आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेते । २०३
अष्टमः खण्डः] अनाविलोपेते । २०३
दिव्या इति मन्त्रेण । केचित् सर्वान्तेऽनुमन्त्रणमिच्छन्ति ।
अन्ये प्रतिपुरुषम् ॥ ५ ॥
संस्स्रवान् समवनीय ताभिरद्भिः पुत्रकामो मुख-
मनक्ति ॥ ६ ॥
अर्घ्यदानावाशिष्टा आपः संस्रवाः । तान् प्रथमे पात्रे
समवनीय ताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति ॥ ६ ॥
प्रथमपात्रे विशेषप्रदर्शनार्थं यज्ञगाथे उदाहरति —
नोद्धरेत् प्रथमं पात्रं पितॄणामर्घ्यपातितम्¹ ।
आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥
यदा वा तूद्धृतं पात्रं विवृतं वा यदा भवेत् ।
अभोज्यं तद् भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः ॥ ७ ॥
प्रथमं पात्रं यस्मिन् प्रदेशे पितॄणामर्घ्याय पातितं² नि-
हितं तस्माद् देशान्नोद्धरेत् । यत आवृतास्तत्र पात्रे तिष्ठन्ति
पितरः । क एवमाह — शौनकोऽब्रवीत् । आवृता इति
वचनात् संस्स्रवान् समवनीय तत्पात्रं पिधातव्यं पात्रान्त-
रेण । उद्धरणे विवरणे च पितृगणाः क्रुद्धा गच्छेयुः । ततश्च
तैर्गतैस्तच्छ्राद्धमभोज्यं भवेत् ते तत्र न भुञ्जीरन् ॥ ७ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये अष्टमः खण्डः ।
१. ., २. 'दि' घ.पाठः.
२०४. आश्वलायनगृह्यसूत्रम् [ चतुर्थोऽध्यायः
अथ नवमः खण्डः ।
एतस्मिन् काले गन्धमाल्यधूपदीपाञ्जनाच्छाद-
नानां प्रदानम् ॥ १ ॥
अर्घ्यदानान्तरं गन्धादीनि ददाति ॥ १ ॥
उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये क-
रवै करवाणीति वा ॥ २ ॥
अथ स्थालीपाकादन्नमुद्धृत्य घृताक्तं कृत्वा ब्राह्मणा-
ननुज्ञापयति अग्नौ करिष्ये इत्यादीनामन्यतमेन वाक्येन ।
अग्नावित्यस्य चोत्तराभ्यामपि सम्बन्धः अग्नौ करवै अग्नौ
करवाणीति ॥ २ ॥
प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ॥ ३ ॥
अथ ब्राह्मणानां प्रत्यभ्यनुज्ञा क्रियतामित्यादिभिर्यथा-
संख्यम् ॥ ३ ॥
अथाग्नौ जुहोति यथोक्तं पुरस्तात् ॥ ४ ॥
अथानुज्ञानानन्तरमग्नौ जुहोति यथोक्तं पिण्डपितृयज्ञे
सोमाय पितृमत इत्यादि ॥ ४ ॥
अनभ्यनुज्ञायां पाणिष्वेव ॥ ५ ॥
यत्राभ्यनुज्ञा नास्ति तस्मिन् विषये ब्राह्मणानां पा-
णिष्वेव जुहुयात् ताभ्यामेव मन्त्राभ्याम् । क्वचाभ्यनुज्ञा
नास्ति यत्रानुज्ञापनं नास्ति तत्र । क्वच तन्नास्ति यत्राग्नौ
होमो नास्ति तत्र, अग्नौ करिष्य इत्येवंरूपत्वादद्नुज्ञापनस्य ।
क्वचाग्नौ होमो नास्ति आहिताग्नेः पार्वणे । तस्य पिण्ड-