बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
प्रथमः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ३
प्रथमः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ३
अथ शिष्टानाह—
शिष्टाः खलु विगतमत्सराः निरहङ्काराः कुम्भीधान्या अलोलुपा दम्भदर्पलोभमोहक्रोधविवर्जिताः ॥ ५ ॥
**अनु०—**शिष्ट वे हैं जो दूसरों के गुणों से द्वेष न करते हों, अहङ्कारहीन हों, जो कुम्भीधान्य ( दस दिन के लिए अन्न का संग्रह करने वाले हों ), अलोलुप हों, और जिनमें दम्भ, दर्प, लोभ, मोह और क्रोध दुर्गुण न हों ॥ ५ ॥
खल्विति वाक्यालङ्कारार्थो निपातः । मात्सर्यं परगुणाक्षमता । अहङ्कारः अभिजनविद्यानिमित्तो गर्वः । ¹कुम्भोधान्याः दशाहं जीवनौपयिकधान्याः । अनेन च सन्तुष्टतोपलक्ष्यते । अलोलुपता वैतृष्ण्यम् । दम्भो लोकप्रत्ययार्थ धर्मध्वजोच्छ्रायः । दर्पो ²धर्मातिरेकमूलोऽतिहर्षः । लोभः प्रसिद्धः । मोहः कृत्याकृत्यविवेकशून्यता । दम्भादिविवर्जिताः ॥ ५ ॥
किञ्च—
³धर्मेणाऽधिगतो येषां वेदस्सपरिवृंहणः ।
शिष्टास्तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः ॥ इति ॥ ६ ॥
**अनु०—**जिन्होंने इतिहास, पुराण, आदि विभिन्न प्रभेदों सहित वेद का अध्ययन तथा अर्थ का बोध धर्मानुसार प्राप्त कर लिया है, जो श्रुति को ही धर्म का प्रत्यक्ष हेतु मानते हैं, और उसके ( स्मार्त, शिष्टाचारण की श्रुति और ) अनुमान के ज्ञाता हैं ॥ ६ ॥
**टिप्पणी—**इस पद्य के अन्त में 'इति' यह सूचित करता है कि यह उद्धृत अंश है । "जो वेद से अनुमान निकालने के ज्ञान से युक्त हैं, और श्रुति से इन्द्रिय-प्रत्यक्ष प्रमाणों को प्रस्तुत करने में समर्थ हैं ।" = ब्यूह्लर कृत अंग्रेजी अनुवाद के अनुसार ।
येषामिति कृद्योगे षष्ठी 'कर्तृकर्मणोः कृति' इति । इतिहासपुराणाभ्यां सहितो वेदो ग्रन्थतोऽर्थतश्च यैरवगत इत्यर्थः । बृंहणग्रहणं स्मृतिसदाचारशास्त्राणामप्युपलक्षणार्थम् । श्रुतिप्रत्यक्षहेतवश्च श्रुतिरेव प्रत्यक्षं कारणमस्य धर्म-
१. स्वकुटुम्बपोषणे षडहंमात्रपर्याप्तधान्यः कुम्भीधान्य इति विज्ञानेश्वरो गोविन्दराजोऽपि । वर्षनिर्वाहोचितधान्यः कुम्भीधान्य इति कुल्लूकः । षाण्मासिकधान्यादिनिश्चयः इति मेधातिथिः ॥ ( मनु० ४. ७. )
२. धर्मातिरेकमूलान्मतिहर्षः इति क. पु.
३. श्लोकोऽयं किञ्चिदन्यथयितो मानवे दृश्यते ( मनु० १२. १०९ )
| ४ | बौधायन-धर्मसूत्रम् | [ परिषद् |
|---|
स्येति येषां दर्शनमिति विग्रहः । अनेन मीमांसकाः कीर्तिताः । अत एव तदनुमानज्ञास्ते भवन्ति स्मार्तशिष्टागमयोश्चैत्यनुमानविद् इत्यर्थः । एवं च शाखाधिगतो यो धर्मस्सोऽनुष्ठेय इत्यभिप्रायः ॥ ६ ॥
तदभावे दशावरा परिषत् ॥ ७ ॥
अनु०—उपर्युक्त लक्षण वाले शिष्टजनों के न होने पर कम से कम दस सदस्यों की परिषत् धर्म का निर्णय करने में प्रामाणिक होती है ॥ ७ ॥
उक्तलक्षणशिष्टाभावे दशावरा परिषत् ; तया यो विधीयते सोऽनुष्ठेय इत्यर्थः ॥ ७ ॥
तच्च परकीयमतेन । स्वमतं प्रदर्शयितुमाह—
अथाप्युदाहरन्ति—
चातुर्वैद्यं विकल्पी च अङ्गविद्धर्मपाठकः ।
आश्रमस्थास्त्रयो विप्राः पर्षदैषा दशावरा ॥ ८ ॥
अनु०—इस विषय में भी यह पद्य उद्धृत किया जाता है—
चार वेदों को जानने वाले चार व्यक्ति, एक विकल्पी अर्थात् मीमांसक, वेद के अङ्गों (व्याकरणादि) का ज्ञाता, धर्मशास्त्र का पाठ करने वाला (अर्थात् धर्मशास्त्र का अर्थ जानने वाला), तीन विभिन्न आश्रमों के तीन ब्राह्मण—इनकी दस सदस्यों वाली परिषत् होती है ॥ ८ ॥
टिप्पणी—चार व्यक्तियों में प्रत्येक एक-एक वेद का ज्ञाता होता है । तीन विभिन्न आश्रमों के ब्राह्मणों ‘आश्रमस्थास्त्रयो विप्राः’ के विषय में टीकाकार गोविन्द स्वामी का मत है कि वानप्रस्थी वन में निवास करने के कारण परिषद् में नहीं आ सकता । परिव्राजक भिक्षा के लिए ग्राम में आता जाता रहता है, इसी प्रकार नैष्ठिक ब्रह्मचारी भी परिषत् में लिया जा सकता है । "चाश्रमस्थास्त्रयो मुख्याः" भी पाठ है ।
चतस्र एव विद्याश्चातुर्वैद्यं तेन तद्विदो लक्ष्यन्ते । विकल्पी मीमांसकः । अङ्गं व्याकरणादि तज्ज्ञः । धर्मपाठकः तन्मूलिका तदर्थावगतिरिति पाठग्रहणम् । तदभिज्ञ इत्यर्थः । तान् विशिनष्टि—आश्रमस्थास्त्रयो विप्राः अवानप्रस्थास्त्रयो गृह्यन्ते । वानप्रस्थानां पुनर्वनाधिवासत्वादनधिकारो धर्मोपदेशस्य । परिव्राजकोऽपि भिक्षार्थी ग्राममियादेव । तथा च गौतमः—'प्रागुपोत्तमात्रय आश्रमिणः' इति । विप्रा इति क्षत्रियवैश्ययोर्धर्मोपदेशानधिकारप्रदर्शनार्थं विप्रग्रहणम् । 'ब्राह्मणो धर्मान् प्रब्रूयात्' इति वसिष्ठवचनाच्च । 'आश्रमस्था-
प्रथमः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ५
त्रयो मुख्याः' इति पाठे नैष्ठिकब्रह्मचारो गृह्यते । 'यथा धर्मस्कन्धब्राह्मणे ताननुक्रम्य 'सर्व एते पुण्यलोका भवति' इति । एवंगुणास्त्रय आश्रमिणो दशाद्वरा परिषद् भवति ॥ ८ ॥
अथाऽनुकल्पमाह—
पञ्च वा स्युस्त्रयो वा स्युरेको वा स्यादनिन्दितः ।
प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः ॥ ९ ॥
**अनु०—**अथवा परिषद् में पाँच या तीन सदस्य हो सकते हैं, यहाँ तक कि पातक आदि दोषों से मुक्त एक श्रेष्ठ आचरण वाला व्यक्ति भी धर्म के विषय में निर्णय दे सकता है, किन्तु उससे भिन्न आचरण वाले पातकादि दोष वाले सहस्रों व्यक्तियों के समूह को भी धर्म के विषय में प्रमाण नहीं माना जा सकता ॥ ९ ॥
इस संबन्ध में याज्ञवल्क्यस्मृति १.९ में कहा गया है :—
चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥
इसी प्रकार मनुस्मृति १२-१११–११३ में कहा गया है—
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्या दशावरा ॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥
एकोऽपि वेदविद्धर्मं यं व्यवस्येद् द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाऽज्ञानादुदितोऽयुतैः ॥
सम्भवापेक्षो विकल्पः । अनिन्दितः पातकादिदोषरहितः । तृतीयो वाशब्दोऽपि शब्दस्याऽर्थे द्रष्टव्यः । आह च—
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्विचक्षणः । इति ॥
१. छान्दोग्ये त्रयो धर्मस्कन्धाः इत्यारभ्याऽऽम्नातं ब्राह्मणं धर्मस्कन्धब्राह्मणम् ।
२. चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यमेव वा । सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥ इति याज्ञवल्क्यः ( या. स्मृ. १.९ )
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद् दशावरा ॥ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः । स विज्ञेयः परो धर्मो नाऽज्ञानादुदितोऽयुतैः ॥ इति मनुः ( म. स्मृ. १२. १११–११३ )
| ६ | बौधायन-धर्मसूत्रम् | [ परिषत् |
|---|
अपिशब्दादेकेन न वाच्यम्। वक्ष्यति च 'बहुद्वारस्य धर्मस्य' ( १.१३ ) इति। तुशब्दोऽवधारणार्थः ॥ ९ ॥
'अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशस्समेतानां परिषत्त्वं न विद्यते ॥ इति ॥ १० ॥
**अनु०—**व्रतहीन, मन्त्र को न ग्रहण करने वाले, केवल जाति के नाम पर जीविका निर्वाह करनेवाले, सहस्र व्यक्तियों के समूह को भी परिषत् के लक्षण से युक्त नहीं माना जाता है ॥ १० ॥
'नेतरे तु सहस्रशः' इति² सामर्थ्ये सिद्धे सत्यारम्भादत्यन्तापद्यव्रतादीननुगृह्णाति । आह च—
जातिमात्रोपजीवी च कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन ॥ इति ॥ १० ॥
'नेतरे तु सहस्रशः' इत्युक्तम्, तत्रैव निन्दामाह—
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चाऽनधीयानस्त्रयस्ते नामधारकाः ॥ ११ ॥
**अनु०—**जैसा काठ का हाथी या चमड़े का कृत्रिम मृग होता है वैसा ही वेदाध्ययन न करने वाला ब्राह्मण भी होता है और ये तीनों केवल जाति का नाम ही धारण करते हैं ॥ ११ ॥
स्पष्टम् ॥ ११ ॥
अत्यन्तापद्यपि एकोद्दिष्टभोक्तृवत् वक्तृणामपि दोषोऽस्तीति दर्शयितुमाह—
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः ।
तत्पापं शतधा भूत्वा वक्तॄन् समधिगच्छति ॥ १२ ॥
**अनु०—**अज्ञान रूपी अन्धकार से घिरे हुए, धर्म को न जानने वाले मूर्ख जिस (पाप कर्म के विषय में किसी प्रायश्चित्त) का विधान करते हैं वह पाप सौ-गुना हो कर उस ढोंगी धर्मवक्ता के ऊपर ही आ पड़ता है ॥ १२ ॥
१. प्राजापत्यादिभिः कृच्छ्रचान्द्रायणादिभिश्च व्रतं रहिताः अव्रताः। अनधीतवेदाः अमन्त्राः। सूत्रमिदं खण्डान्त एव पठितं मूलपुस्तकयोः। पापेभ्यो विप्रमुच्यत इत्यंशस्य द्विरुक्तिरपि दृश्यते।
२. सामान्ये सति इति. क पु.