सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

दशमः खण्डः] अनाविलेापेतम् । ५३

दशमः खण्डः] अनाविलेापेतम् । ५३

प्रतिभयं चेदन्तरा शस्त्रमपि किञ्चित् । ॥

अन्तरा कर्तुश्चैत्यस्य मध्ये प्रतिभयं भयङ्करं कान्तारादिकं स्याच्चेत् तदा दूतस्य भयनिवृत्त्यर्थं शस्त्रं खड्गादिकमपि किञ्चित् प्रयच्छेत् ॥ ७ ॥

नाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति ॥ ८ ॥

तयोरेव मध्ये नाव्या नौतार्या नदी चेद् भवति तदा दूतस्य तरणार्थं प्लवरूपमपि किञ्चिद् अलाबुपात्रादिकं प्रयच्छेत् । अनेन तरितव्यमिति च दूतं ब्रूयात् ॥ ८ ॥

धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहित1याग्रे बलिं हरेत् ॥ ९ ॥

धन्वन्तरिर्नाम चैत्यम् । वैश्रवण इत्येके । अमृतोद्भवश्चिकित्सितस्योपदेष्टेत्यायुर्वेदे प्रसिद्धः । तत्र द्वितीयः स्वरोऽपि ह्रस्वः प्रसिद्धः । तस्य यज्ञे योऽस्मिन् कर्मणि दक्षिणत आसीनो ब्रह्मा तमग्निं चान्तरा तयोर्मध्ये यो धन्वन्तरेः पुरोहितः तस्मै अग्रे प्रथमं बलिं हरेत् पश्चाद् धन्वन्तरये । होमस्तु धन्वन्तरय एव । यदा त्वयं विदेशस्थः तदास्मै सपुरोहितायैकः पिण्डः दूताय द्वितीयः । इमं धन्वन्तरिपुरोहिताभ्यां बलिं हरेदिति द्विवचनेनोहः । अन्ये तु


Footnotes

  1. १. 'ध्ये पुरोहिताय धन्वन्तरेर्यः पुरोहितः तस्मै अग्रे प्रथमं बलिं हरेत् । पश्चाद् धन्वन्तरये होमस्तु धन्वन्तरय एव । यदा विदेशस्थो धन्वन्तरिः तदा धन्वन्तरिपुरोहिताभ्यामेकः पिण्डः दूताय द्वितीयं तस्मा इत्यस्यापि द्विवचनेनोहः इमं धन्वन्तरिपुरोहिताभ्यां बलिं हरेति अन्ये' ग. पाठः. ↩

५४आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

पुरोहिताय क्वचिदपि प्रत्यक्षहरणाभावाद्दिग्देशस्थेऽपि धन्वन्तरौ ब्राह्मणमग्निं चान्तरा पुरोहिताय बलिं हरन्ति ॥ ९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये दशमः खण्डः ।

अथैकादशः खण्डः ।

उपनिषदि गर्भालम्भनं पुंसवनमनवलोभनं च ॥ १ ॥

गर्भो येन लभ्यते निषिक्तं वीर्यममोघं भवति तद् गर्भालम्भनम् । येन स गर्भः पुमान् भवति तत् पुंसवनम् । येन स गर्भो न लुभ्यति न स्रवति तदनवलोभनम् । एतानि त्रीणि कर्माणि उपनिषद्याम्नातानि तथैव कर्तव्यानि । शाखान्तरोपनिषद्याम्नातानामप्यागमय्यानुष्ठानार्थं वचनम् ॥ १ ॥

यदि नाधीयात् तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ माषौ यवं च दधि प्रसृतेन प्राशयेत् ॥ २ ॥

यदि नाधीयात् व्यत्ययेन परस्मैपदम् । स्मरणार्थो वा धातुः । यदि तामुपनिषदं नाधीयीत न स्मरेद्वा तदो किं कर्तव्यम् । तदुच्यते । तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ च माषौ यवं च दधि प्रसृतेन प्राशयेत् । तत्र गर्भालम्भनं गृह्यान्तरेषु बहुषु प्रसिद्धम् । तत्रापस्तम्बः — 'रजसः प्रादुर्भावात् स्नातामृतुसमावेशन उत्तराभिरभिमन्त्रयते', 'चतुर्थीप्रभृत्या षोडशीमुत्तरामुत्तरां


१. 'ब्राह्मणमग्निं चेत्यादि ब' क. ख. पाठः.
२. 'दा एवम् । तु' ख. पाठः.
३. 'व्यं तु' ग. पाठः.