सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

चतुर्थः खण्डः] अनाविलोपेताम् । १४९

चतुर्थः खण्डः] अनाविलोपेताम् । १४९

यनं भवति पारायणादिवत् । शिष्यार्थमध्यापनम् । अपर
आह— अध्येष्यमाण इति वचनादध्याप्याभावेऽपि पारायण-
ब्रह्मयज्ञाध्ययनार्थमप्येतत् कर्म भवति । एताभ्यो देवताभ्य
इति वचनं सर्वासां देवतात्वज्ञापनार्थम् । तेन सावित्र्याद्या
अग्न्याद्याश्चोभययो गृह्यन्ते । होमद्रव्यमप्युभयम् । हुत्वेति
वचनं होमकालेऽन्वारम्भणं यथा स्यादिति । स्विष्टकृतो वचनं
प्रधानान्तरं स्विष्टकृद् यथा स्यादिति । कथं पुनरन्यत्र प्रसङ्गः
एतदेव ज्ञापयत्यागन्तुकानि प्राक्स्विष्टकृतो भवन्ति ततः
स्विष्टकृदिति दधिसक्तुप्राशनं शिष्याणामपि । ततो मार्ज-
नं कुर्युरीति शेषः । तत्परिस्तरणैरञ्जलिमन्तर्धायेत्याद्युक्तम् ॥

अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान्
कृत्वा ब्रह्माञ्जलिकृतो जपेत् ॥ ७ ॥

दर्भान् कृत्वा प्रागग्रान् दर्भान् निधाय ब्रह्माञ्जलि-
कृतः दक्षिणोत्तरौ पाणी पवित्रवन्तौ सन्दधाति एष ब्रह्मा-
ञ्जलिः स कृतो येन स तथोक्तः । ‘वाहिताग्न्यादिषु’ इति
निष्ठान्तस्य परनिपातः ॥ ७ ॥

ओंपूर्वा व्याहृतयः ॥ ८ ॥

द्वितीयार्थे प्रथमा । अत्र जपतिचोदनायामप्युच्चैः
प्रयोगः, माणवकार्थत्वादुच्चारणस्य ॥ ८ ॥

सावित्रीं च चतुरभ्यस्य वेदादिमारभेत ॥ ९ ॥

चशब्दादोंपूर्वामिति गम्यते । सावित्रीं चोंपूर्वां चतु-
रभ्यस्यति । यथासमाम्नायमर्धर्चशोऽभ्यस्य वेदादिमारभेत ।


१. ‘कुतूले’ ग. ङ. पाठः.

१५०आश्वलायनगृह्यसूत्रम्[तृतीयोऽध्यायः

व्यत्ययेन परस्मैपदम् आरभेत । वेदस्यादिं सूक्तमनुवाकमध्यायं वा । एतच्च सर्वमध्याप्यानामपि समानम् । अपर आह — जपेदित्यत्र प्रकाराविधिः चतुरभ्यस्येति जप्यस्त्वोङ्कारादयः । तेन ओङ्कारव्याहृतीनामपि चतुरभ्यासो भवति । अस्मिन् पक्षे जपेदित्यातिरिच्यते ॥ ९ ॥

तथोत्सर्गे ॥ १० ॥

उत्सर्गो वक्ष्यते । तत्रापि तथा कर्तव्यं, यथोपाकरणे । तत्रैके कृत्स्नस्य कर्मणोऽतिदेशं मन्यन्ते । तन्न । यदि कृत्स्नस्य कर्मणोऽतिदेशोऽभविष्यद् एतेनोत्सर्जनमिति तृतीयया निरदेक्ष्यद् यथा ‘एतेन गोदानम्’ ‘एतेन वापनादी’ति । तस्माद् वेदादिमारभेदेत्येतदेवातिदिश्यते । अन्यदुत्सर्जनं कर्म कथं भविष्यति । वक्ष्यति — ‘एताभ्यो देवताभ्योऽन्नेन हुत्वे’ति । तेनोत्सर्जने प्राशनमार्जने न भवतः ॥ १० ॥

षण्मासानधीयीत समावृत्तो ब्रह्मचारिकल्पेन ॥ ११ ॥

समावृत्तोऽप्युपाकृत्याधीयानो ब्रह्मचारिकल्पेन मधुमांसवर्जनेनाधीयीत । यः केवलानि वृत्तानि पारं नीत्वा जायामुपयम्य पश्चादधीते तस्य ग्रहणाध्ययनविषयमेतत् ॥ ११ ॥

यथान्यायमितरे ॥ १२ ॥

इतरे असमावृत्ता ब्रह्मचारिणो यथान्यायं मेखलाजिनदण्डभिक्षाचरणसमिदाधानादिभिरधीयीरन् ॥ १२ ॥

जायोपेयेत्येके ॥ १३ ॥

समावृत्तविषयमिदम् । ब्रह्मचारिकल्पेनेत्यस्यापवादः ।


१. 'वानन्तरमति' ग. ङ. पाठः.
२. 'ने भ' ग. पाठः.
३. 'वेदानि वायं नी' ख. ग. ङ. पाठः.