आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
दशमः खण्डः] अनाविलेापेतम्। २११
दशमः खण्डः] अनाविलेापेतम्। २११
पशुकल्पोक्तं प्रोक्षणादिपदार्थजातमविकृतं कर्तव्यम् ॥
विशेषान् वक्ष्यामः ॥ १२ ॥
अत्र ये तु विशेषास्तान् वक्ष्यामः ॥ १२ ॥
पात्र्या पलाशेन वा वपां जुहुयादिति विज्ञा-
यते ॥ १३ ॥
पात्र्या मृन्मय्या पलाशेन पर्णेन वा यज्ञियस्य वृक्षस्य
वपां जुहुयादिति ब्राह्मणं भवति ॥ १३ ॥
हराय कृपाय शर्वाय शिवाय भवाय महादे-
वायोग्राम पशुपतये रुद्राय शङ्करायेशानायाशनये स्वा-
हेति ॥ १४ ॥
हरायेत्यादिभिः स्वाहाकारान्तो द्वादशभिर्देवनामभि-
र्युक्त एको मन्त्रः वपाया अवदानानां स्थालीपाकस्य च भ-
वति ॥ १४ ॥
षड्भिर्वोत्तरैः ॥ १५ ॥
अस्मिन्नेव वा पाठे उत्तरैः षड्भिरुग्रायेत्यादिभिर्जुहु-
यात् ॥ १५ ॥
रुद्राय स्वाहेति वा ॥ १६ ॥
अयं वा होममन्त्रः ॥ १६ ॥
चतसृषु चतसृषु कुशसूनासु चतसृषु दिक्षु
बलिं हरेद्यास्ते रुद्र! पूर्वस्यां दिशि सेनास्ताभ्य एतं
नमस्ते अस्तु मा मा हिंसीरिति ॥ १७ ॥
२१२ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
प्रधानहोमानन्तरं स्विष्टकृतः प्राक् चतसृषु दिक्षु च-
तसृषु चतसृषु कुशसूनासु। वीप्सावचनात् प्रतिदिशं चतस्रः।
कुशसूनाः कुशानां पुष्पमय्यः तासु बलिं हरेत्। तत्र पूर्वस्यां
दिशि मन्त्रः— यास्ते रुद्र! पूर्वस्यां दिशीति। एवं सर्वासु
दिक्षु बलिं हरेदित्यनुषङ्गः ॥ १७ ॥
प्रतिदिशं त्वादेशनम् ॥ १८ ॥
तस्यास्तस्या दिशो नाम त्वादेष्टव्यम्। यास्ते रुद्र!
दक्षिणस्यां दिशिं प्रतीच्यां दिशि उदीच्यां दिशि इति ॥ १८ ॥
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्राय
इमा रुद्राय आ ते पितः इमा रुद्राय स्थिरधन्वन्
इति ॥ १९ ॥
हृत्वा बलिं कद्रुद्रायेत्यादिभिश्चतुर्भिः सूक्तैश्चतस्रो
दिश उपतिष्ठेत। यथासंख्यमित्येके। प्रतिदिशं चतुर्भिरिति
वयं चतुर्भिरिति वचनात् सूक्तग्रहणात्। चत्वार्येव हि निर्दि-
ष्टानि सूक्तानि च तानि सूक्तं सूक्तादौ हीने पाद इति वच-
नात्(?)। तस्माच्चतुर्भिः सूक्तैः प्रतिदिशमुपस्थानं कर्त-
व्यम् ॥ १९ ॥
सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ॥ २० ॥
अन्येष्वपि सर्वरुद्रयज्ञेषु आश्वयुजीकर्मादिष्वेतद्
दिशामुपस्थानं कर्तव्यम् ॥ २० ॥
तुषान् फलीकरणांश्च पुच्छं चर्म शिरः पादा-
वन्वावनुंप्रहरेत् ॥ २१ ॥