आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
दशमः खण्डः] अनाविलोपेसम् । २०९
दशमः खण्डः] अनाविलोपेसम् । २०९
कामं कृष्णमारोहवांश्चेत् ॥ ७ ॥
काममित्यभ्युपगतौ । कृष्णमपि कामं कुर्याद्, आरोहः ककुत् शरीरोच्छ्रायो वा तद्वांश्चेत् ॥ ७ ॥
व्रीहियवमतीभिरद्भिरभिषिञ्चति शिरस्तोऽध्या-
भसदः ॥ ८ ॥
तमेवंभूतं पुङ्गवं शिरस्तोऽधि शिरस्त आरभ्य आभ-
सदः भसदिति पुच्छप्रदेशाभिधानं गुह्याभिधानमित्यन्ये आ
तस्मादभिषिञ्चति ॥ ८ ॥
रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ९ ॥
एष मन्त्रः । ततस्तं शूलेनाङ्कयित्वोत्सृजति यावत्
(सं?) पन्नदद् भवति । अन्ये तु रुद्रायेत्यादिनोत्सृजन्ति तू-
ष्णीमभिषिञ्चन्ति । उत्सृजेदित्यनुक्तमपि गम्यते उत्तरत्र दर्श-
नात् 'इष्ट्वान्यमुत्सृजति नानुत्सृष्टः स्यादि'ति ॥ ९ ॥
तं पन्नदतं वृषीभूतं वा यज्ञियस्यां दिश्यसन्द-
र्शने ग्रामादूर्ध्वमर्धरात्रादुदित इत्येके वैद्यं चरित्रवन्तं
ब्राह्मणमुपवेश्य सपलाशामाईंशाखां यूपं निखाय व-
तत्त्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्य-
तरयार्धशिरसि पशुं बद्ध्वा यूपे रशनायां वा नियुनक्ति
यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति ॥ १० ॥
तं शूलगवं पन्नदतं पन्नाः पतिता दन्ता यस्य तम् ।
“यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवती”ति ब्राह्मणम्।
१. 'वा नि' ग. पाठः.
११० आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
“योऽपन्नदन्मलं तत्पशूनामिति विज्ञायते” इत्यापस्तम्बः। वृषी-
भूतं सेचनसमर्थम् एवंभूतं वा यज्ञियस्यां दिशि यज्ञार्हायाम्
आविन्दितस्यामितिवच्छान्दसः स्यादागमः। ग्रामाद् बहिर्यत्र
स्थिता ग्रामं न पश्यन्ति ग्रामे वा स्थित्वा यं न पश्यन्ति तस्मि-
न्नसन्दर्शने देशे ऊर्ध्वमर्धरात्रादस्मिन् काले। उदित इत्येके एक
आचार्या उदित इत्याहुः। तदा वैद्यं चरित्रवन्तं य एतां विद्या-
मधीते यश्चैतत् कर्मानुष्ठितवान् तमेवं ब्राह्मणमुपवेश्य आज्य-
भागान्ते शामित्रायतनाद्याग्निं दूतमित्येतदन्तं कृत्वा सपलाशां
सपर्णीम् आर्द्रा चासौ शाखा च तामार्द्रशाखां यूपस्य पला-
शादेः सम्बन्धिनीं यूपं निखाय द्वे व्रतत्यौ लते पशुबन्धनक्षमे
कुशनिर्मिते वा रज्जू रशने करोति। तयोरन्यतरया यूपं परिव्य-
यति। अन्यतरया अर्धशिरसि शिरस एकस्मिन् पार्श्वे पशुं-
बद्ध्वा यूपे रशनायां वा तं पशुं नियुनक्ति यस्मै नम इति
मन्त्रेण। रुद्रदेवत्योऽयं पशुः। तथाच रुद्राय जुष्टो वर्ध-
स्वे'ति उत्सर्जनमन्त्रः। हराय कृपायित्यादिभिश्च द्वादशभि-
र्देवनामभिर्होमः। तस्मादयमपि मन्त्रस्तद्देवत्य एव। लक्षण-
तश्चैतद्देवत्यत्वम्। इदं हि देवस्य लक्षणं यस्मै नम इति ।
तथाच शिशुमारब्राह्मणे श्रूयते — “यस्मै नमस्तच्छिरो धर्मो
मूर्धानं ब्रह्मोत्तराहनुर्यज्ञो धरे”त्यादि। अत्र हि देवतान्तराणां
स्वशब्देनोक्तत्वाद् यस्मै नम इति देवस्यैव लक्षणतो नि-
र्देशः॥ १० ॥
प्रोक्षणादि समानं पशुना ॥ ११ ॥
१. 'न्तं स' ङ. पाठः.