सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

प्रथमः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ७

प्रथमः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ७

व्यवहारं प्रायश्चित्तादिकं वा यद्वदन्ति तमसा अन्धकारेणाऽऽविष्टा अजा-
नतः अजानन्तः यस्मिन् पापकर्मणि एभिः प्रायश्चित्तं विहितमिति शेषः ॥१२॥

‘एको वा स्यादनिन्दितः’ ( १.१.९ ) इति यदुक्तं, तत्राऽऽह—

बहुद्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ।
तस्मान्न वाच्यो ह्येकेन बहुज्ञेनाऽपि संशये ॥ १३ ॥

अनु०— ( श्रुति, स्मृति, सदाचार आदि प्रमाणों पर आश्रित ) धर्म के अनेक द्वार हैं । उसका मार्ग अत्यन्त सूक्ष्म और कठिन है । इसलिए संशय होने पर एक व्यक्ति को अकेले निर्णय नहीं देना चाहिए, भले ही वह अनेक विद्याओं का ज्ञाता क्यों न हो ॥ १३ ॥

अनेकश्श्रुतिस्मृतिसदाचारप्रमाणकत्वाद्धर्मस्य बहुद्वारत्वम् । अत एव चाऽस्य सूक्ष्मत्वं दुरनुगत्वं च । तथा हि—

शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः ।
नानाप्रकरणस्थत्वात् सूक्ष्मा दुरनुगा गतिः ॥

तस्मात् इत्युपसंहारः ॥ १३ ॥

बहवः पुनः—

धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थमपि¹ यद् ब्रूयुस्स धर्मः परमःस्मृतः ॥ १४ ॥

अनु०-- धर्मशास्त्र-रूपी रथ पर चलने वाले, वेद-रूपी खड्ग को धारण करने वाले द्विज खेल में ही जो कुछ कह दे वह परम धर्म माना जाता है ॥ १४ ॥

शिष्टानां प्राबल्यं प्रदर्शयितुं धर्मशास्त्राणि वेदांश्च रथायुधैरुपमीयन्ते ॥१४॥

शिष्टैर्हि वर्णाश्रमादयो व्यवस्थापिताः । तेषु पापं न लिप्यत इत्याह—

यथाऽश्मनि स्थितं तोयं मारुतोऽर्कः प्रणाशयेत् ।
तद्वत्कर्त्तरि यत्पापं जलवत् संप्रलीयते ॥ १५ ॥

अनु०-- जिस प्रकार पत्थर के ऊपर एकत्र जल को वायु और सूर्य सुखा कर नष्ट कर देते हैं उसी प्रकार ( शिष्ट वचन के अनुसार ) करने वाले का जो भी पाप होता है, वह जल के समान नष्ट हो जाता है ॥ १५ ॥


१. अपिशब्दात् किमुत्यं प्रतीयते । यदि विचार्य ब्रूयुः, तर्हि किं वक्तव्यमिति ।

८बौधायन-धर्मसूत्रम्[ देशाचारः

अथैनामघिनोऽप्यवस्थां परिज्ञाय प्रायश्चित्तं विधीयत इत्याह—

शरीरं बलमायुश्च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद्बुद्ध्या प्रायश्चित्तानि निर्दिशेत् ॥ १६ ॥

अनु०--शरीर, बल, आयु, अवस्था, समय और कर्म का पूरी तरह से विचार करके ही धर्मज्ञाता विवेकपूर्वक प्रायश्चित्त का विधान करे ॥ १६ ॥

शरीरं वातप्रकृतिकं पित्तप्रकृतिमित्यादि । आयुः ज्ञानं अयतेर्गत्यर्थादौणादिकः उण्प्रत्ययः । वयः बाल्यादिलक्षणम् । कालः शीतोष्णादिलक्षणः । कर्म प्रायश्चित्तस्य निमित्तभूतं सानुबन्धं हिंसादि ॥ १६ ॥
इति प्रथमप्रश्ने प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥


प्रथमाध्याये द्वितीयः खण्डः

श्रौतस्मार्तशिष्टागम इति त्रिविधो धर्मो व्याख्यातः । तथा तत्र तत्र व्यवस्थिततया शिष्टाचारितानां धर्माणां—

पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः ॥ १ ॥

अनु०--दक्षिण और उत्तर में पाँच विषयों में पारस्परिक विरोध है ॥ १ ॥
टिप्पणी--गोविन्दस्वामी ने व्याख्या में दक्षिण से नर्मदा और विन्ध्य के बीच के भूप्रदेश का तथा उत्तर से विन्ध्य से लेकर हिमालय तक का प्रदेश बताया है ।

दक्षिणेन नर्मदामुत्तरेण¹ कन्यातीर्थम् । उत्तरतस्तु दक्षिणेन हिमवन्तमुदग्विन्ध्यस्य । एतद्देशप्रसूतानां शिष्टानां परस्परं पञ्चधा विप्रतिपत्तिः विसंवादः 'यान् पदार्थान् अनुतिष्ठन्ति दाक्षिणात्याः न तानुदीच्याः । यानुदीच्या न तान् दाक्षिणात्याः' इति ॥ १ ॥

तत्र प्रथमम्—

यानि दक्षिणतस्तानि व्याख्यास्यामः ॥ २ ॥

अनु०—इनमें जो आचरण विशेषतः दक्षिण में प्रचलित हैं उनकी हम व्याख्या करेंगे ॥ २ ॥

²निगदव्याख्यातमेतत् ॥ २ ॥


१. कन्याकुमारी इति दक्षिणसमुद्रतीरे प्रसिद्धं स्थानम् ।
२. पाठमात्रेणार्थोऽवगम्यते । नाऽत्र व्याख्यानापेक्षेत्यर्थः ।