रपणविधानात् सक्तूनां धानानां च विधिवच्छ्रपणं न भवति । यथासिद्धानामेव ग्रहणम् । प्रत्यृग्ग्रहणादृगन्तेन होमः न स्वाहाकारेण ॥ ४ ॥

अवप्लुतः स्यादाविःपृष्ठो वा ॥ ५ ॥

अयं पुरोडाशः अवप्लुतः घृते निमग्नः स्यात् प्रकाशपृष्ठो वा । कस्मिंश्चित् पात्रे निधाय तथा घृतेन परिषेकः कार्यः यथायं निमग्नो भवति, आविःपृष्ठो वा भवति ॥ ५ ॥

मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति ॥ ६ ॥


१. 'र्धांश', २. 'शिष्य मध्ये निविदं दधाति' ग. पाठः.
३. 'लौकिकमसं' ग. घ. पाठः. ४. 'हुत्वा अ' ख. पाठः.

१०४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

एनं पुरोडाशमाशयेन यस्मिन् घृते पुरोडाश आश-
यितः मग्नः तेन घृतेनाभिजुहोति एनामिति वचनादखण्डि-
तस्यास्य होम इति ज्ञाप्यते ॥ ६ ॥

शं नो भवन्तु वाजिनो हवेष्वित्यक्ता धाना अञ्ज-
लिना ॥ ७ ॥

जुहोतीत्येव । अञ्जलिनेत्युभयोर्हस्तयोर्व्यापृतत्वादुप-
स्तरणाभिघारणयोरन्यः कर्ता ॥ ७ ॥

अमात्येभ्य इतरा दद्यात् ॥ ८ ॥

अमात्याः पुत्रादयः तेभ्य इतरा अनक्ता धाना दद्यात् ।
एतावद् गृह्ये करोति ॥ ८ ॥

कलशात् सक्तूनां दर्वीं पूरयित्वा प्रागुपनिष्क्र-
म्य शुचौ देशेऽपोऽवनिनीय सर्पदेवजनेभ्यः स्वाहेति
हुत्वा नमस्करोति ये सर्पाः पार्थिवा ये आन्तरिक्ष्या ये
दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्षं तेभ्य इमं ब-
लिमुपाकरोमीति १ ॥ ९ ॥

अथ शिक्यं गृहीत्वा प्राङ्मुख उपनिष्क्रम्य शुचौ
देशेऽपोऽवनिनीय नवात् कलशाद् गृहीतैः सक्तुभिर्दर्वीं पूर-
यित्वा जुहोति । सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति
ये सर्पा इति मन्त्रेण । मन्त्रलिङ्गात् सर्पेभ्यो नमस्कारः ।
शुचौ देश इति वचनाद्धोमत्वेऽप्यग्नेर्निवृत्तिः । शुचाविति व-
चनात् स्वभावतः शुचेररण्यस्य ग्रहणमिच्छन्ति ॥ ९ ॥


१. 'ति अस्योपरि प्रश्च्योतयति । ए' क. ख. पाठः.

अनाविलोपेताम् । १०५

प्रदक्षिणं परीत्य पश्चाद् बलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पान् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुः ॥ १० ॥

अथ तं बलिं प्रदक्षिणं परीत्य पश्चादस्योपविश्य जपतीत्यध्याहार्यम्। बलिग्रहणेऽक्रियमाणे पश्चाच्छब्दः कालवाची शङ्क्येत। तथा सति पूर्वाहुतिरवस्थितस्य प्राप्नोति। बलिग्रहणाद् दिग्वाची भवति ॥ १० ॥

ध्रुवान्ते परिददामीति ॥ ११ ॥

परिददातीत्यध्याहार्यम्। साकाङ्क्षत्वान्मन्त्रलिङ्गाच्च। ध्रुवान्ते परिददामीत्येवं परिददाति कस्मै ध्रुवाय सम्बोध्यमानाय। ध्रुवो नाम सर्पाणामधिपतिः। हे ध्रुव! अन्ते अस्य कर्मणोऽन्ते परिददामीति मन्त्रार्थः। ध्रुवान् निश्चलान् ते तुभ्यं परिददामीत्यन्ये ॥ ११ ॥

एवं सामान्योक्तस्य परिदानस्य विभज्य वचनं —

ध्रुवामुं ते ध्रुवासुं ते इत्यमात्याननुपूर्वं ध्रुव मां ते परिददामीत्यात्मानमन्ततः ॥ १२ ॥

अमुमित्यस्य स्थाने अमात्यानां नामनिर्देशो द्वितियया ध्रुव! रुद्रं ते ध्रुव! विष्णुं त इति। एवममात्याननुपूर्वं ज्येष्ठक्रमेण परिददाति। अन्ततस्तु ध्रुव! मां ते परिददामीत्यात्मानं परिददाति। अमुमित्यस्य स्थाने मामिति नतु नामनिर्देशः। तत्रार्थात् स्वयंकर्तृकमेतत् कर्म। अन्यकर्तृकत्वेऽप्याधिकारिण एवान्ततः परिदानम् ॥ १२ ॥

. १०६ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

नैनमन्तरा व्यवेयुरा परिदानात् ॥ १३ ॥

एनं कर्तारं बलिं चान्तरा न व्यवेयुः मध्ये न गच्छेयुः ॥ १३ ॥

सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् ॥ १४ ॥

'मार्गशीर्ष्यां प्रत्यवरोहण'मिति वक्ष्यति । आ तस्मात् सायं प्रातश्च बलिं हरेत् सर्पदेवजनेभ्यः स्वाहेति पूर्वेणैव मन्त्रेण । बलिहरणोपदेशादेव मन्त्रे सिद्धे पुनस्तदुपदेशादन्येषामुपनिष्क्रमणादीनां निवृत्तिः । सक्तवस्तु भवन्ति बलिद्रव्यत्वाद् । दर्वी च भवति 'दर्वी च बलिहरणीमि'ति पूर्वं विशेषितत्वात् । उपविश्यजपादेरपि निवृत्तिः ॥ १४ ॥

प्रसङ्ख्याय हैके तावतो बलींस्तदहरेवोपहरन्ति ॥

एके आचार्याः आ प्रत्यवरोहणाद् यावत्य आहुतयः सायं प्रातः तावतीः प्रसङ्ख्याय परिगणय्य तदहरेव तदानीमेवोपहरन्ति उपहर्तव्या इत्याहुः ॥ १५ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये प्रथमः खण्डः ।


अथ द्वितीयः खण्डः ।

आश्वयुज्यामाश्वयुजीकर्म ॥ १ ॥

अश्वयुग्भ्यां युक्ता पौर्णमासी आश्वयुजी श्रावणी-

[द्वितीयः खण्डः] अनाविलोपेतम् । १०७

वद् द्रष्टव्या । तस्यामाश्वयुजीकर्म भवति श्रवणाकर्मवन्निर्वचनम् ॥ १ ॥

निवेशनमलङ्कृत्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति ॥ २ ॥

निवेशनं गृहं तदुपलेपनादिभिरलङ्कृत्य पशुपतये निरुप्य स्थालीपाकं जुहुयुः पशुपतये शिवायेति मन्त्रेण । पशुपतये निरुप्येति वचनं निर्वापकाले निर्गुणस्य पशुपतेरुपलक्षणं भवति, नतु मन्त्रे यावन्तो गुणाः तावद्गुणकस्य । बहुवचननिर्देशात् पुत्रादयोऽप्यधिकारिणः । तत्र गृही जुहोति इतरेऽन्वाहरन्ते उपासते वा ॥ २ ॥

पृषातकमञ्जलिना जुहुयाद् ऊनं मे पूर्यतां पूर्णं मे मोपसदत् पृषातकाय स्वाहेति ॥ ३ ॥

पयस्यवनयेदाज्यं तत् पृषातकमितिच्छन्दोगाः । तदञ्जलिना जुहुयाद् ऊनं मे पूर्यतामिति मन्त्रेण । धानाभिर्होमो व्याख्यातः । अत्र सर्वरुद्रयज्ञेषु दिशामुपस्थानमिति वचनात् ‘कद्रुद्राय’ ‘इमारुद्राया’ ‘आ ते पितः’ ‘इमारुद्राय स्थिरधन्वन्’ इति चतुर्भिः सूक्तैश्चतस्रो दिश उपस्थाय स्विष्टकृदादि ॥

सजूर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । सजूर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूर्ऋतुभिः सजूर्विधाभिः सजूर्द्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणः स्थालीपाकः ॥ ४ ॥

१०८ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः]

सजूरित्यादिभिस्त्रिभिर्मन्त्रैराहिताग्नेराग्रयणस्थालीपाको भवति । कः पुनरस्याग्निः गृह्याधिकाराद् गृह्य इति प्राप्तम् । यज्जुहोति तदाहवनीये इति नियमादाहवनीय इति निर्णयः । यद्येवं श्रौताग्रयणप्रकरण एवायमनुकल्पो वक्तव्यः । इह वचने किं प्रयोजनम् । पाकयज्ञधर्मप्रवृत्तिः ॥ ४ ॥

अनाहिताग्नेरपि शालाग्नौ ॥ ५ ॥

शालाग्निरपि गृह्य एवोच्यते । ततश्च गृह्याधिकारादेव सिद्धे पुनः शालाग्निग्रहणात् पूर्वं विधानं शालाग्नौ न भवति, क्व तर्हि आहवनीये ॥ ५ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये द्वितीयः खण्डः ।


अथ तृतीयः खण्डः ।

मार्गशीर्ष्यां प्रत्यवरोहणं चतुर्दश्यां पौर्णमास्यां वा ॥ १ ॥

मार्गशीर्षे मासि या चतुर्दशी पौर्णमासी वा तस्यां प्रत्यवरोहणं नाम कर्तव्यं, यस्य 'हेमन्ते प्रत्यवरोहणमि'ति शास्त्रान्तरे प्रसिद्धिः । तत्रापि वक्ष्यति 'हेमन्तं मनसा ध्यायादि'ति । प्राग्घेमन्तात् खट्वादिषु शयितानां शीतकाले पल्लाशादिनिर्मिते स्वास्तरे शयनार्थं हेमन्तमृतुं प्रति अव-


१. 'न्तम्' क. घ. पाठः.