आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
तृतीये वर्षे चौलम् ॥ १ ॥
६६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
अथ पञ्चदशः खण्डः ।
तृतीये वर्षे चौलम् ॥ १ ॥
कर्तव्यमिति शेषः । जाताधिकाराज्जन्मनः प्रभृति ॥
यथाकुलधर्मं वा ॥ २ ॥
यस्य यादृशः कुलधर्मः तस्य तथा वा कर्तव्यम् । प्राग्वा पश्चाद्वा । यस्यापि कुलधर्मो नियतः तस्यापि तृतीयो वर्षो विकल्पेन भवति ॥ २ ॥
उत्तरतोऽग्नेर्व्रीहियवमाषतिलानां पृथक् पूर्णशरावाणि निदधाति ॥ ३ ॥
पृथग्ग्रहणाद् व्रीहीणामेव पूर्णमेकं शरावम् । एवं यवानाम् एवं माषाणाम् एवं तिलानाम् । सुहितार्थयोगे षष्ठी 'पूरणगुणसुहित' इति ज्ञापकात् । यथा ओदनस्य पूर्णाश्छात्रा इति । तानि चत्वारि पात्राण्युत्तरतोऽग्नेर्निदधाति स्थापयति । शरावाणां परस्परस्पर्शेऽपि न दोषः पृथग्ग्रहणस्यान्यार्थत्वात् ॥ ३ ॥
पश्चात् कारयिष्यमाणो मातुरुपस्थे ॥ ४ ॥
यदर्थं तत् कर्म स कारयिष्यमाणः कुमारः । स पश्चादग्नेर्मातुरुपस्थे । किम् । 'उपनिहितानि भवन्ती'ति वक्ष्यमाणं विपरिणामेन सम्बन्धनीयम् । उपनिहितो भवतीति ॥ ४ ॥
आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्तीति ॥ ५ ॥
१. 'येन तत् कर्म प्रवर्तितं स' घ. पाठः.
पञ्चदशः खण्डः] अनाविलोपेतुम् । ६७
आनडुहं गोमयं नवे शरावे। पूर्ववत् सम्बन्धः पश्चा-
दग्नेरुपनिहितं भवति। शमीपर्णानि चोपनिहितानि भवन्ति
पश्चादग्नेर्नवे शराव इत्येव ॥ ५ ॥
मातुः पिता दक्षिणत एकविंशतिकुशापिञ्जूला-
न्यादाय ॥ ६ ॥
आसीतेति शेषः । कुमारस्य पिता मातुर्दक्षिणतः
कुशस्तम्बान्यादायासीत । मातुरितिवचनमग्नेर्दक्षिणतो मा-
भूत् । अस्मिन् पक्षे पितुरन्यः कर्ता ॥ ६ ॥
ब्रह्मा वैतानि धारयेत् ॥ ७ ॥
योऽस्मिन् कर्मणि ब्रह्मा स एतानि कुशपिञ्जूलानि
गृहीत्वा धारयेत् । अस्मिन् पक्षे पितैव कर्त्ता । ब्रह्मा च स्व-
स्थान एवासीनो धारयेत् । मातुर्दक्षिणत इत्येतत् तु पितृपक्षे ॥
पश्चात् कारयिष्यमाणस्यावस्थाय शीतोष्णा
अपः समानीयोष्णेन वायवुदकेन हीति ॥ ८ ॥
शीताश्चोष्णाश्चाप उभयीः समानयति मिश्रयति
उष्णेन वायविति मन्त्रेण ॥ ८ ॥
तासां गृहीत्वा नवनीतं दधिद्रप्सान् वा प्रद-
क्षिणं शिरस्त्रिरुन्दति ॥ ९ ॥
तासां समानीतानामपामेकदेशं गृहीत्वा नवनीतं
दधिकणान् वा ताभिः सह गृहीत्वा कुमारस्य शिरः प्रदक्षिणं
त्रिरुन्दति क्लेदयति ॥ ९ ॥
१. 'नि गृहीत्वासी' ग. घ. पाठः. २. 'त्यग्ने' क. ख. पाठः.
६८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
अदितिः केशान् वपत्वाप उन्दन्तु वर्चस इति ॥ १० ॥
अयमुन्दनमन्त्रः ॥ १० ॥
दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिञ्जूलान्यभ्यात्माग्राणि निदधाति ओषधे त्रायस्वैनमिति । स्वधिते मैनं हिंसीरिति लौहेन क्षुरेण ॥ ११ ॥
संदधातीति शेषः । सपिञ्जूलान् केशान् लौहेन क्षुरेण संदधाति स्वधिते मैनं हिंसीरिति मन्त्रेण । क्षुरस्य लौहत्वाव्यभिचारेऽपि लौहेनेत्युच्यते शाखान्तरोक्तस्ताम्रमयः क्षुरो यथा न स्यादिति ॥ ११ ॥
प्रच्छिनत्ति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माञ्जरदष्टिर्यथा सदिति ॥ १२ ॥
तेन क्षुरेण सपिञ्जूलान् केशान् प्रच्छिनत्ति येनावपदिति मन्त्रेण ॥ १२ ॥
प्रच्छिद्य प्रच्छिद्य प्रागग्राञ्छमीपर्णैः सह मात्रे प्रयच्छति तानानडुहे गोमये निदधाति ॥ १३ ॥
वीप्सा वक्ष्यमाणप्रच्छेदनापेक्षा । प्रागग्रानिति दीयमानानां प्रागग्रता विधीयते । शमीपर्णैः सह एकीकृत्य मातुर्हस्ते ददाति । सा तानानडुहे गोमये निदधाति । अत्र प्रागग्रताया नियमो नास्ति ॥ १३ ॥
येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति